औष्ण्यमालिन्यम्
अस्य प्रदूषणस्य मुख्यं स्त्रोतः भवति विद्युत्तापगृहम् । विद्युत्तापगृहेभ्यः प्रदूषकद्वयं बहिरागच्छति । इदं प्रदूषकद्वयमतीव –विनाशकं, हानिकरं च भवति । प्रथमं प्रदूषकं भवति अतीवोष्णं जलम् । इदमुष्णं जलं तस्मिन्नेव जलस्त्रोते मिलति यस्मात् जल- स्रोतात् तापगृहं जलं स्वीकरोति । तज्जलम् इत्थमुष्णं भवति येन जलीयजीवाः नष्टाः भवन्ति । जलीयजीवानाम् अधिकमात्रायां मृत्युः भवति, तेन तत्रत्यं जलं प्रदूषितं भवति । जलप्रदूषणेन तत्रत्यवायुः अपि प्रदूषितः भवति । एवं प्रकारेण निःसृतेन उष्णजलेन विविधानां प्रदूषणानामुत्पत्तिः भवति । अपरं प्रदूषकं भवति धूम्रकर्कटः (राख, धूआँ) एवं प्रकारकेभ्यः प्रतिष्ठानेभ्य मात्राधिक्येन धूम्रः निस्सरति । धूम्रेण वायुमण्डलं पूर्णतः प्रदूषितं भवति । धूम्रेण सह कर्कटाः अपि निस्सरन्ति । निस्सरिताः कर्कटाः अपि –उष्णाः भवन्ति । तत्स्थानीयं वायुमण्डलं कर्कटमयं भवति । जनस्य नासिकायाम् अस्य प्रभावः द्रष्टुं शक्यते । तत्स्थानीयः विशालभूभागः कर्कटेन प्रदूषितः भवति । अतः कथयितुं शक्यते यदनेन वायुप्रदूषणं, जलप्रदूषणं, भूप्रदूषणं च भवति ।
संरक्षणोपायाः
[सम्पादयतु]- संयन्त्रेभ्यः निस्सृतं जलं शैत्यं करणीयम् ।
- फब्बारामाध्यमेन जलं क्षेत्रषु प्रसार्य शैत्यात्परं जलस्रोते प्रक्षेपणीयम् ।
- कर्कटेण ईटनिर्माणं करणीयम् ।
- अनेन भू-प्रदूषणं नियन्त्रितं भवति प्रदूषकाणां सदुपयोगः अपि भवति ।
- संयन्त्रस्य धूम्रनलिका (चिमनी) उच्चस्थाने स्यात् ।
- संयन्त्रे प्रदूषणनियन्त्रणसंयन्त्रस्यापि स्थापना करणीया ।