किरण बेदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
किरण बेदी

डॉ. किरण बेदी ( /ˈkɪrənə bɛd/) (पञ्जाबी: ਕਿਰਨ ਬੇਦੀ, आङ्ग्ल: Kiran Bedi,(हिन्दी: किरण बेदी) आई. पी. एस्. (भारतीय पुलिस् सेवा) इत्यस्याम् उच्चाधिकारिरूपेण प्रथमा महिला आसीत् । सा आई. पी. एस्. इत्यस्यां विभिन्नानि पदानि अलङ्कृत्य जनसेवाम् अकरोत् । ’संयुक्त आयुक्त पुलिस् प्रशिक्षण’, ’पुलिस् स्पेशल् आयुक्त’ (खुफिया) इत्यनयोः संस्थयोः तया कार्यं कृतम् आसीत् । वर्तमाने सा ’संयुक्त राष्ट्र संघ’ इत्यस्य सङ्घटनस्य ’शान्ति स्थापना ऑपरेशन्’-विभागे ’नागरिक पुलिस मार्गदर्शक’ इतीदं पदम् अलङ्कृत्य कार्यरता अस्ति । २००२ तमे वर्षे सा ’भारत की प्रशंसित महिला’ इत्युपाधिना सम्मानिता ।

बाल्यं परिवारश्च[सम्पादयतु]

डॉ. बेदी इत्यस्याः जन्म १९४९ तमस्य वर्षस्य जून-मासस्य नवमे दिनाङ्के (९/६/१९५९) पञ्जाबराज्यस्य अमृतसर-नगरे अभवत् । तस्याः पितुः नाम प्रकाश लाल, मातुः नाम प्रेमलता अस्ति । तस्याः तिस्रः भगिन्यः सन्ति ।

शिक्षणम्[सम्पादयतु]

अमृतसर-नगरस्य सेक्रेड् हार्ट् कॉन्वेन्ट् स्कूल् इत्यस्मिन् विद्यालये किरण १९५५ तः १९६४ पर्यन्तम् अधीतवती । तत्र सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) प्रविष्टवती । १९६४ तः १९६८ पर्यन्तं तया अमृतसर-नगरस्य गवर्न्मेण्ट् कॉलेज् फॉर् विमेन् इत्यस्मिन् महाविद्यालये आङ्ग्लभाषायाः (ऑनर्स्) विषये स्नातकस्य (बी. ए.) अध्ययनं कृतम् । महाविद्यालये सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) इत्यस्य सर्वश्रेष्ठ केडेट् इति पुरस्कृता । १९७० तमे वर्षे सा पञ्जाबविश्वविद्यालयात् राजनीतिविज्ञान-विषये (पोलिटिकल् साइन्स्) स्नातकोत्तरपदवीं प्राप्तवती । १९८८ तमे वर्षे सा दिल्ली विश्वविद्यालयात् न्यायविषये (law) स्नातकपदवीं प्राप्तवती । १९९३ तमे वर्षे किरण बेदी नवदेहली-नगरस्य ’राष्ट्रीय तकनीकी संस्थान’ इत्यस्याः संस्थायाः ’सामाजिक विज्ञान में नशाखोरी तथा घरेलु हिंसा’ इति विषयम् अधिकृत्य पी. एच्. डी. पदवीं प्राप्तवती ।

अभिरुचिः[सम्पादयतु]

बाल्ये टेनिस्-क्रीडायां तस्याः अभिरुचिः आसीत् । सा टेनिस्-क्रीडायाः श्रेष्ठक्रीडालुः आसीत् । अस्यां क्रीडायां तया बहवः पुरस्काराः अपि जिताः । ऑल इण्डिया टेनिस् चॅम्पियन्शिप्, ऑल एशियन् टेनिस् चॅम्पियन्शिप् इत्येतयोः अपि सा विजयित्री आसीत् । किन्तु समयान्तरे तस्याः रुचिः सामाजिकक्षेत्रे परिवर्तिता जाता । तस्याः जीवनं स्वस्याः कर्तव्यपालने एव गतम् । किरण बेदी इत्यस्याः जीवनस्य दृष्टिकोणः भिन्नः एव अस्ति । बाल्यावस्थायाः एव तस्याः मनसि उच्चविचाराः आसन् । तेन कारणेन तया देशाय समाजाय च निष्ठापूर्वकं कार्यं कृतम् अस्ति क्रियमाणम् अस्ति च ।

विवाहः[सम्पादयतु]

१९७२ तमे वर्षे ब्रज बेदी इत्याख्येन सह किरण बेदी इत्यस्याः विवाहः अभवत् । वर्षत्रयानन्तरं तयोः साइना नामिका एका पुत्री जाता । विवाहात् परम् अपि किरण बेदी इत्यस्याम् अध्ययनस्य उत्साहः आसीत् । अतः सा अध्ययनस्य प्रवर्तनम् अकरोत् ।

प्रथमा महिला आई. पी. एस्. अधिकारी[सम्पादयतु]

किरण बेदी आई. पी. एस्. (भारतीय पुलिस् सेवा) इत्यस्यां प्रथमा महिला अधिकारी आसीत् । सा भारतीय पुलिस् सेवायां प्रप्रथमं पुलिस् महानिदेशकत्वेन (ब्युरो ऑफ् पुलिस् रिसर्च् ऍण्ड् डेवलप्मेण्ट्) स्वस्याः दायित्वम् अवहत् । १९७२ तमे वर्षे आई. पी. एस्. प्रशिक्षणं प्राप्य सा तत्पदम् अलङ्कृतवती । तदनन्तरं स्वस्याः कार्याणां प्रभावेन पदोन्नतिं प्राप्य तया बहूनि पदानि अलङ्कृतानि । यथा –

  • दिल्ली यातायात पुलिस् प्रमुख
  • नार्कॉटिक्स् कन्ट्रोल् ब्युरो
  • डेप्युटी इन्स्पेक्टर् जनरल् ऑफ् पुलिस्, मिजोरम
  • इन्स्पेक्टर् जनरल् ऑफ् प्रिज़न्, तिहाड
  • स्पेशल् सेक्रेटरी टु लेफ्टीनेण्ट् गवर्नर्, दिल्ली
  • जॉइण्ट् कमिशनर् ऑफ् पुलिस् ट्रेनिङ्ग्
  • स्पेशल् कमिशनर् ऑफ् पुलिस् इण्टेलिजेन्स्
  • यू. एन्. सिविलियन् पुलिस् अड्वाइजर्
  • महानिदेशक, होम् गार्ड् तथा नागरिक रक्षा
  • महानिदेशक, पुलिस् अनुसन्धान एवं विकास ब्युरो

विशिष्टानि कार्याणि[सम्पादयतु]

तिहाड-कारावासिनां स्वभावे परिवर्तनम्[सम्पादयतु]

दिल्ली-नगरस्थे तिहाड-नामके भारतस्य बृहत्तमे कारागारे यदा किरण महानिरीक्षिका आसीत् तदा तया कारागारस्य कारावासिनां हृदयपरिवर्तनाय एकम् अभियानं चालितम् आसीत् । कारावासिभ्यः योगस्य, ध्यानस्य, संस्काराणां च शिक्षणस्य व्यवस्था तया कृता । यद्यपि इदं कार्यं बहुकठिनम् आसीत् तथापि दृढनिश्चया किरण बेदी तिहाड-कारागारम् आश्रमवत् परिवर्तितवती । अनेन प्रसङ्गेन अपि सम्पूर्णे भारते किरण बेदी इत्यस्याः ख्यातिः वर्धिता ।

क्रेन् बेदी[सम्पादयतु]

किरण बेदी यदा नवदेहली-नगरस्य ट्रॅफिक् कमिशनर् आसीत् तदा एकस्मिन् दिवसे तत्कालीनेन प्रधानमन्त्रिणा इन्दिरा गान्धी इत्याख्यया यातायातनियमस्य भङ्गः कृतः आसीत् । कर्तव्यपराधीना किरण बेदी इन्दिरा गान्धी इत्यस्याः वाहनं क्रेन्-यन्त्रेण नीतवती आसीत् । तत्कालादेव किरण बेदी ’क्रेन् बेदी’ इति प्रसिद्धा अभवत् । अस्य प्रसङ्गस्य प्रभावेन इन्दिरा गान्धी उक्तवती यत् – “अस्माकं भारतदेशे किरण बेदी सदृशानाम् अधिकारिणाम् आवश्यकता वर्तते” इति ।

सम्माननं पुरस्काराः च[सम्पादयतु]

किरण बेदी इत्याख्यायाः दृष्टिकोणः मानवीयः निर्भयश्च आसीत् । तया तेन दृष्टिकोणेन एव पुलिस् कार्यप्रणाल्यै नैकानि महत्वपूर्णानि योगदानानि दत्तानि सन्ति । निःस्वार्थकर्तव्यपरायणतायाः कारणेन सा शौर्य-पुरस्कारं प्राप्तवती । तया प्राप्ताः अन्ये विशिष्टाः पुरस्काराः –

  • रमन मैगसेसे पुरस्कारः (एशिया-खण्डस्य नोबल्-पुरस्कारः)
  • जर्मन् फाउण्डेशन् इत्यस्य जोसफ् ब्यूज् पुरस्कारः
  • एशिया रीजन् अवॉर्ड्
  • अमेरिका-देशस्य मॉरीसन्-टॉम् निटकॉक् पुरस्कारः
  • इटली-देशस्य ’विमन् ऑफ् द इयर् २००२’ पुरस्कारः
  • प्रेसिडेण्ट् गॅलेण्ट्रि अवार्ड् (१९७९)
  • महिला शिरोमणि अवार्ड् (१९९१)
  • फादर् मैचिस्मो ह्युमॅनिटेरियन् अवार्ड् (१९९५)
  • प्राईड् ऑफ् इण्डिया (१९९९)
  • मदर् तेरेसा मेमोरियल् नॅशनल् अवार्ड् (२००५)
  • २००५ तमे वर्षे सा ’डॉक्टर् ऑफ् लॉ’ इत्यनया उपाधिना अपि सम्मानिता अभवत् ।

सर्वे पुरस्काराः किरण बेदी इत्याख्यायाः वीरतायाः प्रतीकाः सन्ति । तया यत्किमपि कृतं तत् समाजसेवायै एव कृतम् अस्ति, न तु पुरस्कारेभ्यः ।

किरण इत्यस्याः जीवनाधारितं चलच्चित्रम्[सम्पादयतु]

किरण बेदी भारतस्य प्रथमा महिला आई. पी. एस्. अधिकारी अस्ति । इदं तस्याः जीवनस्य गौरवं वर्तते । ऑस्ट्रेलिया-देशस्य निर्मात्रा मेगन् डनमैन् इत्याख्यया किरण बेदी इत्यस्याः जीवनाधारितं ’यस् मैडम्, सर्’ नामकम् एकं चलच्चित्रं निर्मितम् अस्ति । इदं चलच्चित्रं सैण्टा बारबरा अन्ताराष्ट्रिये चलच्चित्रसमारोहे द्वाभ्यां पुरस्काराभ्यां सम्मानितम् अभवत् । तया निर्मितं चलच्चित्रं सर्वश्रेष्ठजीवनाधारितेन चलच्चित्ररूपेण सम्मानितम् अभवत् । तस्य चलच्चित्रस्य निर्माणे षड्वर्षाणि व्यतीतानि । तस्य चलच्चित्रस्य निर्माणकाले बह्व्यः आर्थिकसमस्याः अपि आगताः । किन्तु अन्ते नैजनिवेशकानां साहाय्येन इदं चलच्चित्रं सम्पूर्णम् अभवत् । मेगन् डनमैन् कथयति यत् – “इयं केवलं भारतीया कथा नास्ति किन्तु अनेन चलच्चित्रेण वर्तमानकालस्य जनव्याधीनां निवारणाय जनेषु आशाः जागरिताः भवन्ति” । अस्मिन् वृत्तिचित्रे किरण बेदी इत्यस्याः जीवनचरित्रस्य, कार्यपद्धत्याः, तिहाड-कारागारस्य कारावासिनां जीवने परिवर्तनस्य घटनायाः च वर्णनं कृतम् अस्ति । ततः परं किरण बेदी इत्यस्याः व्यक्तित्वाधारितानि, जीवनाधारितानि अनेकानि चलच्चित्राणि निर्मितानि सन्ति ।

समाजसेवा[सम्पादयतु]

किरण इत्याख्यायाः समाजसेवायाम् अपि अभिरुचिः वर्तते । स्वस्याः वृत्त्याः कार्यकाले किरण बेदी इत्यनया समाजसेवायै द्वयोः स्वयंसेविसङ्घटनयोः स्थापना कृता आसीत् । १९८७ तमे वर्षे तया नवज्योति, १९९४ तमे वर्षे इण्डिया विजन् फाउण्डेशन् इत्येतयोः संस्थयोः प्रारम्भः कृतः । तयोः संस्थयोः साहाय्येन जनानां व्यसनमुक्त्यर्थं, निर्बलजनानां साहाय्यार्थं च बहूनि कार्याणि कृतानि सन्ति । निर्धनानाम्, अशक्तानां, बालकानां, स्त्रीणां च उज्ज्वलभविष्यस्य निर्माणार्थं, प्राथमिकशिक्षणप्रदानाय, प्रौढशिक्षणप्रदानाय एते संस्थे कार्यं कुरुतः । ’नवज्योति-संस्था’ व्यसनमुक्तिकार्येण सह ग्रामीणक्षेत्रेषु जनेभ्यः, कारावासिस्त्रीभ्यः च व्यावसायिकं प्रशिक्षणं परामर्शं च ददाति । व्यसनमुक्त्यर्त्थं ’युनाइटेड् नेशन्स्’ इत्यनया संस्थया ’सर्ज् सॉइटीरॉफ् मेमोरियल् अवार्ड्’ इत्यनेन पुरस्कारेण इमे संस्थे सम्मानिते ।

स्वैच्छिकसेवानिवृत्तिः[सम्पादयतु]

किरण बेदी वृत्तिजीवने बहूनि वर्षाणि देशसेवायै कार्याणि कृतवती । अन्ये जनाः पदोन्नत्यै कार्याणि कुर्वन्ति । किन्तु किरण बेदी स्वाभिमानेन स्वस्याः कार्याणि करोति । किरण बेदी इत्यस्याः कार्यं दृष्ट्वा एकदा दिल्ली-राज्यस्य उपराज्यपालेन किरण बेदी इत्यस्याः समक्षं दिल्ली-नगरस्य पुलिस् कमिशनर् पदस्य प्रस्तावः उपस्थापितः । किन्तु गृहमन्त्रालयः तत् न ऐच्छत् । गृहमन्त्रालयः किरण बेदी इत्यस्याः स्थाने वाई. एस्. डडवाल इत्याख्याय तत्पदं दातुम् ऐच्छत् । १९७४ तमे वर्षे वाई. एस्. डडवाल इत्याख्याय पुलिस् कमिशनर् पदं दत्तम् । तेन कारणेन खिन्ना किरण बेदी स्वाभिमानेन २००७ तमस्य वर्षस्य दिसम्बर-मासस्य २६ तमे दिनाङ्के (२६/१२/२००७) स्वेच्छया सेवायाः निवृत्ता अभवत् । तस्मिन् काले सा ’भारतीय पुलिस् अनुसंधान एवं विकास ब्युरो’ इत्यस्य महानिदेशकपदे कार्यरता आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=किरण_बेदी&oldid=316747" इत्यस्माद् पुनः प्राप्तिः