कनकदुर्गा मन्दिरम्
कनकदुर्गा मन्दिरम् इति एकं प्रसिद्धं मन्दिरम् अस्ति । विजयवाडानगरे कृष्णनद्याः तटे इन्द्रकिलाद्रीपर्वते स्थितम् अस्ति।। आन्ध्रप्रदेशराज्ये इदं द्वितीयं बृहत्तमं मन्दिरम् अस्ति । हिन्दुपुराणेषु देवीनां उल्लेखः अस्ति । [१] मन्दिरे देव्याः मूर्तिः प्रायः चतुष्पाद उन्नता अस्ति । शोभायमानालङ्कारैः, पुष्पैः च अलङ्कृतम् अस्ति | विग्रहस्य अष्टौ बाहवः सन्ति । प्रत्येकस्मिन् हस्ते भिन्नं शस्त्रं भवति । महिषासुरस्य शूलेन हृदयभेदनमुद्रायां देवी वर्तते |
नाम्नः इतिहासः
[सम्पादयतु]कृतयुगात् पूर्वं कीलः इति नाम्ना यक्षः दुर्गादेविमुदिद्श्य तपः कृत्वा,प्रत्यक्षं कारयित्वा तां मातां हृदये स्थातुम् अपृच्छत् । दुर्गाम्बा कीलं पर्वतरूपेण तिष्ठतु इति उक्त्वा ,कृतयुगे राक्षससंहरं क्रुत्वा अस्मिन् पर्वते तिष्ठामि इति सा अवदत्। कीलः कीलाद्रीरूपेण परिणम्य, अम्बायाः कृते प्रतीक्षते। इन्द्रादिदेवताः देव्याः पूजनार्थम् अत्र वारंवारम् आगच्छन्ति स्म अतः कीलाद्री इन्द्रकिलाद्री अभवत् ।अत्र महिषासुरमर्दिनी विराजते, कनकवर्णेन चकासते इति कारणात् कनकदुर्गा इति अभवत्। अत्र अर्जुनः परमशिवमुद्दिश्य तपः कृत्वा पाशुपतास्त्रं शिवात् प्राप्तवान् । अतः अयं प्रान्तः विजयवाडा इति अभवत् |
क्षेत्रपुराणम्
[सम्पादयतु]श्रीदुर्गा मल्लेश्वरस्वामी इत्यस्य देवस्थानं कृष्णनद्याः तटे विद्यमान इन्द्रकिलाद्रीपर्वते एव स्थितम् अस्ति । क्षेत्रपुराणे उक्तम् अस्ति यत् भगवती दुर्गादेवी स्वयम्भुरुपेण अस्ति इति। तेषां भ्रमणकाले आदिशङ्कराचार्यः अस्याः देव्याः दर्शनं कृत्वा अत्र श्रीचक्रस्य प्रतिष्ठा कृतवन्तः इति विश्वासः अस्ति । प्रतिवर्षं कतिपय लक्षशः जनाः अस्य मन्दिरमागत्य दर्शनं कुर्वन्ति।
इन्द्रकिलः इति मुनिः दानवदुःखं सोढुं न शक्नोत्, दुर्गादेव्याः कृते तपं कृत्वा मातरं स्वालयात् राक्षसान् मारयितुं प्रार्थितवान्, तत्रैव माता इन्द्रकिलाद्रीपर्वते एव चिरस्थायी जाता। अस्मिन् पर्वते अर्जुनेन शिवमुद्दिश्य तपः कृतः इत्यपि मन्यते । हिन्दूपुराणेषु अस्य मन्दिरस्य कृते विशेषं स्थानम् अस्ति। शिवलीलाः, शक्तिमहिमाः इत्यादयः मन्दिरस्य परिसरे तत्र तत्र द्रष्टुं शक्यन्ते । [२]
नवरात्रि उत्सवाः
[सम्पादयतु]अस्याः दुर्गादेव्याः कृते प्रतिवर्षं दशहरा नवरात्रोत्सवः भवति । अस्मिन् दशहरा नवरात्रोत्सवे प्रतिदिनं एकैकावतारस्य दर्शनं दीयते । नवावतारैः सह एते नव दिवसाः दर्शनं ददति।
- प्रथमदिने सुवर्णकवचालंकारयुक्ता दुर्गा देवी
- द्वितीयदिने बाला त्रिपुरसुन्दरी देवी
- तृतीयदिने गायत्री देवी
- चतुर्थदिने अन्नपूर्णा देवी ।
- पञ्चमदिने ललिता त्रिपुरसुन्दरी देवी
- षष्ठमदिने सरस्वती देवी
- सप्तमदिने दुर्गा देवी
- अष्टमदिने महालक्ष्मीः देवी
- नवमदिने महिषासुरमर्दिनी
- दशमदिने राजराजेश्वरी देवी
अस्मिन् पञ्चमे दिने सरस्वतीदेव्याः अलङ्करणदिवसे देव्याः जन्मनक्षत्रम् इति अर्थात् मूलनक्षत्रम् इति मन्यन्ते। तस्मिन् दिने सहस्राः भक्ताः, छात्राश्च समागच्छन्ति । भगवतः विनायकस्य, ईश्वरस्य, श्रीरामस्य च मन्दिराणि अस्मिन् मन्दिरे अन्तर्भूतानि सन्ति । अनेकस्थानात् अनेके भक्ताः अस्य मन्दिरस्य दर्शनार्थम् आगच्छन्ति ।
बाह्यलिङ्काः
[सम्पादयतु]
- ईनाडु दैनिक, अन्तर्यामी (तेलुगुभाषायां।) इत्यस्य ऑनलाइन संस्करणम्।
- विजयवाड़ा कनक दुर्गा Archived </link>
मूलानि
[सम्पादयतु]- ↑ "Kanka Durga". Archived from the original on 2006-10-19. आह्रियत 2006-08-20.
- ↑ "Devi Kanaka Durga, Vijayawada, Andhra Pradesh". आह्रियत 2006-08-20.