कालिदासमहोत्साहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालिदासमहोत्साहः  
उज्जैन्यां कालिदासचित्रम्
लेखकः डॉ. हरिरामचन्द्रदिवेकरः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कालिदासमहोत्साहस्य लेखकः ग्वालियरनगरस्य डॉ० हरिरामचन्द्रदिवेकरः प्रयाग-विश्वविद्यालयात् एम० ए०, डी० लिट् उपाधिर्लब्धवान् मध्यभारते च सर्वोच्चशैक्षणिकपदेषु आसीनो विश्रान्तः । कालिदासमहोत्सवे उज्जयिन्यां नाटकमिदमभिनीतम् । प्रस्तावनायां सूत्रधारोऽस्य नूतनतां प्रतिपादयति -

'यस्मिन्न स्यान्नायको नायिका वा त्यक्ता धारा नाट्यशास्त्रस्य यस्मिन्' इति।

अत्र भारतदशां द्रष्टुं कालिदासो नारदेन सह भुवम् अवतरति । कालिदासजन्मस्थाने तदीयस्मारकस्थापनार्थं निर्णयाय महती सभा समायोजिता । कुत्राहं जनिमलभे इति प्रश्नमधिकृत्य कविः स्वयं ब्रवीति -

'भारतवासी कविरहमिति पर्याप्तं हि मद्विषये।'

अथ नारद-कालिदासौ विश्वविद्यालयं प्राप्य सहशिक्षावातावरणे यूनः प्रणयक्रीडामग्नान् पश्यतः । कश्चिद् युवती चित्रपटं दर्शनाय युवकेन सहावकाशं प्राप्तवती । कक्षायां शिक्षकः स्वगतमाह -

‘कवेर्नाम न जानामि सूत्रं व्याकरणस्य न।’

नैकश्लोकोपि कण्ठस्थः किन्तु प्राध्यापकोऽस्म्यहम्॥

अनन्तरं स्वमहोत्सवे कालिदासः स्वयमेव द्वारपालस्थानीयः प्राह -

यस्मिन्नवन्तिनगरे नृपतेः सभायां

यन्नामसंस्मरणतः चकिताः सदस्याः।

तत्रैव तस्य च महोत्सवसुप्रसङ्गे

जातः स एव विधिना नुऽचराद्धिहीनः ।।

यूना कोलाहलमाकण्य असौ सखेदं कथयति -

मज्जन्मभूमौ मम जन्मनो दिने

मत्स्मारकार्थं च सभा नियोजिता।

प्रेक्षागृहोद्घाटनहेतवे या

द्वे चापि भग्ने कथमेष उत्सवः।।

कालिदासः तेषां कलकलं शमयति, स्वमहोत्सवे स्वयमेव व्याख्यानं ददाति -

या या भाषाः सुविज्ञाता अस्माभिः पठिताश्च याः

तासु तासु च भाषासु ये ये सन्ति च सूरयः।

तेषां सन्तुलनं कृत्वा भिन्नेषु विषयेषु च

प्राप्ता ये सन्ति निष्कर्षाः संस्थाप्या पुरतः सताम्।।

अग्रेऽग्रे गन्तुमिच्छूनां हितार्थं तन्निरोधिनाम् ।

सङ्गतं युववृद्धानामस्तु प्रीतियुतं सदा।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कालिदासमहोत्साहः&oldid=435567" इत्यस्माद् प्रतिप्राप्तम्