मणिपुरीनृत्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मणिपुरीनृत्यम्

इदं भारतस्य शास्त्रीयनृत्येषु अन्यतमा पद्धतिः अस्ति। मणिपुरे नृत्यम् अपि जीवनस्य अविभाज्यम् अङ्गं भवति। मणिपुरम् इति शब्दस्य अर्थः रत्नानां नगरी इति ।पूर्वम् एषः प्रदेशः गन्धर्वाणां विद्याधरादीनां वा वासभूमिः आसीत् इति श्रूयते। तत्कारणतः एव स्यात् मणिपुरीयाणां सर्वेषाम् अपि नृत्ये आसक्तिः अधिका । मणिपुरीनृत्यं मणिपुरराज्यम् इव एव परमसुन्दरम् । भरतस्य उत्तरपूर्वीयभागे पर्वतानां मध्ये स्थितस्य मणिपुरस्य सौन्दर्यं वर्णनातीतम्। मणिपुरीनृत्ये चीनादेशस्य प्रभावः स्फुटतया दृश्यते। सप्तमे क्रिस्तशके चीनादेशीयाः अत्र आक्रमणं कृत्वा वासं कृतवन्तः। स्थानीयजनाः तैः परिणीताः अपि। तत्कारणतः नूतना इन्डो-मुङ्गोलियन् जनजातिः एव निर्मिता अभवत्।

इतिहासः[सम्पादयतु]

एषः नृत्यप्रकारः अतिप्राचिनः। विंशतिशतकस्य पूर्वार्धे प्रसिद्धः बङ्गालीयः कविः रवीन्द्रनाथठागोरः समग्रे देशे एतस्य नृत्यप्रकारस्य जनप्रियतां कल्पितवान्।१९२० तमे वर्षे मच्चिमपुरे तेन ऐदम्प्राथम्येन एतत् नृत्यं दृष्टम्। ततः सः नितराम् आकृष्टः। तदनन्तरकाले कलाशिक्षणार्थम् एव संस्थापितस्य शान्तिनिकेतनस्य पाठ्यक्रमे मणिपुरीनृत्यप्रकारम् अपि सः योजितवान्।

प्रकाराः[सम्पादयतु]

मणिपुरीनृत्यस्य जानपदीयः साम्प्रदायिकः आधुनिकः च प्रकारः समग्रतया निसर्गसम्बद्धः मणिपुरीनृत्यप्रकारेषु प्रसिद्धेषु अन्यतमः अस्ति 'रासः'। सः राधाकृष्णयोः प्रेमजीवनकथाम् अवलम्बते। मणिपुरीनृत्यम् एकव्यक्तिप्रदर्शनयोग्यं यथा, तथैव सामूहिकम् अपि । 'दोलयात्रा' 'होलिपर्व' इत्यादिषु प्रसङ्गेषु तत्रत्यैः सामूहिकं नृत्यं क्रियते । एतादृशेषु नृत्येषु महिलाः पुरुषाः चापि सोत्साहं भागं वहन्ति। 'राखुवल्'नामकं नृत्यं पुरुषैः एव प्रदर्श्यते। कृष्णः स्वस्य अनुचरैः सह यत् व्यवहृतवान् तां कथाम् अवलम्बते। वर्णमयः वेषः नृत्यस्य सवेगगतिं भूषयति। 'लै-हरौबा' इत्येतत् अपरं सामूहिकं नृत्यम्। यथा प्रेमसम्बन्धिनी 'लैलामजनूकथा' 'हीरारञ्जाकथा' च सुप्रसिद्धा तथैव 'खम्बा-तोयबि'कथा अत्र प्रसिद्धा। सा एतस्मिन् नृत्ये प्रदर्श्यते। पुरुषैः प्रदर्श्यमानम् मणिपुरीनृत्यं वेगयुक्तम्, उपवेशनोत्थानादि-अङ्गचालनयुक्तं च। 'खोल'नामकस्य वाद्यस्य ध्वनेः अनुगुणं तेषां नृत्यप्रकाराणां पदानां निवेशः भवति। एतानि नृत्यानि प्रायः मधुरगानेन सहैव भवन्ति। 'खोल'नामकवाद्यं प्रायः सर्वेषु नृत्येषु उपयुज्यते। 'एकतारा' यथा तथैव एकतन्त्रियुक्तम् अपरं वाद्यम् अपि अत्र उपयुज्यते। एतयोः उपयोगतः तालवैशिष्ट्यम् उत्पद्यते। परमोच्चनीचतालभेदः, तारमन्द्रस्वरभेदः इत्यादयः महता वेगेन यत् परिवर्तन्ते तत् द्रष्टृषु महान्तम् आनन्दम् उत्साहं च जनयति। मणिपुरीयनृत्यकाराः (पुरुषाः) कदाचित् खोलवाद्यं खञ्जरीवाद्यं च स्वयं गृह्णन्ति नृत्यावसरे।

"https://sa.wikipedia.org/w/index.php?title=मणिपुरीनृत्यम्&oldid=364575" इत्यस्माद् पुनः प्राप्तिः