कुट्रालम् (spa of south)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुट्रालम्
जलपातः
जलपातः


एतत् रम्यं जलपातस्थलमस्ति । अत्र १६७ पादोन्नतप्रदेशात् जलं पतति । अस्य १५०० वर्षाणाम् इतिहासः अस्ति । अत्र स्नानकरणेन रोगाः निवारिताः भवन्ति इति ईस्ट इण्डिया कम्पनीद्वारा १८११तमे वर्षे वैद्याः जलं परिशील्य सम्यक् संशोधनं कृत्वा उक्तवन्तः सन्ति । अस्मिन् जले २००० विधाः औषधीयगुणाः सन्ति इति डा वैट, डा क्याडवेल्लमहोदयौ प्रकटितवन्तौ स्तः । एतत् जलं सन्धिवातचर्मरोगाणां सिद्धौषधम् इति च प्रसिद्धिः अस्ति । बहवः अत्र तैलाभ्यञ्जनस्नानाय आगच्छन्ति स्नानाय उत्तमा अनुकूलता अस्ति । अत्रैव ‘फैव फाल्स्’ इति सुन्दरः जलपातः अस्ति । एतादृशं जलं बेल्जियम्प्रदेशे, न्यूयार्क् प्रदेशे स्थिते सरटोगप्रदेशे च द्रष्टुं शक्यते । अस्य जलस्य वाटर् आफ् लैफ् (जीवजलम्) इति नाम आगतम् अस्ति । एतत् जलं प्रपञ्चे एव अत्युत्तमम् इति कथयन्ति । जूनमासतः सप्टम्बर् पर्यन्तम् अत्रागमनार्थम् उत्तमः कालः अस्ति ।

मार्गः[सम्पादयतु]

ट्यूटीकारन् विमाननिस्थानतः ८६ .कि.मी भूमार्गः –तेङ्कासी समीपे विद्यमानं रेलस्थानकम् । मधुरैतः १६० कि.मी, कन्याकुमारीतः १३५ कि.मी तिन्नुवेल्लीतः ५० कि.मी ।

"https://sa.wikipedia.org/w/index.php?title=कुट्रालम्_(spa_of_south)&oldid=392984" इत्यस्माद् प्रतिप्राप्तम्