सामग्री पर जाएँ

मोहिनीयाट्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मोहिनियाट्टं नृत्यस्य काचित् भङ्गिः

प्रवेशः

[सम्पादयतु]

मोहिनियाट्टम् भारतस्य दक्षिणभागे विद्यमानस्य केरळराज्यस्य विशिष्ठा प्राचिना च नृत्यकला अस्ति । (आङ्ग्लभाषा - Mohiniyattam, कन्नडभाषा - ಮೋಹಿನಿಯಾಟಂ, मलयालभाषा - മോഹിനിയാട്ടം) तमिळुभाषामूलस्य नृत्यगुरुः, तञ्जावूरु चतुष्टयेषु अन्यतमः वडिवेलुः च मिलित्वा अस्य नृत्यस्य उत्कर्षं कृतवन्तौ । एकाकिनी महिला सुललितं प्रदर्शयितुं शक्यं नृत्यं मोहिनीयाट्टम् । अस्य पदस्य व्युत्त्पत्तिः एवमस्ति । मोहिनी अर्थात् प्रेक्षाकान् आकर्षति इति, आट्टम् नाम शरीरसय सुललितचलनम् इति । मोहिनीयाट्टम् इत्युक्ते आकर्षकं लास्यम् इति अर्थः प्राप्यते । अपि च मोहिन्याः नाट्यम् इत्यपि अर्थं बोधयति । श्रीमहाविष्णुः मोहिन्याः रूपेण द्विवारं भूमौ अवततार इति कथा अस्ति । देवासुरैः अमृतप्राप्तये क्षीरसागरमथनं कृतम् । तस्मिन् अवसरे भगवान् नारायणः मोहिनी अभवत् । अन्यस्मिन् अवसरे भास्मासुरः शिवस्य वरप्रसादात् लोककण्ठकः आभवत् । तदा तस्य मारणाय पुनः मोहिन्याः अवतारं कृतवान् भगवान् नारायणः ।

वैविध्यम्

[सम्पादयतु]

भरतनाट्यम् कथकळि च दक्षिणभारतस्य प्रधानौ नृत्यभेदौ । एताभ्यां नृत्याभ्यां बहुधा प्रभाविता इयं मोहिनियाट्टं नृत्यकला । तञ्जावूरुचतुष्टयेषु अन्यतमः वडिवेलु इत्यख्यः राज्ञः स्वातीतिरुनाळ् इत्यस्य आस्थाने प्रदर्श्य अस्य नृत्यप्रकारस्य परिचयं कारितवान् । विशालायाः सालङ्कृतकट्यः दोलनं स्थितभङ्गेः नयेन चालनम् इत्यादयः अस्मिन् नृत्ये भवन्ति । मोहिनियाट्टस्य मूलस्थाने केरळराज्ये यथेष्टं प्रवर्धमानाः ताडवृक्षाः मन्दगत्या प्रवहन्त्यः नद्यः च अस्य नृत्यस्य दर्शनेन स्मृताः भवन्ति । मोहिनीयाट्टं नृत्ये 'अटवुकल् ' इति नाम्ना ४०विधानि चलनानि सन्ति ।

पुनरुत्थानम्

[सम्पादयतु]

विंशतिशतकस्य उत्तरभागे मोहिनियाट्टस्य पुनश्चेतनार्थं त्रीणि आधारस्तम्भानि इव श्री स्वाती तिरुनाळ्रामवर्मा, श्री वल्लतोळ् नारयण मेनन्(महाकविः केरळकलामण्डलस्य सम्स्थापकः च), श्रीमती कलामण्डलं कल्याणीकुट्टि अम्मा (मोहिनीयाट्टं नृत्यजननी इति ख्याता)च सन्ति । गुर्वी कल्याणी कुट्टि अम्मा एव नृत्यरूपकस्य पृष्ठभूमेः परिचयं कृतवती । स्वर्गात् आगतायाः मोहिन्याः नर्तनस्य पेक्षया कस्याश्चित् नृत्याङ्गनायाः लास्यविलासः जनाकर्षकः इति अवदत् । मोहिनीयाट्टं नर्तनस्य वेशभूषाः विशिष्टाः सन्ति । अस्य नर्तनस्य श्वेतवर्णस्य शाटिकायाः अञ्चले स्वर्णरेखाः भवन्ति । हस्तलक्षणदीपिका इति मुद्राभावविवरणयुक्तग्रन्थः अस्य नृत्यस्य आधारः । मोहिनीयाट्टं नृत्यस्य गीतगानं तु लयबद्धवाद्यसङ्गीतयुक्तं विभिन्नचरणेषु भवन्ति । अस्य नृत्यस्य गीतानानि मणीप्रवालः इति (संस्कृतमलयाळभाषयोः सम्मिश्रितणम्) भाषया भवन्ति । गीतानि नेपथ्ये गायन्ति तदा नृत्याङ्गना सुललितमुद्राभिः पादन्यासैः च नृत्यं प्ररभते । नृत्याङ्गना स्वलास्येन अतिमोहपरवशतां न जनयति किन्तु सौम्यमनोहररीत्या नेत्राभिनयेन हावभावेन च प्रदर्शयन्ति ।

अवलोकनयोग्याः

[सम्पादयतु]

वीथिका

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मोहिनीयाट्टम्&oldid=480827" इत्यस्माद् प्रतिप्राप्तम्