कुन्दमाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
दिङ्नागः
प्रसिध्दो बोध्ददार्शदिको दिङ्नाग कुन्दमालायाः रचयिता
प्रसिध्दो बोध्ददार्शदिको दिङ्नाग कुन्दमालायाः रचयिता

रुपकेषु कुन्दमाला नामकमेकं रुपकम् । इयं हि कुन्दमाला रामायणस्योत्तरकाण्डगतां सीतापरित्यागकथामाधारीकृत्य लिखिता । वाल्मीकेराश्रमपरिसरे गोमत्यां नाम नद्यां वहर्न्तीं कुन्दपुष्पमालां निरीक्ष्य रामस्तदभिज्ञानेन सीतां विज्ञातवानिति कथाभागमूलकमस्य कुन्दमालेति नामकरणम् ।

कुन्दमालाकर्त्ता दिङ्नागो धीरनागो वा[सम्पादयतु]

कुन्दमाला – प्राणेता दिङ्नाग – नाम्ना धीरनाग- नाम्ना व स्मर्यते । महीशूर (गन्र्द्मदृध्दड्ढ् ) नगरे कुन्दमालाया यत् पुस्तकमासादितं तत्र दिङ्नागः इति नाम प्रस्तावनायां लिख्यते । तञ्जोर –प्राप्तपुस्तकावसाने च ‘धीरनाग’ इति नाम दृश्यते । प्रथमः प्रस्तावनागतो नामनिर्देशः, अपरश्च ग्रन्थान्तागतो नामनिर्देशः । तत्र प्रथमो लेखो ग्रन्थकर्त्तुः सम्भवति, द्वितीयश्च कस्यचिल्लेखकस्यापि । प्रथमे दिङ्नाग इति नाम, द्वितीये धीरनाग इति । अनयोः प्रस्तावनागतलेखस्य ग्रन्थकृल्लेखत्वेनाधिकप्रामाणिकतया संस्कृतसाहित्ये दिङ्नागनाम्नः प्रसिध्दतया च कुन्दमाला प्रणेता दिङ्नाग एवेति वक्तुं शक्यते ।

कुन्दमाला प्रणेतुः कालः[सम्पादयतु]

१. राजशेखरः भवभूतिनामोल्लेखं कुर्वन्नपि कुन्दमालाया नाम न निर्दिष्टवान् ।
२. कुन्दमालायाः प्राचीनतम उल्लेखो भोजदेवेन कृतः । तत्कालः -१०१८-१०६० ख्रीष्टीयः ।
३. द्वादशे त्रयोदशे वा ख्रीष्टशतके जाते महानाटके कुन्दमालाया उल्लेखो विद्यते ।
४. द्वादशशतकोद्भवेन शारदातनयेन कुन्दमालोदाहृता स्वीये भावप्रकाशने ।
५. चतुर्दशशतकोत्पन्नो विश्वनाथः साहित्यदर्पणे कुन्दमालां समुदाहृतवान् ।
कुन्दमालायाः समीक्षया ज्ञायते यद्दिङ्नागो भवभूतेरुत्तररामचरितमवलोक्यैव कुन्दमालां प्रणीतवान् । एतत्सकलं विचारयद्भिः कुन्दमाला – प्रणेतुर्दिङ् नागस्य दशमं शाताब्दं समय इति वक्तुं शक्यते ।

उत्तररामचरितं कुन्दमाला च[सम्पादयतु]

कुन्दमालासमीक्षा – भवभूतेरुत्तररामचरितं कुन्दमालाया भित्तिभावेन समर्थयते । कतिपयस्थलविचारेणोत्तर- रामचरितकथा कुन्दमालायां समेधैतरुपा प्रतीयते । उत्तरे रामचरिते केवलेनाङ्गस्पर्शेन रामः सीतां परिचिनोति । इह कुन्दमालायाम् अङ्गस्पर्शस्तद्दिगायातो वायुः, कुन्दमाला, जले प्रतिबिम्बिता सीताया आकृतिः सीतोपभुक्तं दुकूलञ्चेति पञ्चकं मिलित्वा रामेण सोतां स्मारयति । उत्तररामचरिते सकृदेव सीतारामयोर्मेलनं वर्णितम्, कुन्दमालायां द्विः ।

काव्यकलायां भवभूतिरुत्कृष्ट इति कथयञ्जनो नाटयकलायां दिङ्नागस्योत्क्रुष्टतामपि समर्थयेत । पात्राणां चरितान्यपि भवभूतिचितपात्र – चरितापेक्षया विशदतराणि रम्याणि च कुन्दमालायाम् । दीर्घभाषण्दुरुहवर्णन- दीर्घसमासाप्रयुक्तपदत्वादयो ये दोषा भवभूतिकृतौ लब्धावकाशास्ते दिङ्नागकृतौ न लभ्यन्ते । उत्तररामचरिते वीराद्युपस्कृतः करिणो रसः कुन्दमालायां तु केवल एव करुणः । भवभूतिर्यदि नाटयकाव्यान्यरचयत्तदाऽभिनयार्हं नाटकमरचियदिति कथनं वस्तु स्थितिपरिचयाय पर्याप्तम् ।

"https://sa.wikipedia.org/w/index.php?title=कुन्दमाला&oldid=392162" इत्यस्माद् पुनः प्राप्तिः