मणिपुरराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मणिपुरम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मणिपुरराज्यम्
—  State  —
Official seal of मणिपुरराज्यम्
मुद्रिका
भारतस्य भूपटे मणिपुरराज्यम्
मणिपुरराज्यस्य भूपटः
Coordinates (इम्फाल्): २४°४९′०१″उत्तरदिक् ९३°५७′००″पूर्वदिक् / 24.817°उत्तरदिक् 93.95°पूर्वदिक् / २४.८१७; ९३.९५निर्देशाङ्कः : २४°४९′०१″उत्तरदिक् ९३°५७′००″पूर्वदिक् / 24.817°उत्तरदिक् 93.95°पूर्वदिक् / २४.८१७; ९३.९५
Country  India
Established २१ जनेवरी १९७२
Capital इम्फाल्
Largest city Imphal
Districts 9
सर्वकारः
 • Governor गौरबचन् जगत्
 • Chief Minister ओक्रम् इबोबि सिंहः
 • Legislature Unicameral (60 seats)
 • Parliamentary constituency 2
 • High Court Gauhati High Court - Imphal Bench
विस्तीर्णता
 • संहतिः <
क्षेत्रविस्तारः 23rd
जनसङ्ख्या (2011)
 • संहतिः २७,२१,७५६
 • रैङ्क् 22nd
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-MN
HDI 0.707 (high)
HDI rank 5th (2005)
Literacy 79.85% (2011 Census)
अधिकृता भाषा (Meiteilon) मीटीलन् अथवा मणिपुरीभाषा
जालस्थानम् Manipur Official Website


मणिपुरराज्यम् (Manipur) भारतस्य किञ्चन राज्यम् । ईशान्यभारते स्थितम् अस्ति एतद् राज्यम् । अस्य राज्यस्य राजधानी इम्फाल् नगरम् । मणिपुरस्य उत्तरदिशि नागाल्याण्ड्राज्यं, दक्षिणे मिझोरां, पश्चिमदिशि असमराज्यं, पूर्वसीमायां [[बर्मा|बर्मादेशः] च विद्यते । अस्य विस्तारः विद्यते २२, ३४७ चतरस्रकिलोमीटर्मितः ।

राज्यस्य उपत्यकाप्रदेशेषु निवसन्तः मीटीस्जनाः जनसङ्ख्यायाः ६०% सन्ति, किन्तु तैः आक्रान्तः भूभागः १०%मात्रम् । तेषां भाषा विद्यते मीटीलन् अथवा मणिपुरीभाषा । इयं भाषा १९९२ तमे वर्षे भारतसर्वकारस्य राष्ट्रियभाषासु अन्यतमा इति घोषिता अस्ति । यवनाः (मीटी-पङ्गल्), कुकीजनाः, नागजनाः, पैट्स् अन्ये च जनसङ्ख्यायाः ४०% सन्ति ये सम्पूर्णस्य मणिपुरराज्यस्य ९०% भागम् आक्रामन्ति । मणिपुरं सूक्ष्मसीमायुक्तराज्यमिति मन्यते ।

परिचयः[सम्पादयतु]

मणिपुरस्य शाब्दिकार्थः 'आभूषणस्य भूमिः' इति । भारतस्य स्वातन्त्र्यतः पूर्वमिदं राजशासने आसीत् । अनन्तरं भारतस्य केन्द्रशासितराज्यं जातम् । इम्फाल् अस्य राजधानी । अस्य राज्यस्य समग्रः प्रदेशः पर्वतमयः । वार्षिकी वर्षा ६५ अङ्ग्गुलिमिता । अत्र सामान्यतः ६०विधाः नागाजातीयाः तथा कूकीजातीयाः वसन्ति । अत्रत्याः जनाः सङ्गीते इतरकलासु च प्रवीणाः भवन्ति । अत्र अनेकाः भाषाः भाषन्ते । पर्वतप्रदेशेषु चायस्य उपत्यकासु धान्यस्य च वर्धनं भवति । मणिपुरमार्गेण एव बर्मादेशं प्रति भूमार्गः कल्पितः अस्ति ।

रासलीलानृत्यम्

अस्मिन् राज्ये प्राकृतिकसंसाधनानां प्रचुरभण्डारः अस्ति । अत्रत्यं प्राकृतिकसौन्दर्यं नयनानन्दकरम् अस्ति । मनसः प्रसन्नताकरणे समर्थाः सुन्दराः जलपाताः सन्ति । विविधवर्णीयपुष्पाणां सस्यानि सन्ति । दुर्लभाः वनस्पतयः सन्ति । वैविध्यमयं जीवजगत् अस्ति । पवित्रम् अरण्यं सदा वहन्त्यः नद्यः सन्ति । पर्वतशिखरेषु प्रसृतं हरिद्वैभवम् अस्ति । वक्रगत्या प्रवहन्तः निर्झराः सन्ति । लोकटकनामकं सरोवरं अत्रत्यं प्रमुखं सरोवरम् । भौतिकाधारैः राज्यमेतत् द्विधा विभक्तुं शक्यते -घट्टप्रदेशः ,उपत्यका चेति । परितः पर्वताः भवन्ति ,मध्ये उपत्यका वर्तते । मणिपुरीशैल्या क्रियमाणं रासलीलानृत्यं जगत्प्रसिद्धम् अस्ति । मणिपुरीनृत्यम् अत्रत्यः विशिष्टः नृत्यप्रकारः । राज्यस्य कला तथा संस्कृतिः विश्वस्य मानचित्रे स्वस्थानं कल्पितवत्यौ स्तः ।

भौगोलिकम्[सम्पादयतु]

मणिपुर-राज्यस्य विस्तारः २२,३२७ चतुरस्रकिलोमीटर्मितः अस्ति । भारतस्य पूर्वभागे इदं राज्यम् अस्ति । अस्य राज्यस्य पूर्वदिशि म्यान्मार-देशस्य अन्ताराष्ट्रियसीमा, दक्षिणपश्चिमदिशि असमराज्यम्, उत्तरे नागालैण्ड्-राज्यं, दक्षिणपश्चिमदिशि मिजोराम-राज्यं च अस्ति । अस्य राज्यस्य महत्तमः भागः पर्वतीयः अस्ति । इदं राज्यं परितः पर्वताः सन्ति । तेषां पर्वतानाम् औन्नत्यं ८०० तः ३,००० मीटरमितं यावत् अस्ति । मणिपुर-राज्यस्य दक्षिणपूर्वदिशि शैलप्रस्थस्थलं वर्तते । “इसो पीक” इत्ययं मणिपुर-राज्यस्य बृहत्तमः पर्वतः अस्ति । अयं पर्वतः २,९९४ मीटरमितः उन्नतः अस्ति [१]

नद्यः[सम्पादयतु]

इम्फाल-नदी, बराक-नदी च मणिपुर-राज्यस्य प्रमुखे नद्यौ स्तः । इम्फाल-नदी चिन-पर्वतात् प्रवहति । इयं नदी अन्ते म्यान्मार-देशस्य चिदिवन-नद्यां मिलति । बराक-नदी उत्तरतः दक्षिणपश्चिमदिशि प्रवहति । अन्ते ब्रह्मपुत्रा-नद्यां सम्मिलति । इरोल-नदी, नाम्बुल-नदी, थौबल-नदी च मणिपुर-राज्यस्य अन्यतमाः नद्यः सन्ति [२]

जलवायुः[सम्पादयतु]

मणिपुर-नगरस्य जलवायुः समशीतोष्णः अस्ति । अस्य राज्यस्य इम्फाल-मण्डले सामान्यतः वर्षामानं ९३३ मिलिमीटरमितम् अस्ति । तमेङ्गलाङ्ग-मण्डले इदं मानं २,५९५ मिलिमीटरमितं भवति । अस्य राज्यस्य तापमानं ० डिग्री सेल्सियस् मात्रातः ३६ डिग्री सेल्सियस् मात्रा-पर्यन्तं भवति । अस्मिन् राज्ये चतुष्प्रकारकाणि वनानि प्राप्यन्ते । उष्णकटिबन्धीयार्द्धचिररहितानि वनानि, उष्णकटिबन्धीयानि मानसूनवनानि, अर्द्धोष्णकटिबन्धीयानि चीड-वनानि, शुष्कशीतोष्णकटिबन्धीयवनानि च एतानि चत्वारि वनानि भवन्ति । एतेषु वनेषु “शिराय लिली” नामकं पुष्पं प्राप्यते । इदं पुष्पं “स्वर्गपुष्पम्” इति कथ्यते । सम्पूर्णे विश्वस्मिन् इदं पुष्पं कुत्रापि न प्राप्यते [३]

इतिहासः[सम्पादयतु]

“पं. जवाहरलाल नेहरू” इत्याख्येन मणिपुर-राज्याय “भारतस्य रत्नम्” इति सम्माननं प्रदत्तम् । मणिपुर-राज्यस्य राजधानी अपि “भारतस्य पुरुषः” इति कथ्यते । राज्यमिदम् उत्सवानां भूमिः अपि कथ्यते । मणिपुर-राज्यस्य इतिहासः अतीव प्राचीनः अस्ति । “प्रथमशताब्द्यां मणिपुर-राज्यस्य स्थापना जाता” इति मन्यते । अस्य राज्यस्य इतिहासः परिवर्तनशीलः, गौरवपूर्णश्चास्ति । ई. स. १०७४ तमवर्षपर्यन्तं “काबब घाटी” इत्येतत् स्थलं मणिपुर-राज्ये सम्मिलितम् आसीत् । ई. स. १५४२ तमे वर्षे अस्य राज्यस्य विस्तारः कृतः । ई. स. १७६२ तमे वर्षे जयसिंह-राजा अस्य राज्यस्य शासकः आसीत् । तस्मिन् काले म्यान्मार-देशेन अस्मिन् राज्ये आक्रमणं कृतम् आसीत् । तदा जयसिंह-राज्ञा ब्रिटिश-शासकैः सह सन्धिः कृतः । तेन सन्धिना म्यान्मार-देशस्य आक्रमणं विफलं जातम् । अनन्तरम् ई. स. १८२६ तमे वर्षे याण्डबु-सन्धिः जातः । तेन युद्धं शान्तम् अभवत् । किन्तु मणिपुर-राज्यस्य जनानां समस्यायाः निवारणं न अभवत् । तेन कारणेन ब्रिटिश-सर्वकारेण मणिपुरं स्थानीयराज्यत्वेन घोषितम् आसीत् । ई. स. १८९१ तमे वर्षे इदं राज्यं ब्रिटिश्-सर्वकाराधीनम् आसीत् [४]

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं मणिपुर-राज्यस्य जनसङ्ख्या २२,२१,७५६ अस्ति । अत्र १३,६९,७६४ पुरुषाः, १३,५१,९९२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे १२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२२ जनाः। अत्र पुं-स्त्री अनुपातः १०००-९८७ अस्ति । अत्र साक्षरता ७९.८३% अस्ति [५]

मणिपुरराज्यस्य मण्डलानि[सम्पादयतु]

मणिपुरराज्ये ९ मण्डलानि सन्ति ।

मण्डलम् विस्तीर्णता जनसङ्ख्या केन्द्रम्
बिष्णुपुरमण्डलम् ४९६ २०८,३६८ बिष्णुपुर
चूरचन्दपुरमण्डलम् ४५७० २२७,९०५ चूरचन्दपुर
चन्देलमण्डलम् ३३१३ ११८,३२७ चन्देल
पूर्व-इम्फालमण्डलम् ७०९ ३९४,८७६ पोरोम्पट्
पश्चिम-इम्फालमण्डलम् ५१९ ४४४,३८२ लाम्फेल्पट्
सेनापतिमण्डलम् ३२७१ २८३,६२१ सेनापति
तमेङ्ग्लोङमण्डलम् ४३९१ १११,४९९ तमेङ्ग्लोङ्ग
थौबालमण्डलम् ५१४ ३६४,१४० थौबाल्
उख्रुलमण्डलम् ४५४४ १४०,७७८ उख्रुल

राजनीतिः[सम्पादयतु]

मणिपुर-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ६० स्थानानि सन्ति । राज्येऽस्मिन् लोकसभायाः द्वे स्थाने, राज्यसभायाः एकं स्थानम् अस्ति । ई. स. १९७२ तमे वर्षे सर्वकारेण मणिपुर-राज्यं पूर्णराज्यत्वेन स्वीकृतम् आसीत् । तस्मिन्नेव वर्षे मणिपुर-राज्याय “विशेषराज्यस्य स्थानं प्रदत्तम् । “फेडरल् पार्टी ऑफ् मणिपुर”, “मणिपुर स्टेट् कॉङ्ग्रेस् पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस् पक्ष”, “भारतीय जनता पक्ष”, “कम्युनिस्ट् पार्टी ऑफ् इण्डिया”, “मणिपुर पीपुल्स् पार्टी” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति [६]

महानगराणि[सम्पादयतु]

मणिपुर-राज्ये चत्वारि महानगराणि सन्ति । इम्फाल-नगरं, तमेङ्गलोङ्ग-नगरं, बिष्णुपुर-नगरं, सेनापति-नगरं च [७] [८]

इम्फाल[सम्पादयतु]

इम्फाल-नगरं मणिपुर-राज्यस्य राजधानी अस्ति । द्वितीयविश्वयुद्धस्य इतिहासे इम्फाल-नगरस्य उल्लेखः प्राप्यते । “काङ्गला-दुर्गः” इम्फाल-नगरस्य प्रमुखं पर्यटनस्थलं वर्तते । इम्फाल-नगरस्य “खामीर बन्द बाजार” इत्ययं हट्टः अपि दृष्टव्यः । “इमा किथेल” अस्य नगरस्य अपरः हट्टः वर्तते । स्त्रियः अस्य हट्टस्य सञ्चालनं करोति । अत्र पोलो-क्रीडायाः क्रीडाङ्गणम् अस्ति । साम्प्रतमपि इदं सक्रियम् अस्ति । “कैबुल-लामजो-राष्ट्रियोद्यानम्”, मोइराङ्ग, एण्ड्रो, सेकता च इत्यादीनि मणिपुर-राज्यस्य वीक्षणीयस्थलानि सन्ति । द्वितीयविश्वयुद्धानन्तरम् इम्फाल-नगरं मणिपुरराज्यस्य राज्ञः राजधानी आसीत् । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरमपि इम्फाल-नगरम् आङ्ग्लशासकानाम् आधिपत्ये आसीत् । “यम्फाल” इति शब्देन “इम्फाल” नामकरणम् अभवत् । यम्फाल इत्यस्य अर्थः “ग्रामाणां भूमिः” इति । इदं नगरं परितः पर्वताः सन्ति । ते पर्वताः दुर्गः इव अस्य नगरस्य रक्षणं कुर्वन्ति । अस्य नगरस्य समीपे बहव्य नद्यः प्रवहन्ति । इम्फाल-नगरस्य प्राकृतिकं सौन्दर्यम् अपि मनोहरम् अस्ति । इदं नगरं वन्यसौन्दर्याय प्रसिद्धम् अस्ति । अस्मिन् नगरे प्राचीनावशेषाः, मन्दिराणि, स्मारकाणि च सन्ति । अतः पर्यटकाः, इतिहासकाराः नगरे आकृष्टाः भवन्ति । युद्ध-स्मारकाणि इम्फाल-नगरस्य महत्त्वपूर्णानि स्थलानि सन्ति । नगरेऽस्मिन् बह्व्यः जातयः निवसन्ति । काबुईस, टाङ्गखुल्स्, पाइते च इत्यादयः जनजातयः निवसन्ति । अस्मिन् नगरे मारवाडीजनाः, पञ्जाबीजनाः, बिहारीजनाः, बङ्गालीजनाः चापि निवसन्ति । “मेइतिलोन” “मणिपुरी” वा अस्य नगरस्य प्राथमिकभाषा वर्तते । आङ्ग्ल्, हिन्दी, तिब्बती, बर्मी च इत्यादिभिः भाषाभिः अपि व्यवहरन्ति जनाः । अस्य नगरस्य जलवायुः सुखदः, शान्तः च भवति । अतः ग्रीष्मर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति ।

इम्फाल-नगरं भूमार्गेण मणिपुर-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इदं नगरं गुवाहाटी-नगरात् ४७९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गेण, १५० क्रमाङ्कस्य राष्ट्रियराजमार्गेण च सह सम्बद्धम् अस्ति । इम्फाल-नगरात् दीमापुर-नगरं २०८ किलोमीटर्मिते दूरे स्थितम् अस्ति । बसयानैः, भाटकयानैः इम्फाल-नगरं गन्तुं शक्यते । इम्फाल-नगरे रेलस्थानकं नास्ति । अस्य नगरस्य समीपे अपि रेलस्थानकम् नास्ति । दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम अस्ति । इम्फाल-नगरे एकं विमानस्थानकम् अस्ति । इम्फाल-नगरात् विमानस्थानकं ८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुख-नगरैः सह सम्बद्धम् अस्ति । इम्फाल-विमानस्थानकात् गुवाहाटी-नगराय, आइजोल-नगराय, बेङ्गळूरु-महानगराय, सिलचर-नगराय च इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

तमेङ्गलाङ्ग[सम्पादयतु]

तमेङ्गलाङ्ग-नगरं मणिपुर-राज्यस्य तमेङ्गलाङ्ग-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् अत्यन्तं सुन्दरम् अस्ति । मण्डलस्यास्य सांस्कृतिकं, प्राकृतिकं च वैशिष्ट्यम् अपि अद्भुतम् अस्ति । अस्मिन् मण्डले पशूनां, वनस्पतीनां च विभिन्नप्रजातयः प्राप्यन्ते । मण्डलमिदं मणिपुर-राज्यस्य पश्चिमदिशि स्थितम् अस्ति । अस्य मण्डलस्य पूर्वोत्तर-दिशि सेनापति-मण्डलं, दक्षिणदिशि चुराचाँदपुरमण्डलं, पश्चिमदिशि इम्फाल-मण्डलं च स्थितम् अस्ति । २०११ वर्षस्य जनगणनानुसारं तमेङ्गलाङ्ग-मण्डले सर्वेषु राज्येषु न्यूनतमा जनसङ्ख्या अस्ति । तमेङ्गलाङ्ग-नगरं परितः पर्वताः सन्ति । अतः नियमितरूपेण तत्र भूस्खलनानि भवन्ति । बराक-नदी, सप्तजलप्रपाताः, थारोन-गुहा, जिलाद-तडागः च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्मिन् मण्डले उष्णकटिबन्धीय-वनानि, उपोष्णकटिबन्धीय-वनानि च सन्ति । अस्मिन् मण्डले जेलियनग्रोङ्ग् नागा, कुकी च इत्यादयः जनजातयः निवसन्ति । मण्डलेऽस्मिन् “ऑरेञ्ज् फेस्टिवल्”, “रिह-नगई” (चगा नगई), “बनरुहमेई”, “तरङ्ग” च इत्येते उत्सवाः आचर्यन्ते । अक्टूबर-मासतः मार्च-मासपर्यन्तः कालः अस्य मण्डलस्य भ्रमणाय अत्युत्तमः अस्ति । तत्र शैत्यम् अपि अधिकं भवति ।

तमेङ्गलाङ्ग-नगरं ५३ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः तमेङ्गलाङ्ग-मण्डलस्य भ्रमणं कर्तुं शक्यते । तमेङ्गलाङ्ग-नगरे रेलस्थानकं नास्ति । अतः नागालैण्ड्-राज्यस्य दीमापुर-नगरस्य रेलस्थानकं तमेङ्गलाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । तमेङ्गलाङ्ग-नगरात् दीमापुर-नगरं ३७३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-नगरेण, कोलकाता-नगरेण, गुवाहाटी-नगरेण, चेन्नै-नगरेण च सम्बद्धम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । तमेङ्गलाङ्ग-नगरात् इम्फाल-नगरं १५८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण जनाः सरलतया सेनापति-नगरं प्राप्तुं शक्नुवन्ति ।

बिष्णुपुर[सम्पादयतु]

बिष्णुपुर-नगरं मणिपुर-राज्यस्य सांस्कृतिकी, धार्मिकी च राजधानी वर्तते । भगवतः विष्णोः निवासः अस्मिन् नगरे अस्ति । अतः इदं नगरं बिष्णुपुरम् इति कथ्यते । पुरा इदं नगरं “लुम्लङ्गडोङ्ग” इति नाम्ना ज्ञायते स्म । इदं नगरं बिष्णुपुर-मण्डलस्य मुख्यालयः अस्ति । अस्य मण्डलस्य उत्तरदिशि सेनापति-मण्डलं, पश्चिम-दिशि इम्फाल-मण्डलं, चुराचाँदपुर-मण्डलं च, दक्षिणपूर्वदिशि चन्देल-मण्डलं, पूर्वदिशि थौबाल-मण्डलं च स्थितम् अस्ति । थाङ्गजरोक-नद्याः तटे स्थितम् अस्ति इदं नगरम् । इदं नगरं बिशेनपुरम् अपि कथ्यते । अस्मिन् मण्डले मृगाः प्राप्यन्ते । ते नृत्यं कुर्वन्ति । तत्र लोकटक-तडागः वर्तते । अयं मृदुजलयुतः तडागः अस्ति । मण्डलेस्मिन् “केइबुल-लम्जाओ-राष्ट्रियोद्यानम्” अस्ति । इदम् उद्यानं परितः लोकटक-तडागः अस्ति । अस्य मण्डलस्य एकस्मिन् सङ्ग्रहालये “सुभाषचन्द्र बोस” इत्याख्यस्य स्वातन्त्र्यक्रान्तिकारिणः अवशेषाः सन्ति । बिष्णुपुर-मण्डले बह्व्यः जनजातयः निवसन्ति । तासु “मेईटी” जनजातिः प्रमुखा वर्तते । अस्याः जनजातेः जनाः हिन्दुधर्मम् अनुसरन्ति । अस्य मण्डलस्य जनाः कृष्याधारिताः सन्ति । “लाई हरोबा” इत्ययम् उत्सवः अस्य मण्डलस्य प्रमुखोत्सवः अस्ति । अयमुत्सवः प्रतिवर्षं मई-मासे आचर्यते । अक्टूबर-मासतः फरवरी-मासपर्यन्तं बिष्णुपुर-नगरस्य भ्रमणस्य उत्तमः कालः अस्ति ।

बिष्णुपुर-नगरं १५० क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं मार्गः बिष्णुपुर-नगरम् इम्फाल-नगरेण सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः बिष्णुपुर-मण्डलस्य भ्रमणं कर्तुं शक्यते । बिष्णुपुर-नगरे रेलस्थानकं नास्ति । अतः नागालैण्ड्-राज्यस्य दीमापुर-नगरस्य रेलस्थानकं बिष्णुपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । बिष्णुपुर-नगरात् दीमापुर-नगरं २३६ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-नगरेण, कोलकाता-नगरेण, गुवाहाटी-नगरेण, चेन्नै-नगरेण च सम्बद्धम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । बिष्णुपुर-नगरात् इम्फाल-नगरं २७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण जनाः सरलतया बिष्णुपुर-नगरं प्राप्तुं शक्नुवन्ति । बिष्णुपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति ।

सेनापतिः[सम्पादयतु]

सेनापति-नगरं मणिपुर-राज्यस्य सेनापति-मण्डलस्य मुख्यालयः अस्ति । अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भुतम् अस्ति । “मारम खुल्लेन”, “याङ्गखुल्लेन”, “माओ लिईयाई”, “मक्खेल”, “पुरूल”, “कौब्रु-पर्वतः”, “हाउडू कोईडे बिसो” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । अस्मिन् नगरे विभिन्नाः वनस्पतयः, जीवाः प्राप्यन्ते । अस्य क्षेत्रस्य ८० प्रतिशतं क्षेत्रं वनक्षेत्रं वर्तते । अस्मिन् क्षेत्रे ओषधयः अपि प्राप्यन्ते । “माओ”, “ताङ्गखुल”, “माराम”, “कुकी”, “जीमाई”, “वाइफेरी”, “चिरू”, “चोटथे”, “मीटी” इत्यादयः अस्य मण्डलस्य जनजातयः सन्ति । सर्वेषां समुदायानां संस्कृतिः अपि भिन्ना अस्ति । अस्मिन् मण्डले ईसाई-धर्मानुयायिनः प्रमुखाः सन्ति । हिन्दु-धर्मानुयायिनः, इस्लाम-धर्मानुयायिनः चापि निवसन्ति । अस्मिन् नगरे पर्यटनस्थलानि अपि बहूनि सन्ति । अतः जनाः तत्र गच्छन्ति ।

सेनापति-नगरं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । इम्फाल-नगरेण, गुवाहाटी-नगरेण, दीमापुर-नगरेण च इदं नगरं सम्बद्धम् अस्ति । सेनापति-नगरम् इम्फाल-नगरात् ६२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरस्य रेलस्थानकम् अस्य समीपस्थं रेलस्थानकम् अस्ति । सेनापति-नगरात् दीमापुर-नगरं १४५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-नगरेण, कोलकाता-नगरेण, गुवाहाटी-नगरेण, चेन्नै-नगरेण च सम्बद्धम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । सेनापति-नगरात् इम्फाल-नगरं ६९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण जनाः सरलतया सेनापति-नगरं प्राप्तुं शक्नुवन्ति ।

शिक्षणम्[सम्पादयतु]

२०११ वर्षस्य जनगणनानुसारं मणिपुर-राज्यस्य साक्षरतामानं ७९.८३ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८६.४९ प्रतिशतं, स्त्रीणां साक्षरतामानं ७३.१७ प्रतिशतं च अस्ति । मणिपुर-राज्ये भारतस्य एकः एव “केन्द्रीयकृषिविश्वविद्यालयः (Central Agricultural University)” स्थितः अस्ति । अयं विश्वविद्यालयः इम्फाल-नगरे विराजते । इम्फाल-नगरे “मणिपुर-विश्वविद्यालयः” अपि अन्यतमः अस्ति । एते मणिपुर-राज्यस्य प्रमुखे शैक्षणिकसंस्थाने स्तः [९]

अर्थव्यवस्था, कृषिः च[सम्पादयतु]

मणिपुर-राज्यस्य ८० प्रतिशतं जनाः कृष्याधारिताः सन्ति । तण्डुलाः, लवेटिका च अस्य राज्यस्य प्रमुखे सस्ये स्तः । राज्यस्य ७२ प्रतिशतं क्षेत्रे तण्डुलाः उत्पाद्यन्ते । सामान्यतः पर्वतेषु सोपानात्मकानि कृषिक्षेत्राणि भवन्ति । केचन आदिवासिनः मांसप्राप्त्यर्थं पशून् पालयन्ति । तेषां पशूनाम् उपयोगः दुग्धप्राप्त्यर्थं, भारवाहनाय च न क्रियते । राज्येऽस्मिन् विभिन्नफलानाम् उत्पादनम् अपि क्रियते । नारङ्गफलं, कदलीफलम्, अनास-फलम्, अमृतफलं, पूराम्ल-फलं, काजूतकं, पूगी-फलं च अस्य राज्यस्य प्रमुखाणि फलानि सन्ति [१०]

उद्योगाः[सम्पादयतु]

कृषिः, कृषिसम्बद्धाः उद्योगाः मणिपुर-राज्यस्य अर्थव्यवस्थायाः आधारभूताः सन्ति । अस्मिन् राज्ये प्रायः ६,००० लघुबृहदुद्योगाः सन्ति । हस्तनिर्मितानां वस्तूनाम् उद्योगः अस्य राज्यस्य बृहत्तमः उद्योगः अस्ति । वैद्युतकोद्योगानां (Electronic), कृतकोद्योगानां (Plastic) च प्रशिक्षणाय इम्फाल-नगरे “इलेक्ट्रॉनिक् डिजाइन् एवं टेक्नोनॉजी केन्द्र”, “केन्द्रीय प्लास्टिक् इञ्जीनियरिङ्ग् संस्थान” इत्येतयोः संस्थानयोः स्थापना कृता । ई. स. १९९३ तमे वर्षे केन्द्रसर्वकारेण स्थापितेन पुणे-नगरस्य “हिन्दुस्तान एण्टीबायोटिक्स् लिमिटेड्” इत्यस्याः संस्थायाः साहाय्येन इम्फाल-मण्डलस्य नीलकुटी-नगरे “मणिपुर ड्रग् एण्ड् फार्मास्यूटिकल् लिमिटेड्” इति संस्था स्थापिता [११]

कला, संस्कृतिश्च[सम्पादयतु]

मणिपुरी-नृत्यम् अस्य राज्यस्य शास्त्रीयनृत्यम् अस्ति । रास-नृत्यम् अस्य राज्यस्य सर्वप्रथमं नृत्यम् अस्ति । इदं नृत्यं चतुष्टयं भवति । मद्यरास-नृत्यं, कुञ्जरास-नृत्यं, बसन्तरास-नृत्यं, नटरास-नृत्यं च । एतेषु नृत्येषु कृष्ण-गोपीनां सङ्ख्या प्रायः अष्ट भवति । “थबल चोङ्गबा” मणिपुर-राज्यस्य लोकनृत्यम् अस्ति । “थबल चोङ्गबा” इत्यर्थः “चन्द्रिकायां नृत्यम्” इति । “नट” इति मणिपुर-राज्यस्य शास्त्रीयसङ्गीतम् अस्ति । इदं सङ्गीतं विवाहादिप्रसङ्गेषु गीयते । मनोहर-सङ्गीतं, धोब-गीतं च लोकसङ्गीतेषु प्रमुखं विद्यते । राज्यमिदं पोलो-क्रीडायाः उत्पत्तिस्थानं मन्यते । पूर्वोत्तरदिशः राज्येषु केवलं मणिपुर-राज्ये एव हिन्दु-वैष्णवधर्मयोः मतानि सन्ति । मणिपुरी-भाषा “मैतेई” इत्यपि कथ्यते । साम्प्रतं मणिपुरवासिनः बङ्गला-लिपेः प्रयोगं कुर्वन्ति । “डॉ. कमल”, “हिजम अङ्गाहल” एतौ मणिपुर-राज्यस्य उपन्यासकारौ स्तः ।

राज्यमिदम् “उत्सवानां भूमिः” कथ्यते । “निङ्गोली चकौबा याओशाङ्ग”, “चुम्फा”, “काङ्ग”, “क्रिसमस”, “चाईरोबा”, “गङ्ग नागी” इत्यादयः मणिपुर-राज्यस्य प्रमुखाः उत्सवाः सन्ति । चाईरोबा-उत्सवः मणिपुरी-वर्षस्य अन्तिमे दिवसे आचर्यते । अस्मिन् उत्सवे जनाः नूतनवस्त्राणि धरन्ति । याओशाङ्ग-उत्सवः मणिपुर-राज्यस्य बृहत्तमः उत्सवः अस्ति । अयमुत्सवः पञ्चदिवसात्मकः भवति । रथायात्रा अपि अस्य राज्यस्य प्रमुखं पर्व अस्ति । इदं जून-मासे आयोज्यते [१२]

वीक्षणीयस्थलानि[सम्पादयतु]

मणिपुर-राज्यं “भारतस्य आभूषणं”, “पूर्वदिशः स्विट्जरलैण्ड्” च कथ्यते । अस्मिन् राज्ये मनोहराणि प्राकृतिकदृश्यानि, नद्यः, पर्वताः, वनानि च सन्ति । अस्मिन् राज्ये पर्यटकेभ्यः नैकानि वीक्षणीयस्थलानि सन्ति । “श्री गोविन्द जी मन्दिरं”, “खारीम बन्ध बाजार”, “युद्ध कब्रिस्तान”, “शहीद मीनार”, “नुपी सान (महिलानां युद्धम्)”, “मेमोरियल् कॉम्लोर् क्सा”, “खोङ्घापत-उद्यानम्”, “आई एन् ए मेमोरियल्”, “लोकटक-तडागः”, “कीबुल लामजो राष्ट्रियोद्यानं”, “विष्णुपुर-नगरस्य विष्णुमन्दिरं”, “सेण्ड्रा”, “मोरेह सिराय - ग्रामः”, “सिराय-पर्वताः”, “डूको घाटी”, “कैना पर्यटक निवास”, “खोङ्गजोम वार मेमोरियल्” इत्यादीनि मणिपुरराज्यस्य महत्त्वपूर्णानि पर्यटनस्थलानि सन्ति [१३] [१४]

थौबल[सम्पादयतु]

थौबल-नगरं मणिपुर-राज्यस्य थौबल-मण्डलस्य मुख्यालयः विद्यते । इदं नगरं मणिपुर-राज्यस्य अन्यनगराणाम् अपेक्षया विकासशीलम् अस्ति । थौबल-नद्याः तटे स्थितम् इदं नगरम् । इम्फाल-नदी अपि अस्य नगरस्य समीपे प्रवहति । पनथोईबी, चिङ्गा लैरेनभी-मन्दिरं, तोमजिङ्ग चिङ्ग, मणिपुरसाहित्यसमितिः च अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य हट्टेषु हस्तकलायाः प्रदर्शिन्यः दृश्यन्ते । हस्तनिर्मितानि विशिष्टोत्पादनानि अपि प्राप्यन्ते । अस्य नगरस्य समीपे बहवः तडागाः, बह्व्यः नद्यः च सन्ति । नगरेऽस्मिन् व्रीहीणां क्षेत्राणि सन्ति । थौबल-मण्डलस्य कृषिकार्याय प्रसिद्धम् आसीत् । अस्मिन् नगरे मुख्यत्वेन तण्डुलानां, सर्षपाणां, आलूकानां, विभिन्नफलानां, कौशेयस्य च उत्पादनं क्रियते । वर्षर्तोः अनन्तरम् इदं स्थलं विहाराय श्रेष्ठम् अस्ति । भारतस्य विभिन्नगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति ।

थौबल-नगरं १०२ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः थौबल-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । थौबल-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं थौबल-नगरात् २३० किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् गुवाहाटी-नगराय नियमितरूपेण रेलयानानि प्राप्यन्ते । दीमापुर-नगरात् बसयानैः भाटकयानैः वा थौबल-नगरं प्राप्यते । इम्फाल-नगरस्य विमानस्थानकं थौबल-नगरस्य समीपस्थं विमानस्थानकमस्ति । इदं विमानस्थानकं थौबल-नगरात् ३० किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः बेङ्गळूरु-महानगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण थौबल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया थौबल-नगरम् प्राप्तुं शक्नुवन्ति ।

चुराचांदपुरम्[सम्पादयतु]

चुराचांदपुर-नगरं मणिपुर-राज्यस्य चुराचांदपुर-मण्डलस्य मुख्यालयः अस्ति । मणिपुर-राज्ये इदं नगरं “लामका” इति ज्ञायते । लाम, का च इत्याभ्यां शब्दाभ्याम् अस्य शब्दस्य निष्पत्तिः जाता । “लाम” इत्यस्य अर्थः “मार्गः”, “का” इत्यस्यार्थः “सन्धिस्थलं” च भवति । इम्फाल-नगरात् चुराचांदपुर-नगरं ५९ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे नैकानि वीक्षणीयस्थलानि सन्ति । खूगा-जलबन्धः, जनजातीय-सङ्ग्रहालयः, नगालोइ- जलप्रपातः च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । इदं नगरं मणिपुर-राज्यस्य बृहत्तमेषु नगरेषु द्वितीयम् अस्ति । इदं नगरं शान्तम् अस्ति । प्रत्येकसमुदायस्य जनाः सौहार्द्रपूर्णाः, व्यावहारिकः, भावुकाः च सन्ति । तत्र सिमते, पैते, गङ्गते, जोउ, वाइफी, लूसी, सुकते च इत्यादयः समुदायाः निवसन्ति । केभ्यश्चिद् वर्षेभ्यः प्राग् अस्य नगरस्य जनाः कृष्याधारिताः आसन् । किन्तु समयान्तरे जनाः व्यावसायिकक्षेत्रे प्रगतिशीलाः अभवन् । यदा पूर्वोत्तर-दिशः जापानी-जनाः भारतं समागतवन्तः, तदा चुराचांदपुर-नगरम् अपि जापानी-जनैः नाशितम् । तथापि साम्प्रतम् इदं नगरं शान्तिप्रियम् अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तं चुराचांदपुर-नगरं जनाः गच्छन्ति ।

चुराचांदप्पुर-नगरं १५० क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राजमार्गः चुराचांद-नगरम् इम्फाल-नगरेण सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य नगरस्य समीपस्थानि स्थलानि गन्तुं प्राप्यन्ते । चुराचांदपुर-नगरे रेलस्थानकं नास्ति । अतः दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् अस्मात् नगरात् १७२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-रेलस्थानकात् मणिपुर-राज्यस्य, भारतस्य च विभिन्ननगरैः रेलयानानि प्राप्यन्ते । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इम्फाल-नगरात् बसयानैः, भाटकयानैः च चुराचांदपुर-नगरं गन्तु शक्यते । यात्रिकाः सरलतया चुराचांदपुर-नगरं प्राप्तुं शक्नुवन्ति ।

चन्देल[सम्पादयतु]

चन्देल-नगरं मणिपुर-राज्यस्य चन्देल-मण्डलस्य केन्द्रं विद्यते । इदं नगरं भारत-म्यानमार-देशयोः सीमायां स्थितम् अस्ति । नगरमिदम् म्यान्मार-देशाय प्रवेशद्वारम् अस्ति । ई. स. १९७४ तमे वर्षे चन्देल-मण्डलस्य निर्माणम् अभवत् । तदा अस्य नाम “तेङ्ग्नौपल” इति नाम आसीत् । किन्तु ई. स. १९८३ तमे वर्षे अस्य नाम “चन्देल” इति कृतम् । चन्देल-मण्डले मणिपुर-राज्यस्य न्यूनतमा जनसङ्ख्या अस्ति । इदं मण्डलम् अविकसितम् अस्ति । अतः प्रतिवर्षं सर्वकारेण आर्थिकसाहाय्यं दीयते । केन्द्रियसर्वकारेण “ट्रान्स् एशियन् सुपर् हाईवे प्रोजेक्ट्” एका परियोजना आरब्धा । तया परियोजनया चन्देल-नगरं महत्त्वपूर्णं नगरं भवितुं शक्यते । अस्मिन् मण्डले नैकधा ओषधयः, वनस्पतयः च प्राप्यन्ते । मण्डलेऽस्मिन् विभिन्नाः पशवः अपि प्राप्यन्ते । तेषु “हुलोक् गिबन” इति नामकः वानरः प्राप्यते । अयं वानरः केवलम् अस्मिन् मण्डले एव प्राप्यते । अस्य मण्डलस्य जैववैविध्यं जनान् आकर्षति । भारतस्य विभिन्ननगरेभ्यः जनाः प्राकृतिकसौन्दर्यम् अनुभवितुं समागच्छन्ति । मोरेह-नगरं चन्देल-नगरस्य समीपस्थं पर्यटनस्थलं वर्तते । मोरेह-नगरं मणिपुर-राज्यस्य अन्ताराष्ट्रियव्यावसायिककेन्द्रं मन्यते । चन्देल-नगरात् मोरेह-नगरं ७० किलोमीटरमिते दूरे स्थितम् अस्ति । चन्देल-मण्डले बह्व्यः आदिवासीजनजातयः निवसन्ति । मेयोन, अनल, मारिङ्ग, कुकीस, पाईटे, चोथे, थडोउ च इत्यादयः जनजातयः अस्मिन् मण्डले निवसन्ति । “थडाउ” अस्य मण्डलस्य प्रमुखा भाषा अस्ति । ऐमोल-भाषायाम् अपि जनाः व्यवहरन्ति । अस्य नगरस्य सांस्कृतिकविभिन्नातायाः कारणेन इदं नगरं “बहुवर्णीयं नगरम्” इति कथ्यते । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ चन्देल-नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति । अतः शीतर्तोः आरम्भे चन्देल-नगरं गन्तव्यम् ।

मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । अतः बसयानैः जनाः भ्रमणं कर्तुं शक्नुवन्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे इदं नगरं स्थितम् अस्ति । चन्देल-नगरे रेलस्थानकं नास्ति । नागालैण्ड्-राज्यस्य दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । दीमापुर-नगरात् भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । चन्देल-नगरात् दीमापुर-रेलस्थानकं २१५ किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । चन्देल-नगरात् इदं विमानस्थानकं ६५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इम्फाल-नगरात् बसयानैः, भाटकयानैः च चन्देल-नगरं गन्तु शक्यते । यात्रिकाः सरलतया चन्देल-नगरं प्राप्तुं शक्नुवन्ति ।

उखरुल[सम्पादयतु]

उखरुल-नगरं मणिपुर-राज्यस्य उखरुल-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् अत्यन्तं सुन्दरं विद्यते । नगरमिदं स्वर्गः इव दृश्यते । वैदेशिकपुष्पेषु “सिरोय लिली” नामकं पुष्पं केवलम् उखरुल-मण्डले एव प्राप्यते । “फ्रैङ्क् किङ्गडम् वार्ड्” इत्याख्यः वनस्पतिशास्त्रज्ञः आसीत् । तेन इदं पुष्पम् अन्विष्टम् । तस्य पत्न्याः नाम “लिलियम् मैकलिनिए” आसीत् । अतः अस्य पुष्पस्य नाम अपि तदैव कृतम् । तत्रत्याः जनाः इदं पुष्पं “काशोगवोन्” इति कथयन्ति । यतः इदं पुष्पम् आधिक्येन शिरुई-पर्वते प्राप्यते । “लुङ्घर सिहाई फानग्रेड्”, “काचौ फुङ्ग् तडागः” च अस्य नगरस्य वीक्षणीयस्थले स्तः । उखरुल-मण्डले बहवः जलप्रपाताः, गुहाः, च सन्ति । “शिरुई काशोग पर्वतः”, “खयाङ्ग-पर्वतः”, “निल्लाइ-चायोद्यानम्” च अपि विहाराय उत्तमानि स्थलानि सन्ति । “खाङ्गखुई मङ्गसर-गुहा अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । “अस्य नगरस्य ९० प्रतिशतं जनाः साक्षराः सन्ति” इति आश्चर्यम् अस्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । अतः जनाः तस्मिन् काले भ्रमणार्तं तत्र गच्छन्ति ।

उखरुल-नगरं १५० क्रमाङ्कस्य राजमार्गे स्थितम् अस्ति । मणिपुर-राज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति इदं नगरम् । नगरेऽस्मिन् रेलस्थानकं नास्ति । नागालैण्ड्-राजस्य दीमापुर-नगरस्य रेलस्थानकम् उखरुल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । नगरेऽस्मिन् विमानस्थानम् अपि नास्ति । अतः इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । उखरुल-नगरात् इम्फाल-नगरं ९० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगरेण सह विशिष्टतया सम्बद्धम् अस्ति ।

परिवहनम्[सम्पादयतु]

भूमार्गः[सम्पादयतु]

मणिपुर-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । राज्येऽस्मिन् त्रयः राजमार्गाः सन्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गः, ५३ क्रमाङ्कस्य राष्ट्रियराजमार्गः, १५० क्रमाङ्कस्य राष्ट्रियराजमार्गः च । अस्य राज्यस्य राजधानी इम्फाल-नगरं पूर्वदिशि ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गेण म्यान्मार-देशेन, पश्चिमदिशि ५३ क्रमाङ्कस्य राष्ट्रियराजमार्गेण असम-राज्येन, १५० क्रमाङ्कस्य राष्ट्रियराजमार्गेण मिजोरम-राज्येन च सह सम्बद्धम् अस्ति । अतः इदं राज्यं भूमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

पुरा अस्मिन् राज्ये रेलमार्गाः नासन् । किन्तु ई. स. १९९० तमस्य वर्षस्य मई-मासे जिरिबाम-नगरपर्यन्तं रेलमार्गाः निर्मापिताः । इम्फाल-नगरात् जिरिबाम-नगरं २२५ किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-नगरात् २१५ किलोमीटरमिते दूरे नागालैण्ड्-राज्यस्य दीमापुर-नगरं स्थितम् अस्ति । अस्मिन् नगरे मणिपुर-राज्यस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मणिपुर-राज्यं भारतस्य सर्वैः राज्यैः सह सञ्योजयति । साम्प्रतम् अपि मणिपुर-राज्ये रेलमार्गाणां निर्माणाय परियोजनाः प्रचालिताः सन्ति । साम्प्रतं रेलमार्गस्य विकासः नास्ति । अतः मणिपुर-नगरं गन्तुं काठिन्यं भवति । किन्तु “भविष्यत्काले अस्य राज्यस्य रेलमार्गाः समृद्धाः भवन्ति” इति विचिन्त्य सर्वकारः प्रयासान् करोति ।

वायुमार्गः[सम्पादयतु]

इम्फाल-नगरे मणिपुर-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इम्फाल-विमानस्थानात् हैदराबाद-नगराय, मुम्बई-महानगराय, देहली-महानगराय, कोलकाता-महानगराय, इन्दौर-महानगराय, गुवाहाटी-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । इदं विमानस्थानकं मणिपुर-राज्यं भारतस्य विभिन्नराज्यैः सह सञ्योजयति । अनेन प्रकारेण मणिपुर-राज्यं गन्तुं वायुमार्गः सरलं विद्यते ।

बाह्यानुबन्धः[सम्पादयतु]


सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३११-३१२
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१२
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१२
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०९
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०५
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०९
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०५
  8. http://hindi.nativeplanet.com/sitemap/
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१३
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. –३१२-३१३
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१३
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१३
  13. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१४
  14. http://hindi.nativeplanet.com/sitemap/
"https://sa.wikipedia.org/w/index.php?title=मणिपुरराज्यम्&oldid=387340" इत्यस्माद् पुनः प्राप्तिः