काञ्चनकुञ्चिकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
काञ्चनकुञ्चिकम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः विष्णुपदभट्टाचार्यः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

काञ्चनकुञ्चिकस्य रचना १९५६ ईसवीयाब्दे समभवत् । सूत्रधारस्य मारिषेण सह वार्तालापे संस्कृतरूपकप्रेक्षकाणामभावस्योपरि कविना महान् खेदोऽभिव्यक्तः । प्रकरणस्यास्याभिनयो वसन्तोत्सवे सम्पन्नः।

कथवस्तु[सम्पादयतु]

सुकुमारनामा सुशिक्षितो वृत्तिविहीनो ‘बहू-बाजारे' अनुरूपकार्याभावे त्रीन् बालकानध्याप्य यथाकथञ्जिजीविकां निर्वहति । तस्य मातापितरौ दिवङ्गतावास्ताम् । तस्य मित्रं प्रशान्तो नाम चिकित्सकस्तं द्रष्टुं तस्य च चिन्तायां समभागी भवितुमायातः । स्वचिन्तानिमग्नः सुकुमारः प्रशान्तं नावलोकयामास । तदा प्रशान्तोऽवदत् - मन्ये यद् भवतोऽक्षिणी दृष्टिशून्ये सञ्जाते । ततः स उपनेत्रं निःसार्य तस्य चक्षुषोरवरोपयाम्बभूव । तदा सुकुमारोऽब्रवीत् - वयस्य ! नास्मि प्रज्ञाचक्षुः अपि तु अन्यमनस्कतया भवन्तं नावलोकितवान् । ततः स वृत्तिविहीनतायाः कष्टमाचख्यौ । कस्यचित् प्रभावशालिनो महापुरुस्य संस्तुतिं विना केवलं योग्यतया न कार्यं सञ्चलतीत्यपि स्वकथने योजितवान् । प्रशान्तोऽकथयत्तर्हि कोऽपि व्यवसायो विधीयताम् । अहं कुसीदं विनैव तुम्यमावश्यकं धनं प्रदास्यामि । सुकुमारेणोक्तं नाहं धनमादास्यामि, यतो हि मित्रेभ्यो धनग्रहणात् सख्यं त्रुट्यति । अन्ते सुकुमारेण निवेदितं सुरञ्जनवयन-यन्त्रालये रासायनिकस्य आवश्यकता विद्यते । यदि भवान् तदधिकारिणा परिचितः तर्हि मम नियुक्तिं कारय ।

चिरञ्जीवस्य कार्यालये बहूनि पत्राणि समागतान्यासन् । तत्र दशरूप्यकाणां विज्ञप्ति-व्ययलेखोऽप्यासीत् । विज्ञप्तिनं तेन प्रेषिता, अपि तु तदात्मजया विद्युत्प्रभया स्वविवाहाय प्रेषितासीत् । तदानीमेव जनार्दनठक्कुरः चिरञ्जीवस्य विवाहं प्रास्तावयत् अकथयञ्च यदि वयसः षष्टितमे वर्षे वर्तसे तेन किम् ? पुत्राभावाद् विवाहः कार्यः । मया चन्द्रनगरे गतवर्ष एव आयुषः सप्ततिमतीतस्य प्रतापनाराणस्य परिणयः कारितः । अस्मिन् वर्षे तस्य पुत्रोपलब्धिरपि सञ्जाता । चिरञ्जीविनोक्तं नाहं वार्धके विवाहं करिष्यामि । विद्युत्प्रतिभायाः विवाहायास्मि चिन्तितः । अथ चाकारिता विद्युत्प्रभा सखीसमेता समागता । इयं तु कमपि कविवरं वरीतुमिच्छतीति विद्युत्प्रभायाः सखी विशदयामास । ततो देशदुर्दशाया बोधकं दृश्यं वर्तते । सिद्धेश्वराभिधानस्य व्याधितस्य अभिभावकस्य पार्श्वे औषधिं क्रेतुं रूप्यकाणि नासन् । चिकित्सकः प्रशान्तः तस्मै दयते; पञ्च रूप्यकाणि तस्मै औषधिक्रयणाय प्रयच्छति ।

प्रशान्तस्य चिकित्सालये निषण्णः सुकुमारः तस्मै तद्विज्ञापनं प्रदत्तवान् यस्मिन् विद्युत्प्रभया विवाहार्थम् आवेदननामन्त्रितम् । प्रशान्तस्तमावेदनं कर्तुं तत्कालं प्रेरयामास । यदा सुकुमार आत्मानमयोग्यं समर्थितवान्, तदा प्रशान्तस्तद्धस्तमवलोक्य विचार्योक्तवान् - "स्वभाग्येन ते धनं नास्ति । स्त्रीभाग्येन तु प्रभूतम्।" अनया धनवत्या सह ते विवाहं ब्रह्मापि न शक्नोत्यन्यथाकर्तुम्।

सुकुमारेण कथितम् - अहं कविः नास्मि । तत्र पुनः कविताकरणम् अनिवार्यम् । प्रशान्त उत्तरं ददौ – कवितारचनं मोदकभक्षणमिव सुकरम् । ततः विद्युत्प्रभायाः सेवकः पूर्णचन्द्र आयातः । दीयतां मे केशकृष्णकारिणी काचिदौषधिरित्युक्तवान् । औषधं गृहीत्वा स प्रशान्तेन पृष्टो विद्युत्प्रभाया विषये सर्वमुक्तवान् ।

अथ सुकुमारः सुरञ्जन-वयन-यन्त्रालये वृत्तिं प्राप्त्यर्थम् अन्तर्व्यूहाय तत्र गतवान् । प्रशान्तोऽपि तेन सह तत्र गतः । स यन्त्रालयस्वामिनः धुरन्धरस्य पुरतः सुकुमारस्य संस्तुतिं कृतवान् -

सखायमिष्टः सुकुमारनामा सुस्पष्टभाषी सरलश्च शिष्टः।

विज्ञानवारांनिधिपारदृश्वा सुधीश्च साधुश्च विशुद्धवृत्तः॥

अथ सुकुमाराय प्रशान्तो मासस्य द्विशतकरूप्यकाणां वृत्तिं दापयामास। ततो धुरन्धरोऽतिरिक्तं कार्यं निर्दिष्टवान् – प्रतिदिनं सायं स्नातकपरीक्षार्थिनीं मम कन्यामध्यापयेति।

वपुषा त्वमहो मनोहरस्तनया में नवयौवनान्विता।

प्रहिणोति शरं यदि स्मरो गतिरेका युवयोः करग्रहः।।

पञ्चमाङ्के प्रथमतो हास्यपरिपाको विलसति । पूर्णचन्द्र औषधेन केशान् कृष्णीकृत्य स्वपत्नीं भीषयामास । स चोरवद् गत्वा तस्याः करग्रहणं चक्रे | सा गर्जनसिंह चुक्रोश – पश्य, अयं कश्चिद् मम पातिव्रत्यं खण्डयितुमिच्छति । अयं कोऽयं दस्युः कन्याया अन्तःपुरं प्रविष्टोऽस्ति । गर्जनसिंहो लकुटसनाथः समागत्य पूर्णचन्द्रं गले जग्राहापृच्छच्च – "कथय रे दास्याः पुत्र, कस्त्वम् ? कथं वा मामतिक्रम्य गृहं प्रविष्टः" इति। पूर्णचन्द्र उवाच - अहं पूर्णचन्द्रो, न दस्युः । त्वं मां सर्वदा वृद्धजरद्गव इति व्याहरसि तेनायमारम्भः।

एकस्मिन् दिवसे सुकुमारमित्रस्य पत्रं विद्युत्ग्रतिभा प्राप्तवती । तेन किञ्चित् प्रभावितापि नायिका तस्याकवित्वात् तम्प्रति नासीत् प्रवृत्ता । अन्ततः कविप्रतिभाया विकसनाय सुकुमाराय मासैकस्य समयः प्रदत्तः ।

षष्टेऽङ्के यदुत्तरं सुकुमारपत्रस्य विद्युत्प्रतिभा प्रदत्तवती तत् स प्रशान्ताय श्रावयति -

गवामिव धियो येषां त एव गविताप्रियाः।

अतः स्वकविताशक्तिः सप्रमाणं प्रदश्यताम्।।

(अत्र गद्यमयी कविता गवितेति शब्दिता)। श्रुत्वैतत् प्रशान्त आशावान् सञ्जातः सुकुमार-विवाहविषये । सुकुमारेणैका कविता विरचिता -

त्वं राजसे पल्लविनीव वल्ली तुच्छोऽहमासे तृणगुच्छतुल्यः।

यदस्ति नौ दुस्तरमन्तरं तन्—न मेलनं सम्भवतीह लोके।।

सुकुमारेण कथितं तस्या दर्शनमन्तरां शोभनकवितानिर्माणं न संभवति । तदा प्रशान्तेन तस्याश्चित्राय प्रयतितम् । नायिकायाः सेवकसाहाय्येन तस्याश्चित्रमुपलब्धम्।

एकदा वंशानिनादमुपश्रुत्य नायिकायाः रागमयी वृत्तिरुल्लास । तस्याः सखी कुन्दकलिका स्नेहमसृणे वार्तालापे तामपृच्छत् - कस्माद् भवती कविवरमेव वररूपेणेच्छति ? तदा नायिका अब्रवीत् बाल्यात् प्रभृत्येव मम मानसे स्वप्न एष सञ्चितो यदहं कवेः पत्नी भविष्यामि । तयोर्वार्तालापमध्य एव पूर्णचन्द्रः कुन्दकलिकायाः पितुः पत्रं विद्युत्प्रभानामतः समागतं समार्पयत्। तत्र लिखितमासीत् - यदाहं पञ्जाबप्रदेशात समागतः, तदा रामपुरे मम विश्वम्भरनामा प्रतिवेशी कुन्दकलिकां स्वपुत्रायायाचत । तस्य प्रशान्ताभिधानस्तनयः “बहूबाजारे” चिकित्सकः सन् स्वगृह एव निवसति । यदि सोऽप्यनुमतिं ददाति, तर्हि तस्मै एवं कुन्दकलिका देयास्ति ।

विद्युत्प्रभयोक्तं – प्रशान्तस्तु सुविदित एव । तेन सह तव गान्धर्वविवाहः कथं न सम्पद्यताम् । ततः कुन्दकलिकाया हृदये पीडास्ति । अतः सास्वस्था वर्तते - इत्यपदिश्य चिकित्सकः प्रशान्त आहूतः। स आगत्य रोगपरीक्षणाय प्रथमं हस्तं द्रष्टुमियेष। तदा विद्युत्प्रभा रुग्णायितां कुन्दकलिकामुवाच - पाणिः प्रसार्यताम् । अत्रभवता ग्रहणीयः सः ।'•••••••'आर्य । दृढं धार्यतामयं पणिर्नो चेत् पुनर्पसारितो भवेत्।

ततः प्रशान्तः सम्यक् परीक्षणाय हृत्परीक्षणयन्त्रं कुन्दकलिकाया वस्त्रावृते वक्षसि स्थापयित्वा तस्यापरभागं स्वकर्णकुहरयोर्निदधे । अथ यदोपचाराय सूचीमुखेनौषधं तस्याः शरीरे प्रवेशयितुमैच्छत् । तदा कुन्दकलिका नाहं रुग्णेति सस्मितमुदितवती । अथ चिकित्सक कथितवान् - तर्हि कस्मादिदं नाटकं रचितम् । तदानीं विद्युत्प्रभा कुन्दकलिकायाः पितुः पत्रं प्रादर्शयत्। पत्रं निपठ्य प्रशान्तेनोक्तं – तत्तथा भवितुं शक्नोति । तत्रैका बाधा वर्तते । यावन्मदीयः सखा विवाहितो न भविष्यति तावदहमपरिणीतो वर्तिष्ये । स च -

सखा मे सुकुमाराख्यस्त्वदनुध्यानतत्परः।

कवितापक्षपातात्ते मग्नो नैराश्यसागरे।।

विद्युत्प्रभायाः कृते समस्येयमुपस्थिता । कथं तस्याश्चिरसञ्चितः स्वप्नः पूर्वेत ?। इतश्च सुकुमारः कवितारचनाभ्यासे लीनोऽविद्यत। प्रशान्तस्तस्मै तस्य दिनस्य सर्वं वृत्तान्तं निवेदितवान्।

नवमेऽङ्के विद्युत्प्रभायाः स्वयंवरो भवति । तत्र पुलक-सुकुमारयोः प्रतिस्पर्धासीत् । पुलकोऽपि कवितामाध्यमेन विद्युत्प्रभायाः परिचितः आसीत् । नायिका प्रथममन्तव्यूहे (Interview) पुलकमाकारयामास । विद्युत्प्रभायाः प्रश्नानुसारं पुलकेनोक्तं - आविद्यार्थिजीवनं कवितां करोमि । अद्यावधि कोऽपि ग्रन्थो न मुद्रितः । भवत्यास्माकं कावितास्तु पठिता भविष्यन्ति । पुलकस्य उत्तरैः विद्युत्प्रभा तस्य विषये सम्यग् धारणां निर्मातुं नाशक्नोत् । ततो नायिका प्रशान्तं पुस्तकालये स्थातुं निर्दिश्य सुकुमारम् अन्तव्यूहम् आहूतवती । षट्पद्यात्मिका सुकुमारकृतिर्वस्तुतः शोभनासीत् । तस्याश्चरममिदं पद्यम् -

दिष्ट्या सारथ्यमस्मिञ्छ्रयसि यदि मे जीवनपथे

पन्थानं स प्रयायाद्विषममपि विनोद्घातविपदः।

दैवात्प्रेमप्रवाहैः स्नपयसि यदि ममाभीप्सिततमे

साफल्येनाभिरामं सपदि मम भवेदूषरजनुः।।

अथ कुन्दकलिकयोक्तं – किमेतस्य प्रमाणं यदिमाः कविता भवद्भिरेव विरचिताः ? श्रुत्वैतत् सुकुमारचुक्रोधावोचच्च – यदि भवत्याः मम योग्यताया उपरि सन्देहस्तर्हि स ममाग्निप्रवेशादपि दूरीकर्तुं न शक्यते । एषोऽहं यामीति कथयित्वा यावत्सुकुमारः प्रतिष्ठते, तावद् विद्युत्प्रभा द्वारमवरुरोध। अश्रुपूरितनयनया तयोक्तं न भवानतः परमितो गन्तुमर्हति । भवता कुन्दकलिकायै कुप्यताम् । मया भवतः किमनिष्टं रचितम् । अथ तदानीं कुन्दकलिकापि क्षमामयाचत। सुकुमारेण उक्तं - परिहासशरेण मम वधस्य कतमोऽधिकारो भवत्याः ? तया भटित्युक्तम् - अहं तावद् भवतां स्याली न भवामि किम् ? ततः सा विद्युत्प्रभायाः पाणिं सुकुमारपाणौ निदधे | पाणिग्रहणानन्तरं सुकुमारो विद्युत्प्रभामुक्तवान् -

शरीरिणी त्वं कविता श्रितासि मां

यतस्ततोऽहं कविरेषशाश्वतः।

स्वकीयभासा रहितोऽपि चन्द्रमा

यथा भवत्यर्करुचा मनोहरः।।

ततः पुस्तकालयसंस्थितेन प्रशान्तेन कथितं – किमेकाकिनैव पाणिग्रहणानन्दं लप्स्यसे ? तदा चिरञ्जीवः कुन्दकलिकायाः पाणिं प्रशान्तपाणौ धृतवान् । ततो माल्यविनिमयः संवृत्तः।

नाट्यशिल्पम्[सम्पादयतु]

नाटकेऽस्मिन् रङ्गमञ्चसङ्केता अङ्कारम्भ उपलभ्यन्ते । प्रथमपङ्क्तिम् आरभ्य षट्पङ्क्तिं यावत्तेषां विस्तारः । एतादृग् दीर्घा रङ्गसङ्केता विदेशिप्रभावस्य सूचकाः सन्ति । प्रस्तावनायां संस्कृतनाटकप्रेक्षकाभावस्य सम्यगुपस्थापना विहिता।

विष्णुपदो हास्यप्रियः कविः । स पदे पदे दर्शकं हासयति । अस्मिन् छायातत्त्वस्य बहून्युदाहरणानि विलसन्ति। प्रवेशक-विष्कम्भक-चूलिकापक्षकाणामभावोऽस्मिन् विद्यते । अर्थोपक्षेपकोचिता सामग्री एकोक्त्या पत्रादिना च प्रेक्षकस्य सम्मुखे समुपस्थापिता।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काञ्चनकुञ्चिकम्&oldid=435578" इत्यस्माद् पुनः प्राप्तिः