सामग्री पर जाएँ

कार्ल् लाण्ड्स्टैनर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कार्ल् लाण्ड्स्टैनर्
जननम् (१८६८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१४)१४ १८६८
Baden bei Wien, near Vienna (Austria)
मरणम् २६ १९४३(१९४३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२६) (आयुः ७५)
New York City
वासस्थानम् United States
देशीयता United States
कार्यक्षेत्राणि Medicine, virology
संस्थाः

University of Vienna

Rockefeller Institute for Medical Research, New York
मातृसंस्थाः University of Vienna
विषयेषु प्रसिद्धः Development of blood group system, discovery of Rh factor, discovery of poliovirus
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1930)


(कालः – १४. ०६. १८६८ तः २६. ०६. १९४३)

अयं कार्ल् लाण्ड्स्टैनर् (Karl Landsteiner) रक्तसमूहानां शोधकः । अयं कार्ल् लाण्ड्स्टैनर् १८६८ तमे वर्षे जून्-मासस्य १४ दिनाङ्के आस्ट्रियादेशस्य वियन्नानगरे जन्म प्राप्नोत् । कार्ल् लाण्ड्स्टैनरस्य बाल्ये एव पिता दिवं गतः आसीत् । तस्य माता एव तं पालितवती । सः १८९१ तमे वर्षे वैद्यपदवीं प्राप्नोत् । एमिल्फिशर् सदृशानां प्रतिभावतां समूहे कार्यं कृतवान् आसीत् एषः कार्ल् लाण्ड्स्टैनर् । यूरोप्-देशस्य प्रसिद्धेषु बहुषु प्रयोगालयेषु कार्ल् लाण्ड्स्टैनर् कार्यं कुर्वन् अनुभवं सम्पादितवान् । तदनन्तरं वियन्नानगरस्य आरोग्य-संशोधन–संस्थायां कार्यम् आरब्धवान् । तदा समाजे रक्तेषु भेदाः भवन्ति इति, ते च भेदाः आनुवंशिकरूपेण आगच्छन्ति इति सामान्यं ज्ञानम् आसीत् । किन्तु तद्विषये वैज्ञनिकं विवरणं न जानन्ति स्म । तदा क्रियमाणं रक्तपूरणम् अपि अवैज्ञानिकम् आसीत् । रक्तपूरणस्य अनन्तरम् अपि बहुविधाः समस्याः जायन्ते स्म ।


अयं कार्ल् लाण्ड्स्टैनर् १९०० तमे वर्षे बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् । प्रथमं रक्ते विद्यमानं द्रवयुक्तं भागं, घनवस्तुयुक्तं भागं च पृथक् अकरोत् । अनन्तरम् एकस्मिन् रक्ते अपरं रक्तं योजयित्वा सूक्ष्मदर्शकेण अपश्यत् । तदवसरे कदाचित् रक्तद्वयं यदा योजयति तदा रक्तकणाः रक्तरसे प्रसृताः सन्तः चलन्ति स्म । कदाचित् च रक्तद्वयम् अपि सम्मिल्य पिण्डवत् भवति स्म । एवं द्वयोः रक्तयोः सम्मेलनं सः कार्ल् लाण्ड्स्टैनर् "अग्लुटिनेषन्” इति अवदत् । केषाञ्चन जनानां रक्तस्य रक्तकणानाम् उपरि किञ्चन रोधजनकवस्तु भवति (Antigen) । तथैव केषाञ्चन जनानां रक्तस्य रक्तरसे किञ्चन रोधवस्तु (Antibody) भवति । तयोः रोधजनकवस्तु–रोधवस्त्वोः मध्ये सम्यक् समञ्जनं भवति चेत् रक्तकणाः रक्तरसे प्रसृताः सन्तः चलन्ति । अन्यथा परस्परं पिण्डवत् सम्मेलनं भवति । अस्य प्रयोगस्य आधारेण अयं कार्ल् लाण्ड्स्टैनर् रक्ते त्रिविधं समूहं संशोधितवान् । अग्रे डिकास्टेल्लो तथा स्फूर्टि इत्याख्यौ चतुर्थं समूहम् अपि संशोधितवन्तौ । ते च चत्वारः रक्तसमूहाः 'ए', 'बि’, 'एबि’, तथा च 'ओ' ।

अस्य कार्ल् लाण्ड्स्टैनरस्य संशोधनेन रक्तपूरणं सुलभम् अभवत् । तेन मरणोन्मुखाः अपि जीवितवन्तः । 'एम्’, 'एन्’, तथा 'एम् एन्’ नामकानां रक्तस्य समूहानां संशोधनगणे अपि एषः कार्ल् लाण्ड्स्टैनर् आसीत् । एषः कार्ल् लाण्ड्स्टैनर् १९४३ तमे वर्षे जून्-मासस्य २६ तमे दिनाङ्के प्रयोगालये कार्यकरणावसरे एव हृदयाघातेन मरणं प्राप्नोत् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कार्ल्_लाण्ड्स्टैनर्&oldid=483941" इत्यस्माद् प्रतिप्राप्तम्