कर्णावती बी आर् टि एस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जनमार्गः

अधिकारः अहमदाबाद म्यनिसिपल कॉर्पोरेशन्
स्थानम् भारतम् कर्णावती, गुजरातराज्यम्
परिवहनप्रकारः बस् रेपिड् ट्रस्पोर्ट्
मार्गः १३/०२/२०१५[१]
मार्गस्य लम्बता 87 किलोमीटर (54 मील)
+19 किलोमीटर (12 मील) under construction[२] कि.मी.
आहत्य स्थानकानि १५० (स्थानकानि+कार्यालयाः) [३][४]
दैनिकप्रवासिसङ्ख्या १३००००+ (दिसम्बर, २०१२)[४][५]
सेवारम्भः २४ ऑक्टोबर १९८४
कार्यकार्याधिकारी के एल् बचनी [६]
मुख्यालयः Ground Floor, Dr. Ramanbhai Patel Bhavan, West Zone Office, Ahmedabad Municiapal Corporation, Usmanpura, Ahmedabad
जालस्थानम् कर्णावती बी आर् टि एस्
मार्गस्य भूपटः

अगस्त २०१५

कर्णावती बी आर् टि एस् ( /ˈkərnɑːvətɪ b r t s/) (गुजराती: કર્ણાવતી બી આર્ ટિ એસ્, आङ्ग्ल: Karnavati BRTS) इत्येषा गुजरातनिर्माणविकासदलेन (Gujarat Infrastructure Board) कर्णावतीनगरस्य विकासाय घोषिता काचित् परिवहनसुविधा । तस्याः सुविधायाः परिकल्पनादायित्वं गुजरातनिर्माणविकासदलं सेप्ट-विश्वविद्यालयाय अयच्छत् । २००९ तमस्य वर्षस्य अक्तूबर-मासस्य चतुर्दशे दिनाङ्के चतुर्दशमार्गयुक्तः बी आर् टि एस्-जनमार्गः सामान्यनागरिकेभ्यः तत्कालीनेन मुख्यमन्त्रिणा नरेन्द्रमोदिना उद्घोषितः । तेन प्रथमे याने स्थित्वा यात्रापि कृता ।

विहङ्गावलोकनम्[सम्पादयतु]

कर्णावतीनगरे अद्यत्वेन ७२ लक्षं जनाः निवसन्ति [७] । २०३५ पर्यन्तं नगरस्यास्य जनसङ्ख्या एककोट्याधिकदशलक्षं भविष्यति । तस्यां परिस्थित्यां नरोडा इत्यादीनां ग्रामाणां जनसङ्ख्यायाम् अपि वृद्धिः भविष्यति । एवं २०३५ तमे वर्षे कर्णावती-महानगरस्य विस्तारः १,००० चतुरस्रकिलोमीटरपरिमितात् अधिकः भविष्यति । नगरस्य एकचतुर्थांशविद्यार्थिभ्यः अभ्यासस्थलं गन्तुं परिवहनस्य आवश्यता भवष्यति । अतः नगरस्य परिवहनव्यवस्थायां क्रान्तेः आवश्यकता आसीत् । नगरीकरणस्य समयेऽस्मिन् एषा बस्-यानसुविधा भविष्यत्कालीनानाम् आवश्यकतानां पूर्तिं करिष्यति । स्थानिकसर्वकारेण राज्यसर्वकारेण सह मिलित्वा एतस्याः परियोजनायाः परिकल्पना चिन्तिता । भविष्यत्काले एतस्याः सुविधायाः विस्तारः पूर्वस्याः पश्चिमां यावत्, उत्तरस्याः दक्षिणां यावत् भविष्यति । कर्णावती मेट्रो-सेवया सह अपि तादात्म्यं भविष्यति ।

कर्णावतीपरिवहनयोजना[सम्पादयतु]

गुजरातनिर्माणविकासदलं यस्य सेप्ट-विश्वविद्यालयस्य परिकल्पनानुसारं कर्णावती-नगरे बी आर् टि एस्-विशेषमार्गाणां निर्माणाय सज्जः आसीत्, तस्य विश्वविद्यायस्य प्राध्यापकः एच् एम् शिवानन्दस्वामी मार्गजालस्य विशेषाध्ययनं कृत्वा कार्यान्वयस्य आध्यक्ष्यम् अकरोत् । बी आर् टि एस्-यानस्य कृते यस्य विशेषयानस्य निर्माणं जातम् अस्ति, सः मार्गः अन्यवाहनेभ्यः बाधारूपः न भवेत् तथा निर्मापितः अस्ति [८][९]

'२००५ अनुमानप्रलेखः' इति कर्णावती बी आर् टि एस्-योजनायाः प्रप्रथमः विशेषानुमानप्रलेखः राज्यविकाससंस्थया, गुजरातविकासदलेन च उपस्थापितः । तस्मिन् प्रलेखः ५८ कि.मी. यावत् बी आर् टि एस्-मार्गनिर्माणस्य प्रस्तावः आसीत् । सेप्ट-विश्वविद्यालयेनापि स्वप्रलेखः उपस्थापितः आसीत् । तस्मिन् प्रलेखः एषा योजना JNNURM-प्रकल्पस्य अन्तर्गततया स्वीकृता आसीत् । ततः सा योजना भारतसर्वकारस्य नगरविकासमन्त्रालयेन अङ्गीकृता । देहली, पुणे इत्यादिषु नगरेषु बी आर् टि एस्-यानस्य असफलतायाः, न्यूनतायाः च कारणानि अन्विश्य सेप्ट-विश्वविद्यालयस्य दलेन शताधिकानि परिवर्तनानि कृतानि सन्ति [८][१०]

सेवामार्गाणां चयनम्[सम्पादयतु]

प्रवासाधिक्यस्य, आर्थिकविकासस्य, मार्गलक्षणस्य, कर्णावतीनगरपरिवहनसेवायाः च लाभं विचिन्त्य बी आर् टि एस्-सेवायाः अनुमानेन ११५ कि.मी यावत् मार्गः चितः । यात्रिकाणां यात्रायाः अनुसारं स्थानकस्य निर्माणव्यवस्था अपि परिलक्षिता अस्ति । [८]

पारितोषिकानि[सम्पादयतु]

  • स्थितपरिवहनपारितोषिकम् २०१०[११]
  • भारतस्य द्रुतपरिवहनसुविधा २००९[१२]

चित्रवीथिका[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. "Janmarg Routes". CEPT. Janmarg Ltd.-AMC. Archived from the original on March 4, 2016. आह्रियत January 4, 2013. 
  2. Dutta, Vishal (2013-05-19). "BRTS: Lessons Delhi can learn from Ahmedabad's transport system". The Economics Times. p. 1. आह्रियत 2013-05-19. 
  3. http://deshgujarat.com/2014/12/24/amts-to-use-brts-lane-on-two-stretches-cm-to-dedicate-new-brts-corridors-routes-buses-bus-stations-tomorrow/
  4. ४.० ४.१ "Modi opens two new BRTS routes". DeshGujarat (Ahmedabad). DeshGujarat.Com. December 25, 2012. आह्रियत January 5, 2013. 
  5. "Ahmedabad, Bus Rapid Transit system, Janmarg". United Nations Framework Convention on Climate Change. आह्रियत January 7, 2013. 
  6. "About and Awards - Official Website". AMC. Ahmedabad Janmarg Ltd. आह्रियत January 5, 2013. 
  7. "Population Finder". Census of India. आह्रियत 2008-07-24. 
  8. ८.० ८.१ ८.२ "Ahmedabad BRTS:Urban Transport Initiatives in India: Best Practices in PPP". National Institute of Urban Affairs. 2010. pp. 18–48. Archived from the original on May 14, 2012. आह्रियत January 5, 2013. 
  9. "Ahmedabad kicks off 500-cr integrated BRTS". One India News. May 4, 2006. आह्रियत January 5, 2013. 
  10. "Ahmedabad BRTS is the best, says expert". Ahmedabad Mirror. Bennett Coleman & Co. Ltd. August 1, 2009. Archived from the original on February 22, 2012. आह्रियत January 5, 2013. 
  11. http://www.prnewswire.com/news-releases/ahmedabad-india-wins-2010-sustainable-transport-award-81222267.html
  12. http://www.dnaindia.com/india/report_ahmedabad-janmarg-brts-brings-honour-to-gujarat_1319878

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्णावती_बी_आर्_टि_एस्&oldid=484388" इत्यस्माद् प्रतिप्राप्तम्