कवळागुहाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कवळागुहाः सम्पाद्यते
कवळागुहाः पर्वथः
कवळागुहाः पर्वथः

कवळगुहाः (Kavala Caves) उत्तरकन्नडमण्डलस्य हळियाळ-उपमण्डले उळविनामके ग्रामे विद्यन्ते । एष: दाण्डेलीतः ५७ कि.मी. दूरे अस्ति । उळवीग्रमस्य १० कि.मी. परिधौ निसर्गेन निर्मिताः एताः अद्भुताः गुहाः सन्ति ।

‘उळवी’ द्वादशशतकस्य वचनकारैः अन्विष्य आगतं स्थानम् । कल्याणस्य शिवशरणाः बिज्जळस्य मारणानन्तरम् अन्यत्र गत्वा स्थितवन्तः । बसवेश्वरस्य भागिनेयः चन्नबसवण्णः अन्यैः शरणैः सह उळवीम् आगत्य स्थितवान् । उळवीं परितः गहनारण्यस्य मध्ये शैवसंस्कृतिम् आधरीकृताः अनेकाः गुहाः सन्ति । तेषु अक्कनागम्मगवि (प्रादेशिकभाषायां गवि नाम गुहा), विभूतिकणजगवि, आकळगवि, रुद्राक्षिगवि च प्रख्याता: सन्ति ।

अरण्यमध्ये काचित् विशिष्टा गुहा एषा । गुहायाः प्रवेशद्वारः लघुः अस्ति । ६० पादपरिमितं नत्वा एव गन्तव्यम् । गुहायां कवलेश्वरः अथवा गुहेश्वरः इति शिवलिङ्गौ स्तः । अतिप्राचीना एषा गृहा । एकतः प्रविश्य अन्यमार्गतः बहिः आगन्तुं शक्यते ।

अत्रगमनाय वनमार्गे पर्वतारोहणं कर्तव्यम् । वनप्रदेशे मृगाः मयूराः वनमहिषाः तत्र तत्र दृश्यन्ते । निसर्गप्रियाणाम् उत्तमचारणक्षेत्रमिदम् । नागझरि विद्युदागारप्रदेशतः कवळे पर्वतं गमनाय व्यवस्था अस्ति । कुळगि निसर्गधामतः ३५० सोपानानि आरुह्य गुहाप्रदेशः प्राप्तुं शक्यः ।

अक्कनागम्मगुहा[सम्पादयतु]

समुद्रसमतलतः सामान्यतः ३०० मीटर् औन्नत्ये ‘अक्कनागम्मगवि’ अस्ति । एषा गुहा २.५ मीटर् उन्नता ३ मीटर् वैशाल्ययुता अस्ति । एतस्यां गुहायाम् उपरिष्टात् लम्बमानाः बृहत् ‘सास्नादिवत् आकाराः’ सन्ति । शरणानां दृष्ट्या एताः रचनाः स्त्रीरूपेण दृष्टाः इति कारणेन चन्नबसवण्णस्य मातुः अक्कनागम्मायाः नाम अत्रत्यगुहायै स्थापितवन्तः सन्ति ।

विभूतिकणजदगुहा[सम्पादयतु]

एतस्याः गुहायाः समीपे एव अन्या काचित् ‘विभूतिकणजदगुहा’ नामिका गुहा अस्ति । अत्र गुहायाः भूमितः मीटर् द्वयोन्नते ‘भूसास्ना’ उत्थाय स्थितमस्ति । एतस्याः गुहायाः विशालता ३ मीटर् । तस्याः अन्तर्भागे सूक्ष्मतया म्याङ्गनीस् लेपनमस्ति । अतः एतस्य अन्तर्भागः कृष्णवर्णीयमस्ति । यदि अत्र नखैः घर्षणं क्रियते तर्हि क्याल्शियं कार्बोनेटद्रव्यस्य(सुधा) श्वेतवर्णस्य चूर्णं पतति ।

आकळगुहा[सम्पादयतु]

अन्या काचित् गुहा ‘आकळगविनामिका’ अस्ति । अत्र प्रवेष्टव्यं चेत् भूमितः ३ मीटर् उन्नतमितायाः निश्रेण्याः आवश्यकता अस्ति । एकवारम् एकः एव अन्तः गन्तुं शक्नोति । अस्य लघुमुखेन त्रीणि, चत्वारि मीटर् यावत् चङ्क्रमणेन अन्तः गच्छति चेत् गुहायाः अन्तः बृहत् प्राङ्गणं दृश्यते । उपरि पश्यामः चेत् धेनोः ऊधः इव दृश्यमानः गुहायाः छदितः पतिताः सुधाशिलायाः शिलासमूहाः सन्ति । अतः एतस्या: ‘आकळगवि’ इति नाम आगतम् अस्ति । (प्रादेशिकभाषया 'आकळु' नाम गौः)

आकळगवेः पुरतः पार्श्वे ‘रुद्राक्षिगवि’ अस्ति । एतस्याः गुहायाः विशालता प्राय: ३ मीटर् अस्ति । एतस्यां गुहायां रुद्राक्षरूपेण शिलारचनाः सन्ति ।

‘कवळा’ गुहाः गहनारण्यस्य मध्ये एव सन्ति । ‘नागरझरि’ नामकं खातम् अम्बिकानगरात् सामान्यतः सप्त कि.मी. दूरे अस्ति । अत्रत्ये कस्मिंश्चित् दुर्गमे शैले ‘कवळागुहाः’ सन्ति । सङ्कुचितः प्रवेशद्वारतः अन्तः गन्तव्यम् । प्राय: १० मीटर्-पर्यन्तं चङ्क्रमणं कुर्वन् अन्तः गच्छति चेत् भव्यः अलिन्दः दृश्यते । अत्र लम्बमानाः रचनाः, भूमेः उद्गताः रचनाः च सन्ति । भूमेः उद्गताः रचनाः लिङ्गरूपेण घनीभूताः सन्ति । एतस्य उपरि यः तोलनतोङ्गलु अस्ति ततः अन्तर्जलं भूमेः तोङ्गलोः उपरि स्रवति । एतां क्रियां भक्ताः शिवलिङ्गस्य अभिषेकः इति भावयन्ति ।

एताः सुधाशिलायाः गुहाः । अस्माकं कृते प्रकृत्या दत्तं वरदानम् ।

मार्गः[सम्पादयतु]

कारवारतः वाहनसम्पर्कः साध्यः । वर्षाकाले आगमनं कष्टकरं भवति ।
विशेषकालः शिवरात्रिपर्व

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कवळागुहाः&oldid=393478" इत्यस्माद् पुनः प्राप्तिः