ओयिनां धनबीर सिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ओयिनां धनबीर् सिंहः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
ओयिनां धनबीर सिंह


ओयिनां धनबीर् सिंहः
जनकः-ओयिनां शान्तिकुमारसिंहः
ग्रामः- कोचेङ्ग् बान्निङ्ग् लेख्ये
राज्यम्- मणिपुरम्

अन्ये यदा आपदि भवन्ति तदा ये सुरक्षिताः भवन्ति ते , आपदि स्थितानां रक्षणं कर्तुं प्रयतन्ते इति अस्माभिः ज्ञातमस्ति । परन्तु केवलं षड्वर्षीयः बालः यदा स्वयमापदि स्थितः तदा धैर्येण स्वं स्वामित्राणि च आपदः संरक्षितवान् इति तु महासाहसस्य कार्यं खलु । ओयिनां धनबीर्सिंहः षड्वर्षीयः बालकः। मणिपुरराज्यस्य कोचेङ्ग् बान्निङ्ग् लेख्ये इति ग्रामस्य बालकः अयम् । जनकः ओयिनां शान्तिकुमारसिंहः प्रौढशालायां शिक्षकः । तस्य ग्रामस्य पार्श्वे मोयिराङ् कुल्या अस्ति । वर्षाकाले परितः वर्तमानं जलं तत्रागत्य पूर्णरूपेण प्रवहति । १९८६ तमे वर्षे डिसेम्बरमासे तस्यां कुल्यायां जलम् उन्नतस्तरे एव आसीत् । कुल्याजलस्य विस्तारः चतुर्दश पादपरिमितः, तस्याःगभिरता अष्टपादपरिमिता । कुल्यां अतिक्रान्तुं जनाः तटयोः मध्ये चतस्रः वंशयष्टिकाः स्थापितवन्तः। तस्मिन् राज्ये जून्मासतः वर्षारम्भः भवति । प्रगतषण्मासेभ्यः ताः यष्टिकाः शुष्काः जाताः अतः साररहिताः आसन् । जनाः एतस्य निर्माणे यथा रुचिं दर्शितवन्तः तावतीं रुचिं तस्य रक्षणे न दर्शितवन्तः आसन् । १९८६ तमवर्षस्य डिसेम्बर्मासस्य द्वितीये दिनाङ्के अपराह्णे त्रिवादने धनबीर्सिंहः तस्य मित्राणि च क्रीडितुम् एकत्र सम्मिलिताः । तेषु सलां बसन्तसिंहः नववर्षीयः , सः एव ज्येष्ठः। इतरौ सलां ननावोसिंहः, एवं भीमसिंहः च । द्वावपि चतुर्वर्षीयौ । ते सर्वे चिन्तितवन्तः यत् 'कुल्यायाः अपरपार्श्वे गत्वा क्रीडनीयम् ’ इति । तेषां सर्वेषां वंशयष्टिकानिर्मितसेतोः उपरि चलित्वा गमनागमनस्य अभ्यासः आसीत् । चत्वारः अपि यदा तस्य सेतोः उपरि गच्छन्तः आसन्, तदा सत्त्वरहिताः ताः यष्टिकाः भग्नाः, चत्वारः अपि बालाः कुल्याजले पतिताः । जले पतितान् अन्ये केऽपि न दृष्टवन्तः । यष्टिकानां मध्याभागाः जले, अग्रभागाः भूमौ च आसन् । धनबीर्सिंहः यदा जले पतित्वा उपरि यदा आगतः तदा वंशयष्टिकायाः अग्रं भागं दृष्टवान् । सः ताम् आक्रष्टुम् प्रयत्तवान् । प्रयत्नेन गृहीतवान् च । यद्यपि जलप्रवाहः तम् अग्रे कर्षति स्म तथापि सः धैर्येण वंशयष्टिं सम्यक् गृहीत्वा तस्याः साहाय्येन तटस्य उपरि आगतवान् । स्वमित्राणि नागतानि इति तस्य चिन्ता । सपदि तत्र स्थितां अन्यां वंशयष्टिं स्वीकृत्य तटे धावन् बसन्तसिंहस्य समीपे स्थापितवान् । बसन्तसिंहः तां गृहीत्वा तटस्य उपरि आगतवान् । एतौ उभावपि अन्यौ रक्षितुम् उद्यतौ । अन्यां यष्टिं स्वीकृत्य तौ जले पतितयोः बालयोः समीपे स्थापितवन्तौ । कनिष्ठौ तौ ननावूसिंहः भीमसिंहः च ते यष्टिके गृहीतवन्तौ । धनबीर्सिंहः बसन्तः च तौ तटं प्रति आक्रष्टुं प्रयत्नम् आरब्धवन्तौ । तस्मिन् समये धनबीरस्य अग्रजा शान्तिराणिः शालातः गृहगमनमार्गे तत्र आगतवती । तस्मिन् समये सा आर्द्रवस्त्रयुक्तान् एतौ बालौ पश्यति । जले स्थितौ ननावों तथा भीमसिंहं च पश्यति । भयेन सा आक्रोशनं कृतवती ।आक्रोशनं श्रुत्वा समीपस्थाः जनाः प्रधाव्यः तत्र आगताः । आगतेषु समुदायकार्यकर्ता श्रीतोम्बासिंहः अन्यतमः। स सत्त्वरं ननावोभीमसिंहयोः प्रथमचिकित्सां प्रदाय, उदरे श्वासकोषे च प्रविष्टं जलं तौ नोदयित्वा निष्कासितवान् । तयोः श्वासोच्छ्वासप्रक्रिया सम्यक् आरब्धा । सम्मिलिताः जनाः धनबीरस्य बसन्तस्य च साहसं प्रशंसितवन्तः । तद्दिने प्रवाहपरिहारार्थं तत्र आगतः विभागाधिकारी एतां वार्तां ज्ञातवान् । सः अधिकारी एतयोः साहसविषये सर्वकाराय पत्रमुखेन निवेदितवान् । भारतबालकल्याणमण्डली धनबीरः राष्ट्रप्रशस्त्यर्थं योग्यः इति निर्णीतवती । २५-१-८८ दिने धनबीराय प्रशस्तिं पदकम् उपायनानि च दत्त्वा पुरस्कृतवन्तः । भारतसर्वकारे प्रशासनिकसेवायां अधिकरी भवितुं तस्य महती इच्छा अस्ति । एतेन सम्मानेन सः प्रोत्साहितः अस्ति । ""

"https://sa.wikipedia.org/w/index.php?title=ओयिनां_धनबीर_सिंह&oldid=406438" इत्यस्माद् पुनः प्राप्तिः