काडुगोल्लजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
काडुगोल्लजनाङ्गः
काडुगोल्लजनाङ्गः निवसथिस्थलम्।
काडुगोल्लजनाङ्गः निवसथिस्थलम्।

काडुगोल्लजनाङ्गस्य वसतिः[सम्पादयतु]

चित्रदुर्गस्य पूर्वभागे जगळूरु, मोळकाल्मूरु, चळ्ळकेरे, हिरियूरु इत्येषु उपमण्डलेषु एते निवसन्ति । कन्नडभाषा एतेषां मातृभाषा । ग्रामात् बहिः कुटीरे निवसन्ति । लघुलघु तृणकुटीराणां समूहं ‘हट्टि’ इति वदन्ति । एतत् परितः वृतिं स्थापयन्ति । नूतनानां प्रवेशः हट्टि अन्तः न भवति । कुक्कुटस्य वराहस्य पालनं हट्टि अन्तः न कुर्वन्ति ।

सामाजिकी व्यवस्था[सम्पादयतु]

विवाहं कारयितुं ब्राह्मणं न आनयन्ति । जनाङ्गस्य प्रमुखम् अथवा नायकम् अथवा पूजारी इत्याख्यं स्वजनाङ्गस्य अर्चकम् आह्वयन्ति । पशुपालनम् एव एतेषां मूलवृत्तिः । एत्तप्प, जुञ्जप्प च एतेषां सांस्कृतिकाः वीराः । जुञ्जप्पस्य विषये जनपदमहाकाव्यमेव रचितमस्ति ।

सम्प्रदायाः[सम्पादयतु]

महिलानाम् ऋतुसमये वसतेः बहिः अशौचसमये उपयोक्तुं निर्मिते कुटीरे ताभिः स्थातव्यम् । प्रसवसमयेऽपि एवं बहिः कुटीरे एव प्रसवं कारयन्ति । एतेषां ‘जनिगे’ सम्प्रदायः विशिष्टः अस्ति । या महिला प्रसवानन्तरं वसतेः अन्तः गन्तुम् इच्छति सा बहिः स्थित्वा ‘होरजनि’ स्वीकृत्य, अनन्तरं पौळिगुडि आगत्य ‘ओळजनिगे’ स्वीकृत्य तत्रैव शिशोः नामकरणकारणस्य सम्प्रदायम् निर्वर्त्य हट्टिस्थानं प्रविशति । एषः सम्प्रदायः एतेषु इदानीमपि अस्ति । विधवामहिला चेदपि माङ्गल्यं, पादाङ्गुलीयकं, कङ्कणं, कुङ्कुमं, पुष्पं च न निष्कासयन्ति

"https://sa.wikipedia.org/w/index.php?title=काडुगोल्लजनाङ्गः&oldid=393517" इत्यस्माद् पुनः प्राप्तिः