कातन्त्रव्याकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

कातन्त्रव्याकरणम्
संस्कृत व्याकरणस्य पुरातन पुस्तकः
संस्कृत व्याकरणस्य पुरातन पुस्तकः

कातन्त्रम् नाम संस्कृतव्याकरणेषु विद्यमाना मुख्या काचित् पद्धतिः । 'कालपकम्' अथवा ’कौमारव्याकरणम्’ इत्यपि अस्य नामान्तरम् । भारते बहुत्र पाणिनीयव्याकरणं यद्यपि प्रसिद्धं, कस्मिंश्चित् काले कातन्त्रव्याकरणं न केवलं समग्रे भारते अपि च भारतात् बहिरपि प्रसृतमासीत्, अन्येषां भाषाणां व्याकरणग्रन्थेषु अपि एतस्य प्रभावः दृश्यते स्म इत्यस्य प्रमाणानि दृश्यन्ते । एषः कस्याश्चन व्यकरणपद्धतेः ग्रन्थः न किन्तु जनानाम् आवश्यकतायाः कारणात् वर्धितः ग्रन्थः इति कथयितुं शक्यम् ।

कातन्त्र-कालपक-कौमार-इत्येतेषां नाम्नां पृष्ठभूमिः[सम्पादयतु]

व्याकरणस्यास्य पृष्ठभूमिमुद्दिश्य कथासरित्सागरे विद्यमानायां कथायां किञ्चन विवरणं विद्यते । दाक्षिणात्यो शातवाहनो महाराजः स्वमहिष्या सह जलक्रीडामग्नः आसीत् । मध्ये सा 'मोदकं देहि राजन् !' 'मोदकैः ताडय राजन्' (इत्युक्ते, ’राजन्-पर्याप्तम्,’ इतः परं मा उदकैः ताडय इति उक्तवती । संकृतभाषायाम् अज्ञः इति कारणात् सः राजा मोदकानि आनाय्य ताडितवान् इति कथा । (मोदकैः - इत्युक्ते कैश्चित् भक्षैः इत्यपि अर्थॊ भवति ) । अनन्तरं संस्कृतभाषायां स्वज्ञानं ज्ञात्वा लज्जितो राजा बहुअल्पकाले एव सम्यगध्येतुमैच्छत् । एतदर्थमॆव तस्य आस्थानपण्डितेन शर्ववर्मणा रचितमिदं कातन्त्रव्याकरणम् । सः शिवपुत्रस्य कार्तिकेयस्य अनुग्रहात् इदं रचितवान् इति एतस्य ’कौमारम्’ इति नाम कार्तिकेयस्य वाहनं मयूरः अथवा कलापिन् (कलाप इत्युक्ते बर्हिः) एतन्निमित्त्तं सहाय्यम् अभवत् इति कारणात् ’कलापकम्’ इत्यपि एतस्य व्याकरणस्य नाम प्रसिद्धम् इति कथ्यते ।

विद्वांसः एवमपि वदन्ति यत् – एतत् बालान् उद्दिश्य रचितम् व्याकरणम्, अतः ’कौमारम्’ इति उच्यते । काशकृत्स्नतन्त्रस्य संक्षेपः अयम् । तस्य तन्त्रस्य शब्दकलापः इति नाम विद्यते. अतः कालापकः इति नाम इति ।

कातन्त्रव्याकरणस्य वृत्तयः व्याख्यानानि[सम्पादयतु]

अधुना एतस्य व्याकरणस्य लभ्यमाना प्राचीनतमा वृत्तिः विद्यते दुर्गसिंहस्य । हेमचन्द्रः दुर्गसिंहस्य नाम्नः उल्लेखं कृतवान् इत्यतः, दुर्गसिंहः कातन्त्रधातुपाठं रचयितुं चान्द्रधातुपाठं उपयुक्तवानिति कारणात् दुर्गसिंहस्य कालः सामान्यतया ८ शताब्द इति वक्तुं शक्यम् ।

एतस्याः वृत्तेः अनेकाः टीकाः रचिताः । तासु वर्धमानेन रचिता ’कातन्त्रविस्तरम्’ नाम टीका प्राचीनतमा । एषः दशमे शताब्दे गुर्जरदेशे राज्ञः आस्थाने आसीत् । त्रिलोचनदासस्य कातन्त्रवृत्तिपञ्जिका, महादेवस्य शब्दसिद्धिः च कातन्त्रवृत्तेः लभ्यमाने द्वे टीके । कातन्त्रस्य सहायकग्रन्थौ नाम दुर्गस्य लिङ्गानुशासनम्, दुर्गसिंहस्य उणादिपाठ-धातुपाठश्च । दुर्गः दुर्गसिंह च भिन्नौ, दुर्गसिंहः व्रुत्तेः कर्ता ।

कातन्त्रस्य कर्तुः शर्ववर्मणः देश-कालादयः[सम्पादयतु]

शर्ववर्मा एव कातन्त्रस्य मूलकर्ता इति निर्देशो अनेकेषु स्थलेषु विद्यते । उपरि उक्ता कथा कथासरित्सागरे निर्दिष्टा वर्तते । पर्शियादेशस्य यात्रिकविद्वान् अल् बिरूनि (एकादशशताब्दः) अपि एतस्य उल्लेखं कृतवान् अस्ति । विद्यमानासु कातन्त्रटीकास्वपि शर्ववर्मा एव मूलकर्ता इति उक्तम् । तेन कियद्भागः रचितः अन्यैः संयोजितम् कियदिति विवादो विद्यते चेदपि अधिकांशतया कातान्त्रं शर्ववर्मणा एव रचितम् इति कथने विवादो न विद्यते । किन्तु शर्ववर्मणा कातन्त्रव्याकरणस्य संक्षेपः कृतः, कातन्त्रस्य मूलम् अति प्राचीनामिति युधिष्ठिरमीमांसकैः 'संस्कृतव्याकरणशास्त्र का इतिहास’(हिन्दी) इति स्वीये ग्रन्थे प्रतिपादितम् ।

कातन्त्रस्य कालनिर्णयः अपि कष्टसाध्यमेव । क्रि. श. प्रथमशताब्दे एव कातन्त्रं बहु जनप्रियम् आसीत् इति श्रीमतः बेळवळकर् महोदयस्य अभिप्रायः । तदीयः अभिप्रायः अयम् – क्रि. श. अष्टमशताब्दः दुर्गसिंहस्य कालः, सः एव कातन्त्रस्य प्रथमः व्याख्याता इति न । तेन उपयुक्तः सूत्रपाठः इतरसूत्रपाठात् भिन्नः इति कारणात् (प्रायः एकादश शताब्दस्य काश्मीरपाठान्तरम्) । तदा 'कातन्त्रम्' न्यूनातिन्यूनम् ६००-७००वर्षाणि पुरातनं स्यात् ।

परं तु मीमांसकस्य युधिष्ठिरस्य अभिप्रायः एवम् अस्ति ।

  1. व्याकरणमिदं राज्ञः शातवाहनस्य कृते रचितम् इति कथासरित्सागरे उल्लेखः अस्ति । आन्ध्रीयाः शातवाहनाः विक्रमशकात् पूर्वाः ।
  2. शूद्रकविरचिते पद्मप्राभृतके भाणे ’कातन्त्रम्’ उल्लिखितम् । सः एव मृच्छकटिकस्य रचयिता इति अभिप्रायोऽपि अस्ति । अतः शुद्रकानन्तरमेव कातन्त्रस्य कालः ।
  3. महाभाष्ये कालापकस्य उल्लेखः विद्यते । हरदत्त-नागेशयोः मतं विरुध्य उल्लेखः अस्ति यत् कालापकं कातन्त्रमुद्दिश्य एव अन्वयः, न वैदिकमुद्दिश्य । माहाभाष्ये विद्यामानाः अनेकाः संज्ञाः कातन्त्रे अपि उपयुक्ताः सन्ति । एतैः, तथा इतरैः कारणैः चापि कातन्त्रस्य मूलम् अतिप्राचीनम्, शर्ववर्मा तस्य कुत्रचित् कांश्चन परिष्कारान् कृत्वा संक्षिप्तवान् इति तेषां वादः ।

कातन्त्रस्य स्वरूपम्[सम्पादयतु]

कातन्त्रस्य सूत्रपाठे चत्वारः भागाः दृश्यन्ते । संस्कृतभाषानुगणं चत्वारि प्रकरणानि बालबोधनाय अत्र सविवरं उक्तानि । तानि – सन्धिप्रकरणम्, नामप्रकरणम्, आख्यातप्रकरणं, कृत्प्रकरणं च । एतेषु अन्तिमं प्रकरणं शर्ववर्मणा एव रचितम् उत न इति विषये विप्रतिपत्तिः विद्यते ।

एतेषां चतुर्णां प्रकरणानां स्थूलः परिचयः ।
१. सन्धिप्रकरणम् – एतत्तु संज्ञा, स्वरसन्धिः, स्वरसन्धि-निषेधः, व्यञ्जनसन्धिः, विसर्गसन्धिः, निपातः च इत्येतैः षड्भिः पादैः उपेतम् (षट्पादी) ।
२. नामप्रकरणम् -- अस्मिन् अन्यान्यविभक्तिषु नामपदानां रचनासम्बन्धीनि सूत्राणि विद्यन्ते । स्वरान्तपादः, ( लिङ्गपादः वा ) व्यन्ञ्जनान्तपादः, सखिपादः, युष्मत्पादः, कारकपादः, समासपादः, तद्धितपादः, स्त्रीप्रत्ययपादः -इत्येते भागाः सन्ति ।
३. आख्यातप्रकरणम् - क्रियापदानां रचनाविषयकः विभागः । अस्मिन् परस्मैपादः, प्रत्ययपादः, द्विवचनपादः, घुट्पादः च विद्यन्ते ।
४. कृत्प्रकरणम् - सिद्धिपादः, धातुपादः, कर्मणिपादः क्वन्सुपादः, उणादिपादः, धातुसम्बन्धपादः चापि विद्यन्ते ।
अन्तिम प्रकणस्य कर्तुः विषये सन्देहस्य नौकानि काराणानि विद्यन्ते । दुर्गसिंहोऽपि मिलित्वा बहवः व्याख्यानकर्तारः अस्य प्रकरणस्य आरम्भे उपयुक्तं 'सिद्धिः' इति पदं मङ्गलार्थसूचकम् इति कथयन्तः, 'एतद् अन्यकर्तृकम् इति कारणात् अत्र मङ्गलाचरणं कृतमस्ति इति वादं कुर्वन्ति। दुर्गसिंहस्तु तत् कात्यायनेन कृतमिति स्वव्याख्याने वदति । इतिहासे नैके कात्यायनाः जाताः । अतः को वा कात्यायनः इदं लिखितवान् स्यात् ? इति निश्चयेन कथनं क्लेशाय । अन्ये केचन कृत्प्रकरणं शाकटायनेन लिखितम् इति वदन्ति । दुर्गसिंहस्य वृत्तिमुद्धिश्य व्याख्यातुः रघुनाथ शिरोमणि महोदयस्य अभिप्राये तस्य भागस्य कर्ता तु वररुचिः । एतेषु तस्य कर्ता यःकोपि भवतु तत् मूलसूत्रपाठादनन्तरं योजितम् इति तु स्पष्टम् ।

एतदेव न, केचन पादाः अपि क्रमेण योजिताः इत्यत्र न सन्देहः । उदाहरणार्थं - सन्धिप्रकरणस्य निपातपादः, नामप्रकरणस्य स्त्रीप्रत्ययपादः, आख्यातप्रकरणस्य उणादिपादः इत्येते दुर्गसिंहस्य व्याख्याने न दृश्यन्ते किन्तु काश्मीरे लब्धे पाठान्तरे विद्यन्ते । अथैव कातन्त्रं दुर्गसिंहात् बहु पूर्वमेव काश्मीरे प्राप्तम् आसीत्, केचन भागाः तत्र योजिताः इति ज्ञातुं शक्यम् । एवमेव नामप्रकरणस्य तद्धितपादोऽपि शर्ववर्मणा न रचितम् इति ऊहा वर्तते । 'एतस्य पादस्य सूत्राणि सहजतया अनुष्टुब्छन्दसा युज्यन्ते । किन्तु अन्येषां पादानां विषये तथा न' इति बेळवळकर् महोदस्य अभिप्रायः। कातन्त्रस्य पृष्ठभूमिरूपेण स्थितां कथाम् आधारीकृत्य ते विवरणं कुर्वन्ति – राज्ञे पाठयितुं रचितं व्याकरणं तु लघुतमं सरलञ्च, राज्ञा केषुचिदेव मासेषु व्याकरणस्यास्य करतलामलकवत् अभ्यासः कृतः । अयमेव विषयः बहूनाम् आकर्षणमकरोत्, जनप्रियतां प्राप्नोत् च । किन्तु तस्मिन् ज्ञातव्यमिति सूचिताः बहवः अंशाः – तद्धिताः तथा इतरे अंशाः शर्ववर्मणा अथवा अन्यैः विद्वद्भिः सर्वेषां साह्यार्थं सूत्रीकृत्य मध्ये योजिताः । अतः तावत्पर्यन्तं व्याकरणस्य लघुपुस्तिकारूपेण स्थि तं कातन्त्रम् एवम् क्रमेण “व्याकरणपद्धतिः” इति ग्रन्थरूपत्वमाप्नोत् ।

कातन्त्रव्याकरणं पाणिनीयव्याकरणात् कथं भिन्नम् ?[सम्पादयतु]

पाणिनीयसूत्राणि कातन्त्रसूत्राणि
अत्र सूत्राणां रचनाक्रमे ’स्ंक्षिप्ततायाः’ एव प्राधान्यम् भाषाध्ययनस्य प्राथमिकस्तरे एतस्य व्याकरणस्य रचना । अतः अत्र सरलतायाः एव प्राधान्यम्
समग्रस्य संकृतवाङ्मयस्य अवगमनाय आवश्यकं व्याकरणम् । कनिष्ठसंख्याकानि सूत्राणि गरिष्ठसंख्याकान् विषयान् बोधयन्ति अधिकविस्तृतम् न । बहुमुख्यतया अपेक्षितानि प्रकरणानि केवलं स्पष्टीकृतानि ।
एकस्यैव प्रकरणस्य अनेकविधाः साध्यताः चिन्तिताः । अतः एकं विधिसूत्रं वर्तते चेत् तस्य अपवादरूपेण अनेकानि सूत्राणि भवन्ति । अतः आहत्य ४००० सूत्राणि । व्याकरणं सरलं भवतु इति वैदिकसाहित्यस्य विशेषसाध्यतानां च विमर्शात्मकं चिन्तनम् अत्र न कृतम् । अतः आहत्य प्रायः १४०० सूत्राणि अस्मिन् विद्यन्ते ।
संक्षेपेण कथनार्थं १४ माहेश्वरं सूत्राणि रचितानि सन्ति । (प्रत्याहारसूत्राणि इतोपि न्यूनानि भवितुम् अशक्यम् । ) महेश्वरसूत्रेषु अक्षराणि क्रमेण न उपयुक्तानि । (अ, आ, इ, ई ….. इत्येवं क्रमेण नास्ति) वर्णव्यवस्था प्रातिशाख्येष्विव सहजा विद्यते । प्रत्याहारसूत्रनिमित्तं वर्णक्रमः न परिवर्तितः ।
प्रत्याहारैः, अधिकारानुवृत्तिभिश्च सूत्राणि अतीव संक्षिप्तानि कृतानि सन्ति । अत्र प्रयुक्ताः काश्चन संज्ञाः नूतनाः येषां विवरणं संज्ञासूत्रेषु विद्यन्ते । काश्चन संज्ञाः स्वयं विवरणात्मकाः न । उदाहरणार्थं खर्, घञ्, सुप् ... सहजतया विध्यमानाः संज्ञाः प्रयुक्ताः (उदा- स्वरः, व्यञ्जनम् इत्यादयः) तानि स्वयं विवरणात्मकानि इत्यतः अन्येषां संज्ञासूत्राणाम् अपेक्षा न भवति ।
संक्षेपम् अभिलक्ष्य सूत्राणि व्यवस्थापितानि । अतः कस्यचन प्रकरणस्य सम्बन्धीनि सूत्राणि एकत्रैव विद्यन्ते इति न । अनन्तरकाले रचिते कौमुदीपाठक्रमे प्रकरणसबन्धीनि सर्वाणि सूत्राणि सौलभ्यार्थम् एकत्रैव दत्तानि ।

कातन्त्रस्य योगदानम्[सम्पादयतु]

कातन्त्रव्याकरणं प्राधान्येन प्रारम्भिकव्याकरणशिक्षणार्थं व्यवस्थितम् । अतः अस्मिन् व्याकरणे प्राधान्येन सामान्यतया च उपयोगीनि प्रकरणानि एव एकत्रीकृतानि । सारल्यम् अस्मिन् विशेषण दृश्यते । तद्नुगुणमेव अत्र संज्ञाः, वर्णानां व्यवस्था च । अत एव इदं व्याकरणम् एकस्मिन् काले बहु प्रचारे आसीत्, जनप्रियतां च प्राप्नोत् । दाक्षिणात्ये जनपदे रचितम् इदं व्याकरणम् आकाश्मीरात् श्रीलङ्कापर्यन्तं व्यापृतम् आसीत् इत्युक्ते तस्य सहजश्रेष्ठता, प्रयोगसारल्यं चैकत्र, अपरञ्च तस्य प्रचारार्थं राजाश्रयश्च कारणम् इति ऊहां कर्तुं शक्यते । पूर्वं तस्मिन् अविद्यमानान् कांश्चन अंशान् संयोज्य अनेकैः वृत्ति-व्याख्यानैश्च सह सज्जीकृतम् इदं कातन्त्रं क्रमशः लघुस्तिकारूपात् व्याकरणपद्धतिरूपं प्राप्नोत् । इदानीमपि बङ्गाल-काश्मीरप्रदेशेषु कुत्रचित् कातन्त्रव्याकणस्य उपयोगः क्रियमाणः अस्ति ।

आकरः[सम्पादयतु]

कातन्त्रव्याकरणम् (दुर्गसिंहस्य व्याख्यया सह )
प्रकाशनम् – एशियाटिक् सोसाइटी आफ् बेङ्गाली , कल्कत्ता १८७४.

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कातन्त्रव्याकरणम्&oldid=409138" इत्यस्माद् पुनः प्राप्तिः