सामग्री पर जाएँ

कम्मारगट्टे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कम्मारगट्टे
परशुराम क्षेत्रम्
परशुराम क्षेत्रम्

कर्णाटकस्य दावणगेरेमण्डले अस्ति एतत् स्थानम्। अस्मिन् क्षेत्रे श्रीपरशुरामः स्वदिग्विजयानन्तरं खड्गं प्रक्षालितवान् इति कारणात् एतत् क्षेत्रम् कर्महरक्षेत्रमिति प्रख्यातम् अस्ति । मलेबेन्नुरुक्षेत्रे हेळवनकट्टे गिरियम्मा इति भक्ता कीर्तनकत्री चासीत् । एषा अनेकचमत्कारकर्त्री च । हेळवनकट्टे गिरियम्मा वैराग्यनिधिः सर्वत्र अटित्वा स्वामिनः आदेशात् अत्र आगत्य श्रीप्राणदेवस्य दर्शनं प्राप्तवती । अन्ते च श्रीप्राणदेवं प्रणम्य नदीप्रवाहे आत्मार्पणं कृतवती इति त्रिशतवर्षपूर्वतनः इतिहासः । श्रावणशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति ।

  • मार्गः
  1. चन्नगिरितः १६ कि.मी ।
  2. मलेबेन्नूरुतः समीपे ।
"https://sa.wikipedia.org/w/index.php?title=कम्मारगट्टे&oldid=393020" इत्यस्माद् प्रतिप्राप्तम्