कारणम् (न्यायशास्त्रम्)
दिखावट
अनन्यथासिद्धित्वे सति कार्यनियतपूर्ववृत्ति कारणम्। तत् त्रिविधम्।
समवायिकारणम्
[सम्पादयतु]यत्समवेतं सत् कार्यमुत्पद्यते तत्समवायिकारणम् । यस्मिन्समवायसम्बन्धेन वर्तमानं कार्यमुत्पद्यते तत् समवायिकारणम् इत्यर्थः।
उदाहरणम्
[सम्पादयतु]तन्तवः पटस्य समवायि कारणम्। येषु तन्तुषु समवायेन सम्बद्धं सत् पटात्मकं कार्यमुत्पद्यते तद् तन्तवः समवायिकारणम्। यतस्तन्तुष्वेव पटः समवेतो जायते न तुर्यादिषु । द्रव्ये तु द्रव्यावयवाः समवायिकारणम्।
असमवायिकारणम्
[सम्पादयतु]कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणसमवायिकारणम्।
निमित्तकारणम्
[सम्पादयतु]समवाय्यसमवायिभिन्नं कारणं निमित्तकारणम्।