काठ्माण्डू

विकिपीडिया तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
काष्ठमंडपम्
येँ देय्‌
काठमांडूमहानगरम्
—  नेपालदेशस्य मुख्यराजधानीनगरम्  —
उपरिष्टात् क्रमेण काष्ठमण्डपक्षेत्रस्य एकैकंकृत्य कलाः । काष्ठमण्डपदरवारक्षेत्रे अवस्थितः वालाजु एवं देगुतलेजुमन्दिरम् (दायाँ), पशुपतिनाथमन्दिरम् (बायाँ), बौद्धनाथस्तुप(दायाँ), स्वयम्भूनाथमन्दिरम् (दायाँ), सिंहदरवारम्, बागमती नदी, बूढानीलकण्ठ
ध्येयवाक्यम्: मेरो पौरख, मेरो गौरव, मेरो कठमाण्डौ
काष्ठमंडपम् is located in Nepal
काष्ठमंडपम्
Location in Nepal
Coordinates: 27°42′N 85°20′E / 27.7°N 85.333°E / 27.7; 85.333Coordinates: 27°42′N 85°20′E / 27.7°N 85.333°E / 27.7; 85.333
देशः  Nepal
विकासक्षेत्रम् मध्यमाञ्चलम्
अञ्चलम् बागमती अञ्चलम्
मण्डलम् काठ्माण्डू
मानवविकाससूचकाङ्कः increase ०.६५० मध्यम [१]
स्थापना ईशा पुर्वा ९०० तमेब्दे [२]
सर्वकारः
 • प्रमुखकार्यकारी अधिकृतः लक्षमणोsर्यालः
विस्तीर्णम्
 • सम्पूर्णम् . किमी ( वर्ग मी)
औन्नत्यम् १,४०० मी (४,५९३ फिट)
जनसङ्ख्या (२०१२)
 • सम्पूर्णम् [३]
  जनसंख्या
नेपालसमयः (UTC+५:४५)
पोस्टल कोड 44600 (GPO), 44601, 44602, 44604, 44605, 44606, 44608, 44609, 44610, 44611, 44613, 44614, 44615, 44616, 44617, 44618, 44619, 44620, 44621
क्षेत्रसूचीसङ्ख्या ०१
जालस्थानम् आधिकारिकं अन्तर्जालम्

काठमाण्डू (वस्तुतः संस्कृतभाषायां काष्ठमण्डपः ) (नेपालीभाषा - काठमांडौ - येँ देय्‌) नेपालदेशस्य राजधानी अस्ति । उपदशलक्षाः अत्र निवसन्ति । नेपालस्य महत्तमनगरेषु अन्यतमम् अस्ति । अस्मिन् महानगरे ललितपुर-भक्तपुरनामिके भगिनिनगरे स्तः । बहवः लघूनि नगराणि सन्ति । इदं नगरं नेपालस्य केन्द्रभागे १४०० मीटर्मिते कंसाकारिकायाम् उपत्यकायां शिवपुरि-फूल्चौक्-नागार्जुन-चन्द्रगिरिशिखराणां मध्ये विद्यते । काठ्माण्डूनगरं - काठ्माण्डू, ललितपुरम्, भक्तपुरम् इत्येतैः त्रिभिः मण्डलैः युक्तः अस्ति । देशे अत्यधिका जननिबिडता अत्रैव दृश्यते । पञ्चदशांशात्मिका जनसङ्ख्या विद्यते । काठ्मण्डू नेपालस्य राजधानीमात्रं न, इदं केन्द्रभागस्य (मध्यमाञ्चलस्य) प्रमुखकेन्द्रं वर्तते । केन्द्रभागः - भागमती, नारायणी, जनकपुरम् इत्येतैः त्रिभिः विभागैः युक्तः वर्तते । तस्मिन् काठ्मण्डू भागमतिविभागे अन्तर्भवति । जनाः हिन्दुधर्मस्य बौद्धमतस्य च अवलम्बिनः दृश्यन्ते अधिकतया । नेपालीभाषा बहुभिः उपयुज्यमाना भाषा । शिक्षितैः आङ्ग्लभाषा अवगम्यते । ९८% जनाः अक्षरज्ञाः सन्ति । 'युनेस्को'संस्थया काठ्मण्डु-उपत्यका (काठ्मण्डु-ललितपुर-भक्तपुरश्च) जागतिकपारम्परिकस्थलत्वेन परिगणिता अस्ति ।

नामनिष्पत्तिः[सम्पाद्यताम्]

'काठ्मण्डु' इत्येतत् नाम 'काष्ठमण्डप' इत्यतः निष्पन्नम् । 'मरुसत्तल ' इत्यपि प्रसिद्धम् इदं विशिष्टं मन्दिरं राजा लक्ष्मीनरसिङ्गमल्लेन १५९६ तमे वर्षे निर्मितम् । अट्टद्वयात्मकम् इदं समग्रं मन्दिरं काष्ठेन एव निर्मितम् अस्ति । इदं नगरं 'कान्तिपुरम्' इत्यपि निर्दिश्यते स्म । 'कान्तिः' इत्येतत् लक्ष्माः अपरं नाम ।

काष्ठमण्डपम्

इतिहासः[सम्पाद्यताम्]

पुरातत्त्वज्ञैः काठ्मण्डुप्रदेशे कृतेन गवेषणेन प्राचीनसंस्कृतेः अवशेषाः प्राप्ताः सन्ति । तेषु अन्यतमः अस्ति मालिगान्प्रदेशे दृष्टा क्रि श १८५ तमे वर्षे निर्मिता प्रतिमा । धण्डोचैत्ये कृतात् खननात् ब्राह्मीलिप्या युक्ता काचित् इष्टिका प्राप्ता अस्ति । इयं २००० वर्षप्राचीना इति विश्वस्यते पुरातत्त्वज्ञैः ।

मञ्जुश्री-बोधिसत्त्वः

प्राचीनेतिहासः[सम्पाद्यताम्]

काठ्मण्डुनगरस्य प्राचीनेतिहासः पुराणसम्बद्धः । स्वयम्भूपुराणानुगुणम् इदं नगरं पूर्वं 'नागदहः' नामकः सरः आसीत् । इदं सरः मञ्जुश्री शुष्कीकृत्य तत्र मञ्जुपत्तनं निर्मितवती । तस्य राजा आसीत् धर्माकरः । नेपालीयानां वंशवृक्षस्य अध्येता गोपालराज् वन्सवली वदति यत् लिचचाविनां शासनात् पूर्वं इदं मण्डलं गोपालः, महिष्पालाः, आभिराः, किराताश्च अशासन् इति । प्राचीनोल्लेखाः अत्यल्पाः उपलभ्यन्ते ।

मध्यकालीनेतिहासः[सम्पाद्यताम्]

अस्मिन् समये काठ्मण्डुनगरस्य शासकाः आसन् लिच्छविजनाः मल्लाश्च । नगरस्य वर्धनम् अस्मिन् काले एव अधिकतया जातम् । बहवः ऐतिहासिकानि मन्दिराणि, आश्रमाः भवनानि च अस्मिन् एव काले निर्मितानि । इदं नगरं भारत-चीनदेशयोः वाणिज्यस्य केन्द्रभूतम् आसीत् । लिच्छवियुगे इदं नगरं द्विधा विभक्तम् आसीत् - कोलिग्राम् (यम्बु/थःने) दक्षिण-कोलिग्राम् (येङ्गाल्/क्वःने) च इति । अग्रे गुणकमदेव एतद्वयं संयोज्य मञ्जुश्रीस्य खड्गाकारकं नगरं निर्मितवान् । नगरं परितः अष्ट मातृका सहितं सेनावासाः रचिताः आसन् । अजिमाः एतेषां नायकाः आसन् । नगरं सम्पदः देव्याः कान्ते नाम्ना कान्तिपुरम् इति नामाङ्कितम् आसीत् । मानगृह-कैलासकूटभवन-भद्रादिवासभवन-इत्यादीनां भवनानाम् उल्लेखः कृताः दृश्यन्ते तदानीन्तनैः यात्रिकैः संन्यासिभिश्च । सप्तमशतकस्य लिच्छविराजस्य अंशुवर्मणः प्रासादस्य कैलासकूटभवनस्य उल्लेखः प्रसिद्धेन चैनीयात्रिकेण झुवाङ्ग्जाङ्गेन कृतः दृश्यते ।

अग्रे मल्लयुगः आरब्धः । तदा काठ्मण्डु - कान्तिपुर-ललितपुर-भक्तपुर-कीर्तिपुरनामकैः चतुर्भिः नगरैः युक्तम् आसीत् । एतेषां मण्डलानां मध्ये कला-शिल्प-वाणिज्यादिषु विषयेषु महती स्पर्धा भवति स्म इत्यनेन सर्वत्र महती प्रगतिः दृष्टा । विविधाः कलाविदः कलाप्रचाराय देशे विदेशे च बहु अटन्ति स्म । एषियाखण्डस्य बहुत्र तैः कलाप्रचारः कृतः । सार्वजनिकभवनानां, मन्दिराणां निर्माणे, नीतिसंहितायाः सज्जीकरणे, नाटकादीनां लेखने, जनसम्मर्दप्रदेशेषु तस्य प्रदर्शने च स्वयं राजानः एव आसक्तिं प्रदर्शयन्ति स्म । राज्ञः प्रतापमल्लस्य शिलालेखेषु भारत-टिबेट्-चैना-पर्शिया-युरोप्-इत्यादिभ्यः देशेभ्यः प्राप्तानि चिन्तनानि उल्लिखितानि दृश्यन्ते । तन्त्राख्यान, हरमेखला (वैद्यकीयम्), मूल्देवशशिदेव (धर्मः), अमरकोशः इत्यादयः ग्रन्थाः अस्मिन् युगे एव रचिताः । अस्मिन् युगे निर्मितानि प्रसिद्धानि भवनानि - कठ्मण्डु दर्बार् स्क्वेर्, पाटन् दर्बार् स्क्वेर्, भक्तपुर् दर्बार् स्क्वेर्, कीर्तिपुरस्य भूतपूर्व दर्बार्, न्यातपोल, कुम्भेश्वर, कृष्णमन्दिरं च ।

आधुनिकेतिहासः[सम्पाद्यताम्]

मल्लशासनात् अनन्तरं गोखसाम्राज्यस्य उदयः आधुनिकयुगस्य आरम्भकालः । काठ्माण्डु तेषां राजधानी आसीत् । नव-अट्टयुक्तं बसन्तपुरभवनम् इत्यादीनि नेपालीशिल्पकलायुक्तानि नूतनानि भवनानि निर्मितानि । प्रतिवेशिदेशैः सह जातात् निरन्तरयुद्धात् वाणिज्यं कुण्ठितं जातम् । ग्रेट्ब्रिटन्देशस्य विरुद्धं फ्रान्स्देशेन सह भीमसेनथापेन कृतस्य सन्धेः कारणतः नूतनसेना व्यवस्थापिता जाता । ब्रिटीश्विरुद्धनीतिः ब्रिटीश्परं जातं राणस्य शासनकाले । तदा एव विदेशीशिल्पकलायाः प्रगतिः अत्र दृष्टा । अस्य कालस्य प्रमुखानि भवनानि सन्ति - सिंहदर्बार्, कैसर्महल्, शीतल्निवास्, प्राचीननारायणहितिप्रासादः च । 'न्यूरोड्' इत्येषः अस्मिन् युगे निर्मितः आधुनिकवाणिज्यमार्गः ।

भूगोलम्[सम्पाद्यताम्]

काठ्मण्डुनगरं काठ्मण्डु-उपत्यकायाः वायव्यदिशि विद्यते । अस्य विस्तारः अस्ति ५०.६७ चतरस्रकिलोमीटर्मितम् । समुद्रतीरात् सामान्यम् औन्नत्यं विद्यते १३५० मीटर्मितम् । नगरस्य दक्षिणभागे ललितपुरम्, नैरुत्यदिशि कीर्तिपुरम्, पूर्वदिशि मध्यपुरम्, अन्यासु दिक्षु विविधाः ग्रामाः विद्यन्ते । नगरे अष्ट नद्यः प्रवहन्ति यासु बागमती, विष्णुमती, धोबिखोला, मनोहरा, हनुमन्त्, तुकुचा च मुख्याः सन्ति । एतासां नदीनाम् उगमस्थानरूपाः पर्वताः १५००-३००० मीटर्मिते औन्नत्ये विद्यन्ते । अत्र अधिकतया ओक्, एल्म्, बीच्, मापल् वृक्षाः दृश्यन्ते ।

नेपालदेशे पञ्च विभिन्नवातावरणयुक्ताः प्रदेशाः निर्दिष्टाः सन्ति । तेषु काठ्मण्डु-उपत्यका उष्णवातावरणयुक्तः (१२००-२३०० मीटर्-औन्नत्यम्) प्रदेशः इति निर्दिश्यते यत्र वातावरणं हितकरं भवति । उष्णकाले अत्र २८-३० सेण्टिग्रेड्मितं भवति । शैत्यकाले १०.१ सेण्टिग्रेड्मितम् उष्णं भवति ।

आर्थिकता[सम्पाद्यताम्]

भारत-टिबेट्देशयोः मार्गे काठ्मण्डुनगरस्य वाणिज्यं वर्धितम् । टिबेट्नगरे लासायां तेषां वाणिज्यं प्रसिद्धम् आसीत् । तेषाम् अन्याः वृत्तयः नाम कृषिः, काष्ठकार्यम्, वयनम्, कौलालं च । नेपालीयलोक्तकागदस्य पश्मिनाराङ्कवाणां च वाणिज्याय काठ्मण्डु प्रसिद्धं वर्तते ।

नेपालस्य औद्योगिक-वाणिज्यकेन्द्रमस्ति काठ्मण्डु । इदं बहूनां संस्थानां वित्तकोषाणां सङ्घटनानां च मुख्यकेन्द्ररूपेण विद्यते । नगरस्य आर्थिकतायां वाणिज्यस्य २१%, उत्पादनस्य १९%, कृषेः ९%, शिक्षणस्य ६%, परिवहनस्य ६%, उपाहारमन्दिरस्य ५% भागः भवति । नेपालस्य धनिकाः बहवः अत्र यद्यपि निवसन्ति नगरस्य अधिकांशाः जनाः निर्धनाः सन्ति ।

स्वयम्भुनाथचैत्यात् काठ्मण्डु-उपत्यकायाः मनोहरं दृश्यम्

प्रवासोद्यमः[सम्पाद्यताम्]

नेपालदेशे प्रवासोद्यमः १९५० तमे वर्षे आरब्धः । ततः देशस्य राजनैतिकी स्थितिः सम्पूर्णतया परिवर्तिता । जगता सह सम्बन्धः आरब्धः । १९५६ तमे वर्षे वैमानिकव्यवस्था आरब्धा, काठ्मण्डु-राक्सर्-एतयोः मध्ये राष्ट्रियमुख्यमार्गः निर्मितः । नेपालदेशः अन्तर-राष्ट्रिय-प्रवासोद्यमसंस्थासु सदस्यत्वं प्राप्नोत् । नगरस्य अधिकांशानां जनानां प्रवासोद्यमः एव जीविका । हिन्दु-बौद्ध-यात्रिणः अत्रत्यानि पशुपतिनाथ, कैलासनाथ-महादेव-प्रतिमा(जगतः अत्युन्नतः शिवमूर्तिः), स्वयम्भुनाथ, बौद्धनाथ, बुधनीलकण्ठ-इत्यादीनां स्थलानां दर्शनाय आगच्छन्ति । यात्रिणां सङ्ख्या निरन्तरं वर्धमाना दृश्यते । हिमालयस्य प्राकृतिकसौन्दर्यं देशस्य वैभवपूर्णा सांस्कृतिकी सम्पत्तिश्च अस्य उद्यमस्य यशस्वितायै प्रमुखाः हेतवः ।

सर्वकारः पौरव्यवस्था च[सम्पाद्यताम्]

काठ्मण्डुमहानगरं पञ्चधा विभक्तम् अस्ति - केन्द्र-पूर्व-उत्तर-नगर-पश्चिमभागाः इति । पौरशासनाय नगरमिदं ३५ निर्वहणपाल्यत्वेन विभक्तम् । नगरपालिकायाः निर्वहणाय १७७ निर्वाचितसदस्याः २० नियुक्तसदस्याः च भवन्ति । वर्षे द्विवारम् अस्याः गोष्ठी प्रचलति यस्याम् अभिवद्ध्यै अपेक्षिताः निर्णयाः स्वीकरिष्यन्ते ।

नेवारिजनाः

जनसङ्ख्या[सम्पाद्यताम्]

अत्रत्या जनसङ्ख्या अस्ति ६,७१,८४६ (२००१ जनगणतेः आधारेण) । पूर्वारभ्य नेवारजनाः अत्र अधिकाः सन्ति । ९,१५,०७१ - २०११ तमे वर्षे । १३,१९,५९७ जनसङ्ख्या भवेत् इति ऊह्यते २०२१ तमे वर्षे । जनसङ्ख्यायाः वर्धनानुगुणं भूविस्तारः अपि चिन्त्यमानः अस्ति ।

संस्कृतिः[सम्पाद्यताम्]

शिल्पकलाकृतिः

कलाः[सम्पाद्यताम्]

काठ्मण्डु-उपत्यका कला-शिल्पकलानाम् आगारम् इति उच्यते । काष्ठ-शिला-धातु-इत्यादिभिः निर्मिताः शिल्पकलाः मन्दिरेषु, स्तूपेषु, चैत्यासु, प्रासादेषु च दृश्यन्ते । देवतानां कलाकृतयः मार्गेषु, गृहेषु च दृश्यन्ते । एताः कलाः बहु पूर्वारभ्य विद्यते स्म चेदपि जगति तस्य प्रसारः १९५० तमवर्षात् अनन्तरं जगतः कृते देशस्य द्वाराणि यदा उद्घाटितानि तदा एव जातः ।

सङ्ग्रहालयाः[सम्पाद्यताम्]

दि न्याषनल् सङ्ग्रहालयः, दि न्याचुरल् हिस्टरि सङ्ग्रहालयः, हनुमन्धोक-प्रासाद-समुच्चयः, कैसर्-ग्रन्थालयः, दि पटान् सङ्ग्रहालयः, राष्ट्रिय-कलाशाला, नेपाल्-फैन्-आर्ट्-ग्यालरि, नेपाल्-आर्ट्-कौन्सिल्-ग्यालरि इत्यादयः काठ्मण्डुनगरे विद्यमानाः केचन सङ्ग्रहालयाः ।

सङ्गीतम्[सम्पाद्यताम्]

नेपालदेशे काठ्मण्डु सङ्गीतनृत्यानां केन्द्रं वर्तते । 'गुन्ला' इत्येषः साम्प्रदायिकः सङ्गीतोत्सवः । नेवारसङ्गीतस्य उगमस्थानमस्ति काठ्मण्डुनगरम् । नेपाले विद्यमानाः सर्वे सङ्गीतप्रकाराः अत्र द्रष्टुं शक्याः । १९७० तमे वर्षे बहवः हिप्पिजनाः अत्र आगत्य राक् राल् सङ्गीतस्य परिचयम् अकारयन् ।

धर्मः[सम्पाद्यताम्]

हनुमान्धोकामन्दिरम्

हिन्दुधर्मः[सम्पाद्यताम्]

काठ्मण्डुनगरे विद्यमानाः बहवः देवालयाः अतीव प्राचीनाः विद्यन्ते । पशुपतिनाथदेवालयः, चाङ्गुनारायणदेवालयः (प्राचीनतमः), काष्ठमण्डपं च प्रमुखानि सन्ति । बज्रयोगिनीदेवालयः, दक्षिणकालीदेवालयः, गुह्येश्वरीदेवालयः, शोभाभगवतीमन्दिरं च अन्ये देवालयाः । काठ्मण्डुनगरे प्रवहति बागमतिनदी हिन्दुभिः बौद्धैः च पवित्रा मन्यते ।

बौद्धधर्मः[सम्पाद्यताम्]

बौद्धनाथः

काठ्मण्डु, तत्र विद्यमानाः स्तूपाः च नेवार्-टिबेटन्-बौद्धानां महत्त्वपूर्णाः सन्ति । बौद्धमतं संस्कृतेन आचर्यते इति निर्देष्टुं योग्यम् एकमेव स्थलं नाम काठ्मण्डु । अत्रत्यौ राजकुमारी भृकुटी-कलाकारः अरनिको च टिबेट्देशे बौद्धमतस्य प्रचारकार्ये बहु प्रमुखं पात्रम् अवहताम् । शाक्यमुनिवंशजाः अत्रैव न्यवसन् इति विश्वस्यते । १९६० तमात् वर्षात् शाश्वत-टिबेटीयबौद्धानां सङ्ख्या अवर्धत । ५० बौद्धविहाराः वर्तन्ते । अन्ताराष्ट्रिय-बौद्ध-अकाडमि, कोपन्-विहारः, अमिताबविहारः, थार्लाम्-विहारश्च उल्लेखार्हाः ।

अन्यानि मतानि[सम्पाद्यताम्]

सिक्खजनानां गुरुद्वारं कुपुण्डोल्प्रदेशे विद्यते । काठमण्डु-उपत्यकायां ३०० बहैमतस्य बहामन्दिराणि विद्यन्ते । ४.२% जनाः यवनाः सन्ति । क्रैस्तानां सङ्ख्या अत्यल्पा - ०.४५% । तथापि काठ्मण्डुनगरे एव १७० क्रैस्तमन्दिराणि वर्तन्ते ।

दशरथ-रङ्गसाल-क्रीडाङ्गणम्

क्रीडाः[सम्पाद्यताम्]

पादकन्दुकक्रीडा, क्रिकेट्क्रीडा च युवानां प्रिया वर्तते । आल्-नेपाल्-फुट्बाल्-असोसियेषन्-इत्यस्य मुख्यः कार्यालयः काठ्मण्डुनगरे वर्तते । दशरथ-रङ्गसाल-क्रीडाङ्गणम् अन्ताराष्ट्रिय-पादकन्दुक-क्रीडाङ्गणं वर्तते । क्रिकेट्क्रीडा युवानां बहु प्रिया जायमाना अस्ति । कीर्तिपुरे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडाङ्गणं वर्तते ।

बाह्यशृङ्खला[सम्पाद्यताम्]

"https://sa.wikipedia.org/w/index.php?title=काठ्माण्डू&oldid=294952" इत्यस्माद् पुनः प्राप्तिः