कण्णगी
कण्णगी | |
---|---|
मरीनासमुद्रतीरस्था कम्णग्याः मूर्तिः | |
भार्या(ः)/भर्ता | Kovalan |
कण्णगी,सिलप्पदिकारम् इति नाम्नः ऐतिहासिकस्य तमिल्महाकाव्यस्य प्रमुखा नायिका वर्तते। क्वचित् कण्णकी इत्यपि लिख्यते।
कण्णगी पतिव्रता सुस्त्री आसीत्। यद्यपि तस्याः पतिः कोवलन् अपव्रतः आसीत्, तथापि कण्णगी तस्य सङ्गं न त्यजति। दुर्गत्या कोवलन् स्वसम्पदः सर्वाः विजहाति। दृढानुतापेन तेन साकं कण्णगी पुनः जीवनं विनिर्मातुं प्रयासं करोति।
परन्तु दौर्भाग्यवशात् मदुरैनगरस्य पाण्ड्यराजस्य अन्याय्येन अप्रामाण्येन च कण्णग्याः पतये प्राणदण्डः दीयते। पत्युः प्राणहरणानन्तरं कण्णगी, तस्य निर्दोषत्वं प्रमाणयति। अनन्तरं प्रतिकाररूपेण सा मदुरैनगरस्य राजानं नगरवासिनश्च अभिशपति। यस्य नगरस्य राज्ञः समाजस्य च अन्याय्येन कण्णग्याः जीवनं व्यर्थं जातं, तस्य नगरस्य विनाशः जायते। तस्याः शापस्य तापेन मदुरैनगरं भस्मीकृतं भवति।
चेरन् केरलस्य तमिलुनाडुराज्यस्य च सम्प्रदाययोः कण्णगीं सुवृत्तेः प्रतिरूपां मत्वा, कण्णग्याः मूर्तयः चित्राणि च वर्तन्ते। अभ्यागताः जनाः तान् च दृष्ट्वा कण्णग्याः धर्मसम्बद्धान् न्यायसम्बद्धान् च त्यागान् स्मरन्ति।
इलङ्गो अडिगल् इत्यनेन लिखितं सिलप्पदिकारम् नामकं महाकाव्यम्, निर्भयायाः कण्णग्याः प्रतिक्रियायाः कथां वदति।
पाठ्यम्
[सम्पादयतु]कण्णग्याः कथा आदौ सङ्गमकालस्य नाट्रिणै इति कवितायां प्रकाश्यते। सङ्गमसाहित्ये कण्यग्याः विपुलाः कथा समुपलभ्यन्ते। सङ्गमकालात् परं सिलप्पदिकारम् अर्थात् पादनालिकायाः महाकथा इति नाम्ना तमिल्महाकाव्ये एषा कथा विस्तरेण उपनिबद्धा। [१]
इतिहासः
[सम्पादयतु]कण्णगी, पुहारनगरवासिनः माणयकन् इति नाम्नः वणिजः नाविकपतेः च पुत्री आसीत्।[२][३] तस्याः विवाहः कोवलन् नाम्ना यूना सह अभवत्। कोवलन् मकत्तुवन् नामकः नाविकवणिजः पुत्रः च, तेषां कुलसंरक्षिका समुद्रदेवता मणिमेकलै आसीत्। विवाहानन्तरं कोवलन् पत्नीं त्यक्त्वा, माधवी नाम्न्या नर्तक्या सह अनुचितव्यवहारम् आचरति स्म। सः कामान्धः स्वसम्पदः सर्वाः नर्तक्याः मोहात् विनाशयति। निर्नाणकः कोवलन् पश्चात्तापानुभवन् , स्वगृहं प्रति पुनरागतवान्। कण्णग्याः अमूल्यां पादनालिकां मदुरैनगरे विक्रीय, तद्धनं स्वीकृत्य वाणिज्यं कृत्वा सः पुनः धनं सम्पादयितुम् ऐच्छत्।
तदा मधुरैनगरं पाण्ड्यराज्यस्य राजधानी आसीत्, नेडुन्चेलियन्-१ तत्रत्यः राजा आसीत्। यदा कोवलन् कण्णग्याः पादनालिकां विक्रेतुं प्रयत्नं करोति तदा तां दृष्ट्वा, राज्ञ्याः अपहृता पादनालिका इति मत्वा, कण्णग्याः पतिं अपहारारोपं कृत्वा प्राणदण्डम् उद्घोषयति। विधिवत् विमर्शं विना, तस्याः पत्युः चौर्यापराधाय प्राणदण्डस्य वार्तां श्रुत्वा कण्णगी कोपाकुला भवति। अनन्तरं सा स्वपतिः निरपराधी इति प्रमाणयति।
भयं विना कण्णगी, राज्ञः सभाङ्गणे आगत्य, तस्याः पत्युः हस्तात् सङ्गृहीतं पादनालिकां भित्त्वा, तस्याः अन्तःस्थितानि माणिक्यानि दर्शयति। तया सदृशी राज्ञ्याः पादनालिकायां तु मौक्तिकाः अन्तर्भूताः, इत्यनुभवन् अतिलज्जितः पाण्ड्यराजः स्वकृतस्य महापराधस्य अन्याय्यस्य च अनुतापेन प्राणत्यागम् अकरोत्। उद्विग्ना कण्णगी सम्पूर्णं मदुरैनगरम् अभिशपति। पाण्ड्यराज्यस्य राजधानी दाहेन विनश्यति। परं मीनाक्षीदेव्याः अनुरोधेन कण्णगी शाम्यति, अनन्तरं मोक्षम् अवाप्नोति। संक्षेपेण लिखिता कथा एषा इलङ्गो अडिगल् लिखितस्य सिलप्पदिकारम् काव्यस्य सारः।[४]
उल्लेखाः
[सम्पादयतु]- ↑ E.T. Jacob-Pandian (1977). K Ishwaran, ed. Contributions to Asian Studies: 1977. Brill Academic. pp. 56–59. ISBN 90-04-04926-6.
- ↑ Huskin, Frans Husken; Meij, Dick van der (2013). Reading Asia: New Research in Asian Studies (in English). Routledge. p. 119. ISBN 9781136843846.
- ↑ Kantacāmi, Cō Na (1978). Buddhism as Expounded in Manimekalai (in English). Annamalai University. p. 185.
- ↑ R.K.K. Rajarajan (2016) Masterpieces of Indian Literature and Art - Tears of Kaṇṇaki: Annals and Iconology of the ‘Cilappatikāram’. Sharada Publishing House, New Delhi. Pages xix + 412, photos 143, https://www.academia.edu/30222114/Masterpieces_of_Indian_Literature_and_Art_-_Tears_of_Ka%E1%B9%87%E1%B9%87aki_Annals_and_Iconology_of_the_Cilappatik%C4%81ram_