किं संस्कृते ला कारःअस्ति
अक्षर विचारः
[सम्पादयतु]आम्, उपरि विध्यमानं शीर्षकं सम्यगेव वर्तते. तमि भाषायां केरलभाषायां च प्रसिद्धः कारः संस्कृते अस्ति वा इत्येव प्रश्नः. देवनागरीलिप्यां असन्दिग्धरूपेण अस्य वर्णस्य प्रतिपादनाय किमपि प्रसिद्धं चिन्न्हं नास्ति (अध्यावधि) इत्यतः ' ' इति तमि चिन्हम् उपयुज्यते असन्दिग्धनिर्देशार्थं इत्येतत् सर्वैः सहृदयैः अनुमोदनीयम् . पूर्वं यथा संस्कृते ह्रस्वः एकारः ओकारश्च वर्तते एव इति श्रीरमणशर्माख्येन विदुषा निरूपितं अस्यां पत्रिकायां, तथा अधुना कारः अस्ति इत्यपि निरूप्यते. ततः प्राक् अवश्यचिन्तनीयं किञ्चिद् विचारयाम.
प्रथमतः संस्कृते ळकारः अस्ति किम्?
[सम्पादयतु]'आ, अयं प्रश्नस्तु समीचीनः . ळकारस्तु संस्कृते अस्त्येव' इति हृडम् उच्यते खलु ? हम्. लोके उत वेदे ? पूर्वं 'हृस्वः एकारः ओकारश्च लोके न वर्तते, वेदे एव वर्तते, अत एव कौमुध्यां 'हृस्वाभावात्' इत्यस्ति' इत्युक्तं खलु ? तथैव कौमुध्याम् ळकार-विषये अपि नास्ति किल. ततश्च ळकारो अपि लोके संस्कृते नास्तीत्येव. यध्यपि बहवो जनाः मङ्गलं इत्यादिषु शब्देषु 'मङ्गळम्' इति ळकारं कुर्वन्ति. तथापि पाणिनीयभाषायां ळकारः न अङ्गीकृतः इत्येव वक्तव्यं. यतः ळकारस्तु धातुपाठ आदौ कापि न उपदिष्टः . न वा सूत्रादिना विहितः . तर्हि कथं तस्य पाणिनीयायां भाषायां प्राप्तिः भवति? ततश्च मङ्गलं इत्यादिप्रयोगः एव पाणिनीयः .
पाणिनीयशिक्षायां
[सम्पादयतु]यध्यपि पाणिनीयशिक्षायां 'दुःस्पृष्टः' इति नाम्ना अस्य उल्लेखः कृतः , तथापि उत्करीत्या प्राप्त्यभावादेव ळकारो लोकभाषायां नास्ति इति स्थितं. शिक्षावचने तु वेदस्थस्यैव परामर्शः .
प्रसिद्धश्च ळकारः ऋग्वेदस्य प्रथमे मन्त्रे एव 'ईळे' इति पदे. ऋग्वेदस्य च सर्वत्र लोके प्रसिद्धत्वं अस्तीति सर्वेऽपि वेदस्थं एतं ळकारं जानन्ति. (कारं तु वेदे विध्यमानमपि न जानन्ति. तदग्रे पश्याम. )
अयं च ळकारः डकारस्य स्थाने भवतीत्यपि प्रायेण सर्वैः ज्ञातम् एव. डळयोः अभेदः इति वचनमपि प्रथते. व्याडि: इति प्रसिद्धः पाणिनेः प्राग्भावी वैयाकरणाचार्यः 'व्याळिः' इत्यपि उच्यते.
ऋग्वेदीयमन्त्रे 'ईले' इति यत्र भवति तत्रकृष्णयजुर्वेदे सामवेदस्य कौथुमराणायनीयशाखयोश्च 'ईडे' इत्येव प्रयोगः। ईड स्तुतौ इति धातोः निष्पन्नं चेदं तिङिन्तं लोके अपि डकारस्यैव प्रयोगः - 'स्वात्मारामं मुदितवदनं दक्षिणामूर्तिं ईडे' इति।
भवतु , डकारस्य स्थाने ळकारश्चेद् ढकारस्य स्थाने महाप्राणळकारो भवति किम्?
आम् ! महाप्राणळकार एव। परन्तु देवनागर्याम् (अन्यासु च लिपिषु) तस्य पृथक् चिह्नं नास्तीत्यतः सर्वे अपि लकारहकारसम्युक्ताक्षरमिव लिखन्ति 'ळह' इति। 'वोढुम्' इति यद् लोके कृष्णयुर्वेदादौ वा भवति तद् ऋग्वेदादौ 'वोलहुम्' इति भवति। अयं च वस्तुतः संयोगः न, प्रत्युत पृथग् वर्ण ळकारस्य महाप्राणरूपः इत्येदपि स्मर्तव्यम्।
तस्माद् 'ळ' 'ळह' इत्येतौ वर्णौ विशिष्टौ विद्येते इति प्रथमतो ज्ञायम्।
(कोचित्तु 'ळ ' 'ळह' इत्यनयोः ड-ढ-अपेक्षया स्वातन्त्र्येण प्रयोगाभ प्रयोगाभावात् पृथग्वर्णत्वं नाङ्गीकुर्वन्ति, तस्यैव उच्चारेण विशेषः अयम् इति वदन्ति। तस्मिन् पक्षे पाणिनीयशिक्षायां दुःस्पृष्टस्य पृथक्कथनं नोपपद्यते।
इदमपि अत्र वत्कव्यम। डकारो ढकरो वा यत्र अन्येन व्यंजनेन संयुक्तौ भवतः , तत्र सर्वासु शखासु तथैव तयोः उच्चारणम् , तन्नाम 'ळ' 'ळह' इति व्यत्ययो नास्ति। द्वेयोः स्वरवर्णयोर्मध्येएव व्यततः। अतः 'ईडायः' 'मृढ्वम्' इत्यदयःएव वैदिकाः प्रयोगाः भवन्ति, न तु तत्र ळळहौ भवतः।
जैमिनीयशाखापरिचयः
[सम्पादयतु]अधुना तावत् अधिकृतं विषयं वदामः। यत्र लोके कृष्णयुर्वेदे समवेदस्य कौथुमराणायनीयशाखयोञ्च डकरो भवति, ऋग्वेदे शुक्लयुर्वेदे च ळकरो भवति, तत्र साम्वेद्स्य जैमिनीयशाखायां कारो भवति।
वेदविचारः
[सम्पादयतु]जैमिनीशाखा इति सामवेदस्य अप्रसिद्धतरा कचनशखा । सहस्त्रवर्त्मा सामवेदः इति सामवेदे सहस्त्रं शाखाः आसन् इति महाभाष्यकारः वदति । तत्र अद्यत्वे अध्ययनपरम्परयां तिस्रः एव शाखाः अवशिष्टाः- ताश्च कौथुम –राणायनीयशाखा- जैमिनीशाखा:। प्रायेण महाराष्ट्रस्मीपवर्तिषु जनपदेषु राणायनीयशीखा विद्यते। अन्यत्र सर्वत्र कौथुमशाखा। जैमिनीशाखा तु तमिखयनाडु – कैरल –प्रदेशेयोः अद्यत्वे कौथुम-भूयिष्ठत्वे अपि अल्पप्रमाणेन अवाशिष्यते ।
ऋग्वेद | |
---|---|
ऋग्वेदे ळकारस्य प्रयोगः |