सामग्री पर जाएँ

भारतस्य नृत्यकलाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
काचित् भारतीयनृत्यभङ्गिः

प्रवेशः

[सम्पादयतु]

भारतीयानां परिकल्पनायां नृत्यम् अपि मानवीयभावभिव्यक्तेः रसमयं साधनम् अस्ति । मनवजीवनेन सह उत्पन्ना काचित् सार्वभौमा कला नृत्यम् । नवजातः शिशुः क्रन्दन् एव स्वहस्तपादान् चालयन् बुभुक्षां पिपासां वेति स्वस्य भावभिव्यक्तिं करोति । अनेनैव आङ्गिकक्रियया एव नृत्यं सञ्जनितम् । नृत्यं देवदेवीनां दैत्यानां मनुष्यानाम् अतीव प्रियम् अभवत् । भारतीयपुराणेषु नृत्यं तु दुष्टनाशनस्य मोक्षप्राप्तेः च साधनम् इति वर्णितम् । समुद्रमथने अमृते उत्पन्ने असुराणाम् अपि अमरत्वस्य अवसरः प्राप्तः। एतत् देवतानां सङ्कटस्य कारणम् अभवत् । तदा भागवन् नारायणः मोहिन्याः रूपधारणं कृत्वा स्वस्य लास्यनृत्येन दानवान् वञ्चयित्वा देवेभ्यः अमृतं दत्त्वा लोकत्रयस्य उपकारं कृतवान् । एवमेव भगवान् शङ्करः कुटिलबुद्धेः दैत्यस्य भस्मासुराय अग्निहस्तस्य वरं दत्तवान् । किन्तु वरात् गर्विष्टः दानवः भगवतः शिवस्य शिरसि एव हस्तं स्थापयितुम् आगतः । एवं पुनः लोकत्रयस्य सङ्कटः समुत्पन्नः । तदा भागवान् विष्णुः मोहिन्याः रूपम् अवाप्य मोहकसौन्द्रपूर्णनृत्येन भस्मासुरं युक्त्या मारितवान् । भारतीयसंस्कृतेः मूलम् एव नृत्यकलया सम्बद्धम् अस्ति । देवेन्द्रस्य सुरलोके अप्सराः इति सुन्दराः नृत्याङ्गनाः आसन् । विश्वामित्रमोनकयोः कथा अपि भारतीयपरम्परायां नृत्यस्य अविनाभावं सम्बन्धं प्रमाणीकरोति । एतैः दृष्टन्तैः इदं स्पष्टं भवति यत् नृत्यं भारतीयधर्मेण सह लीनम् अस्ति । शिलासृदृशः कठोरहृययः पुरुषः अपि सिक्थम् इव द्रवति । इयं नृत्यकला मनोरञ्जकं तु भवति एव अनेन सह धर्मादिचतुर्विधपुरुषार्थानाम् अपि साधनं भवति । अस्य एदाश्याः श्रेष्ठतायाः हेतुना एव इयं कला वेदकालत् अद्यपर्यन्तं स्वस्य शास्त्रीयरूपेण एव भारतीयानां मनोमण्डले प्रवहत् अस्ति । नृत्तं नर्तनं नृत्यं नाट्यम् इत्यादिभिः पदैः अभिज्ञाता इयं कला हैन्दवदेवानाम् अतीव प्रियतमम् अस्ति । परेश्वरः शिवः स्वयं नटराजः इति प्रशंसितः । अस्य ईश्वरस्य पञ्चकृत्यनाट्येन एव प्रपञ्चस्य उदयः अभवत् इति भारतीयानां विश्वासः । नृत्यकलाविदाम् आराध्यं दैवं साक्षात् परशिवः । भगवतः श्रीमन्नारायणस्य अवतारेषु सर्वश्रेष्ठः इति मन्यमानः कृष्णावतारः । श्रीकृष्णस्य नृत्यलीला तु प्रसिद्धा एव । अतः सः नटवरः कृष्णः इति उक्तः । भारतीयसंस्कृतिकेतिहासे एतादृशं प्रामाण्यं प्राप्यते यत् सफलासु कलासु नृत्यकला एव श्रेष्ठतामा यत्र दृष्टुं श्रोतुं च लभ्यते ।

नृत्यभेदाः

[सम्पादयतु]

भारते नृत्यानां वैविध्यम् अस्ति । किन्तु शास्त्रीयनृत्यानि जानपदीयनृत्यानि इति प्रधानतया भेदद्वयं वक्तुं शक्यते । नूतना काचित् नृत्यशैली भारतीयचलच्चित्रे आरब्धा अस्ति यत् एतयोः सम्मिश्रणं भवति । यथा देशेऽस्मिन् अल्पेनैव अन्तरेण वेशान्तरं भाषान्तरं भवति तथैव नृत्यवैविध्यमपि भवति ।
केचनशास्त्रीयनृत्यभेदाः

केचनजानपदीयनृत्यभेदाः

इतिहासः

[सम्पादयतु]

नृत्यस्य प्राचीनतमः ग्रन्थः भरतमुनेः नाट्यशास्त्रम् भवति । किन्तु नृत्यानाम् उल्लेखः वेदेषु अपि अस्ति । अनेन ज्ञायते यत् प्रागेतिहासे एव नृत्यस्य आविष्कारः आसीदिति । इतिहासस्य आधारानुगुणं गुहासु उत्कीर्णानि नृत्यभङ्गीनां चित्राणि एव अस्य साक्षी भवति । अपि च हरप्पा मोहेञ्जोदारो स्थानेषु उत्खननावसरे प्राप्ताः मूर्तयः नृत्यस्य प्राचीनतां प्रमाणयन्ति । एतदाधारेण पुरातत्त्वज्ञाः वदन्ति तदानीन्तन काले अपि नृत्याङ्गनाः आसन् इति वदन्ति । अस्मिन् काले नृत्यैः सह सम्मिलितानि नानाविधानि चर्मतन्त्रीवायुवाद्यानि । वीणावादं पाणिघ्नं तूणब्रह्मं तानृत्यान्दाय तलवम्। नाट्यशास्त्रस्य एतद्वचनानुगुणं नृत्येन सह वीणावादकः मृदङ्गवादकः वंशीवादकः तालवादकः च उपविशन्तु इति । यजुर्वेदे अपि नृत्यसम्बद्धसामग्रीनां विषयः यथेष्टम् अस्ति । नृत्यं वेदकाले व्याव्यामत्वेन उपयोजयन्ति स्म । शरीरस्य आरोग्यरक्षणार्थं नृत्यकलायाः उपयोगः भवति स्म इति वक्तुं शक्यते । हरिवंशपुराणे अपि नृत्यसम्बद्धघटनानाम् उल्लेखः अस्ति । भगवतः नेमिनाथस्य जन्मावसरे नृत्यगानस्य वर्णनम् अस्मिन् पुराणे दृश्यते । श्रीमद्भागवतपु्राणे, शिवपुराणे, अपि च कूर्मपुराणे च नृत्यविषकनि विवरणानि तत्र तत्र उपलभ्यन्ते । रामायणे, महाभारते च अवसरानुगुणं नृत्यस्य विचारः प्रस्तुतः अस्ति । अस्मिन् काले अस्या कलायाः नृत्तस्य नृत्यस्य नाट्यस्य च विकासः सञ्जातः दृश्यते ।

चित्रशाला

[सम्पादयतु]
  • भारतीयनृत्यवैविध्यम् ।


बाह्यानुबन्धाः

[सम्पादयतु]
  • नर्तकी - भारतीयनृत्यकलायाः'प्रवेशद्वारम्'
"https://sa.wikipedia.org/w/index.php?title=भारतस्य_नृत्यकलाः&oldid=436290" इत्यस्माद् प्रतिप्राप्तम्