कूचिपुडी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कूचिपुडिनृत्यभङ्गी

आन्ध्रप्रदेशराज्ये कृष्णामण्डले कुचिपुडी इति ग्रामः अस्ति ।

प्रवेशः[सम्पादयतु]

अयं भारतस्य शास्त्रीयनृत्यभेदेषु अन्यतमः। कूचिपुडी पदम् आङ्ग्लम् - Kuchipudi, తెలుగు : కూచిపూడి अस्य मूलं तु भारतदेशस्य आन्ध्रप्रदेशः। दक्षिणभारतस्य अन्यराज्येषु अपि अयं नृत्यप्रकारः प्रसिद्धः अस्ति । कूचिपुडी इति आन्ध्रप्रदेशस्य कृष्णाणमण्डले गङ्गासागरस्य (बङ्गालकोल्लि) तटप्रदेशे विद्यमानः कश्चन ग्रामः । तत्र वसन्तः विप्रजनाः एतत् नृत्यम् अभ्यस्यन्ति स्म । अतः अस्य नृत्यस्य कूचिपुडी इति नाम रूढिगतम् ।

प्रदर्शनम्[सम्पादयतु]

कूचिपुडीनृत्यप्रदर्शनं रङ्गमञ्चे कैश्चन कलापैः सह आरभ्यते । प्रत्येकं नृत्यपटुः अपि वेदिकामागत्य गीतनृत्यादिभिः एव स्वपरिचयं श्रावयति । अनेन नृत्यनाटिकायाः कलाकारस्य तस्य पात्रस्य च सन्निवेशानां परिचयः सहृदयाणां भवति । नृत्यार्थं गीतगानेन सह कर्णाटकशास्त्रीयसङ्गीतस्य शैल्या वाद्योपकरणानि नादयन्ति । मृदङ्गम्।मृदङ्गं, बाहुलीना (वयोलिन्), वेणुः, तम्बूरः मन्द्रतन्त्री इत्यादीनां वाद्यानां सहयोगः अपि भवति । कलाविदः बुरुगु इति काष्टनिर्मिताभरणानि धरन्ति ।

शैली[सम्पादयतु]

कूचिपुडीनृत्यस्य चलनं वेगगतौ भवति । पृष्टभूमौ कर्णटकसङ्गीतस्य वाद्यानां सहयोगः भवति एव । अस्मिन् नृत्ये भारतस्नाट्यस्य केचन अंशाः सम्मिलिताः । अस्य प्रदर्शनस्य कूचिपुडीगानेषु जतिस्वरः तिल्लानः च भवतः । नृत्यस्य गीतेषु कश्चित् भक्तः भगवति लीनः भवितुम् इच्छति इति भागः भवति । कूचिपुडीभरतनाट्ययोः पादन्यासेषु शैली भिन्ना भवति । कूचिपुडीनृत्यकलायाम् अपूर्वाणि विशिष्टानि नृत्यरूपाणि सन्ति । अत्र विशेषेण ’तरङ्गम्’ इति प्रकारः अस्ति । अत्र नर्तकः/नर्तिका पित्तलस्य स्थालिकायाः धारायां स्थित्वा स्थालिकां भ्रामयन् नृत्यं करोति । एतादृशनृत्यावसरे हस्तयोः तैलदीपौ शिरसि जलकलशः च भवन्ति । उभयरूपस्य नृत्ययोः वस्त्रविन्यासे सूक्ष्मः भेदः अस्ति । सामान्यतः भरतनृत्यस्य वेशभूषायां दीर्घाणि त्रिपुटानि भवन्ति । शाटिकायाः पुटानि वितृतानि इव दृश्यन्ते । किन्तु कूचिपुडीनृत्यप्रकारस्य वेशभूषायां केवलम् एकमेवपुटं दीर्घं च भवति । पौनपौन्येन कूचिपुडीनृत्यप्रकारे विंशतितमं करणम् उपयोजयन्ति । अत्र षट् प्रभेदाः भवन्ति । कूचिपुडी कलाविदः 'चौक' 'कट्टरनडु' 'कुप्पि अडगु' 'ओण्टडवु' 'जरडुवु' 'पक्कनाटु' इत्यादीनाम् उपयोगं कुर्वन्ति ।

चलनं सङ्गीतं च[सम्पादयतु]

कूचिपुडीकलाविदः गीतानाम् अनुगुणम् चित्ताकर्षकेण भावाभिनयेन त्वरितकटाक्षेण मुखविन्यासेन च रसभावान् निरूपयन्ति । तरङ्गे नृत्यकारः जलकलशं शिरसि संस्थाप्य पित्तलस्थालिकायाः धारायां स्थित्वा नृत्यति । पृष्ठभूमेः गानं सर्वजनपरिचितस्य कृष्णलीलातरङ्गिणीग्रन्थतः उद्धृतं भवति । इयं सन्निवेशः श्रीकृष्णस्य जीवनम् अवतारान् च निरूपयति । सगाननृत्येषु कलाकारः भामाकलापम् इति नृत्यनाटिकायां श्रीकृष्णस्य राज्ञ्याः सत्यभामायाः पात्रं निरूपयति । सत्यभामा प्रेमालापस्य विविधश्रेणिषु सञ्चलति । कूचिपुडीनृत्यप्रकारे कृष्णशब्दम् इति किञ्चित् गीतम् उल्लेखनीयम् अस्ति यत्र क्षिरविक्रेत्री गोपिका विविधरीत्या कृष्णम् आह्वयति । अत्र नृत्याङ्गनाः अत्याकर्षकं नृत्यं निरूपयन्ति ।

नृत्यपरिणताः[सम्पादयतु]

  • डा. वेम्पटि चिन्नसत्यम् [२][१]
  • गुरुः पि.वि.भरणि शङ्करः [३]
  • अनुराग् देब् (आयुष्- पाग्लू छाग्लु महाराजः)कोलकता, पश्चिमबङ्गालः। [४]
  • देवशीष् प्रधान् (बोटु महाराजः) कोलकता, पश्चिमबङ्गालः। [५]
  • गुरुः जयराम रावः वनश्री रावः च ।
  • श्रीनिवास रावः रविः च ।
  • वेदान्तं लक्ष्मीनारायणः ।
  • डा. उपा रामरावः ।
  • तडेपल्लि पेरय्य ।
  • चिन्ता कृष्णमूर्तिः ।
  • वेदान्तं नारायण शर्मा ।
  • डा. कोरद नरसिंह रावः ।
  • गुरुः सि.आर्.आचार्यलू ।
  • मृणालिनी साराभायी ।
  • गुरुः बालकोण्डल रावः ।
  • पि.बि.कृष्णभारती ।
  • पसुमर्थि वेणुगोपालकृष्ण शर्मा ।
  • डा.राजा रेड्डिः ।
  • स्वागत् कूचिपुडी ।
  • शोभा नायिडु । [२]
  • महाङ्कालि सूर्यनारायण शर्मा ।[३]
  • ड. यशोधा ठाकोर्
  • विजयपाल् पतलोथ् ।
  • वंशिकृष्ण शर्मा ।
  • मल्लिका रामप्रसादः ।
  • इन्दिरा श्रीराम दीक्षितः ।
  • रविः वेम्पटि । शलिकला पिनुमर्तिः । कमलारेड्डिः । कमला अय्यलराजु दासिक । सन्धाश्री आत्मकूरि । शारदा जम्मि । अनुराधा नेहरू । हिमबिन्दु चल्ला । यामिनी सारिपल्ली ।

व्याप्तिः[सम्पादयतु]

कूचिपुडीनृत्यं न केवलं भारते देशे प्रसृतम् अस्ति किन्तु उत्तर-अमेरिका, युनैटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिषु अन्यदेशेषु अपि व्याप्तम् अस्ति । तत्रापि कृतपरिश्रमाः कूचिपुडीनृत्यकलाविदः प्रशिक्षकाः निदेशकाः च सन्ति ।

गिन्निस् विश्वाभिलेखं निर्मातारः कलाविदः[सम्पादयतु]

द्विशताधिकाः नृत्यगुरवः २८००सङ्ख्याकाः कूचिपुडीकलाविदः क्रि.श.२०१०तमे वर्षे डिसेम्बरमासस्य २६दिनाङ्के हैदराबाद् (भाग्यनगरे) जि.एम्.सि.बालयोगी क्रीडाङ्गणे हिन्दोलस्य तथा तिल्लानानामिकायाः नृत्यगतेः प्रदर्शनं कृत्वा विश्वस्तरीयं गिन्निस् अभिलेखं निर्मितवन्तः । कूचिपुडीनृत्यनिदेशकस्य कार्याणि प्रशंसितुम् समग्रभारतस्य सर्वराज्येभ्यः १५देशेभ्यः च आगताः नृत्यकलाविदः उपस्थिताः आसन् । अन्ताराष्ट्रियकूचिपुडीमहासम्मेलनस्य अङ्गतया ११निमेषाणां नृत्यकार्यक्रमः सञ्चालितः । कुचिपुडीनृत्यपरिणताः वेम्पटि चिन्नसत्यम्, यामिनी कृष्णमूर्तिः राजा रेड्डिः राधा रेड्डिः शोभा नायिडु च राष्ट्रपतिपुरस्कारं प्राप्तवन्तः ।

उल्लेखाः[सम्पादयतु]

  • कूचिपुडी भारतम् रागनृत्यश्रेणी ; श्री सद्गुरुप्रकाशनम् /इण्दियन् बुक्स् सेण्टर् नवदेहली, भारतम् ।

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=कूचिपुडी&oldid=364571" इत्यस्माद् पुनः प्राप्तिः