कन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
होय्सल राज्यम्
कन्त्याः आस्थान:
कन्त्याः आस्थान:

कर्णाटकस्य कन्नडसाहित्यक्षेत्रस्य प्रथमा कवयित्री कन्ती(Kanthi) । एषा ११ तमशतकीया जैनसंन्यासिनी इत्यपि ऊहा अस्ति । द्वारसमुद्रस्य बल्लरायस्य आस्थाने विद्यमानस्य कवेः नागचन्द्रस्य समाकालिना आसीत् । बल्लरायस्य राजसभायां मङगललक्ष्मीः इव शोभायमाना वाग्देवी बिरुदालन्कृता कवयित्री कन्ती भाषाविशारदा इति बाहुबलिना रचिते “नागचरिते” उल्लेखः अस्ति । आशुकवितानां रचनेषु कन्ती निस्सीमा आसीत् । अभिनवपम्पः इति बिरुदालन्कृतः नागचन्द्रः कन्तीं सहस्राधिक प्रश्नान् पृश्टवान् ,तस्य सर्वेषां प्रश्नानाम् आशुकविताभिः प्रत्युत्तरं दत्त्वा सर्वेषां प्रशंसार्हा जाता असीत् इति “कन्ती-पम्पयोः समस्याः ” इत्यस्मिन् ग्रन्थे लिखितम् अस्ति । यतोहि कवितानां लेखनेष् निस्सीमां कन्तीं काल्पनिकी व्यक्तिः इति वादेन कन्नडस्य प्रथमा कवयित्री इति स्थानं तस्यै न प्राप्तम् । द्वादशे शतके विद्यामानयोः वचनकवयित्र्योः अक्कमहादेवीदुग्गलयोः कृते वा प्राप्येत । दुग्गला जेडरदासीमय्यस्य पत्नी।

"https://sa.wikipedia.org/w/index.php?title=कन्ती&oldid=392790" इत्यस्माद् प्रतिप्राप्तम्