कथासाहित्ये पशुपक्षिकथाः
पञ्चतन्त्रम् | |
---|---|
एकम् कथा |
संस्कृतभाषायां विविधाः कथाः प्राप्यन्ते । प्रथमाः मनोरञ्जनमात्रफलाः बृहत्कथाप्रवर्त्तितरुपाः द्वितीयाश्च पञ्चतन्त्रप्रवृत्ताः सदाचारराजनीत्योः शिक्षाप्रदायिन्यः । अनयोर्बाह्यरुपसम्येऽपि आन्तरिकस्वरुपे महदन्तरम् । अतो बृहत्कथापथप्रवृत्ताः कथा लोकप्रियकथाशब्देन पञ्चतन्त्रपथप्रवृत्ताश्च कथाः शिक्षाकथायां पशुपक्षिकथाशब्देनाभिधातुं शक्यन्ते ।
पशुपक्षिकथाविकासः
[सम्पादयतु]वैदिकसाहित्ये ईदृश्यः कथा न सन्ति । छान्दोग्योपनिषदि सत्यकामस्य ऋषभहंसादिसकाशाद् ब्रह्मज्ञानं लभमानस्य कृते पशुपक्षिकथाया बीजं दृश्यते । महाभारते पशुपक्षिकथानां स्वरुपं किञ्चित् स्फुटम् तत्र मार्जारमूषककथायां धृतराष्ट्रं प्रत्युपदेशः प्रकाशितः ।
बौध्दधर्मप्रचारेणेदृशकथासाहित्यस्य महानुदयो जातः । स्वधर्मप्रचाराय बौध्दैर्विविधाः पश्वादिकथाः प्रथिताः । भरहुत नामके स्थाने यद् बौध्दानां स्मारकमुपलब्धं तेन ख्रीष्टपूर्वद्वितीयशतके पश्वादिकथायाः प्रचार सिद्ध्यति । नीतिशिक्षार्थं प्रवर्त्तितासु कथासु पञ्चतन्त्रकृता नीतिशास्त्रात् अर्थशास्त्राच्च विपुला सामग्री संगृहीता ।
- मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
- चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्त्तृभ्याः ॥
इति पञ्चतन्त्रस्य भूमिकायां नामस्कारविधया नानानीतिशास्त्रकृतामुल्लेखो दृश्यते । तदयं पञ्चतन्त्रनामा पशुपक्षिकथाप्रभेदा नितरां शिक्षाप्रदो विद्यते । अयं पञ्चतन्त्रग्रन्थः कतिचनान्यानपि ग्रन्थानाधारीकरोति । वेतालपञ्चविंशतिका, शुकसप्ततिः, सिंहासनद्वात्रिंशतिका, हितोपदेश इत्यादयो ग्रन्थाः पञ्चतन्त्रमेवाश्रित्य निर्मिता इति प्रसिध्दम् ।
पञ्चतन्त्रस्य पञ्चाशद्भाषास्वनुवादो जातः इति ग्रन्थस्यास्य लोकप्रियता प्रत्यायिता भवति । भारतवर्षस्यानेकासु भाषासु अन्यदेशभाषास्वपि च पञ्चतन्त्रस्यानुवादो दृश्यते । संसारे धर्मग्रन्थानतिरिच्य केनाप्यन्येन लौकिकग्रन्थेनैतावानादरो नाधिगतः इति कथनभूतार्थव्याहृतिरेव ।
एतदपि पश्यन्तु
[सम्पादयतु]