कोण्डमामजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कुरुमामजनाङ्गः इत्यस्मात् पुनर्निर्दिष्टम्)


कोण्डमामजनाङ्गस्य स्थाननिर्देशः

‘कोण्डमाम’ एतेषां पर्यायनाम । कोण्ड इत्युक्ते तेलुगुभाषया ‘वनम्’ इत्यर्थः अस्ति । अतः एतेषां मूलं तेलुगुनाडु स्यात् इति ऊहा कर्तुं शक्या । श्रीशैलतः वयम् आगताः इति एते वदन्ति । एतेषां मातृभाषा ‘तेलुगुभाषा’ । अन्यैः सह व्यवहाराय तेलुगुमिश्रितकन्नडभाषां वदन्ति । अटनम् एतेषां प्रवृत्तिः इति कारणेन यत्र गच्छन्ति तत्रत्यभाषां पठित्वा व्यवहरन्ति । बळ्ळारी, चळ्ळकेरे, नायकनहट्टि समीपस्य देवरहळ्ळि, चन्नगिरेः समीपस्य नल्लूरु, होसदुर्ग, शिवमोग्गस्य सोरब, सागर, शिकारिपुर, शिराळकोप्प, धारवाड, गदग, हासन, मैसूरु, कोळ्ळेगाल इत्यादिषु ग्रामेषु एते दृश्यन्ते । चळ्ळकेरे उपमण्डलस्य कडदरहळ्ळि अथवा रङ्गव्वनहळ्ळी इत्यत्र एतेषाम् एव कश्चन अग्रहारः अस्ति ।

वेषभूषणानि[सम्पादयतु]

एतेषु अनेकानि ‘बेडगु’(वैशिष्ट्यानि) सन्ति । प्रमुखः उद्योगः भविष्यं वदन्ति । किन्नरिजोगिजनाङ्गः इव एतेषामपि विशिष्टानि वेषभूषणानि । वर्णमयचित्रवेष्टिः, एकनादस्य तम्बूरवाद्यं, तालवाद्यं, कण्ठे रुद्राक्षमाला, कृष्णवर्णस्य सूत्रं, ललाटे रक्तवर्णस्य पट्टिकां बद्ध्वा तत् परितः मयूरपिच्छं योजयित्वा, स्तूलश्मश्रुः, कर्णे कर्णाभरणं, स्कन्दे पतिते स्यूते , वराटिकाः, ललाटमध्ये बृहत् कुङ्कुमस्य तिलकम् इत्यदिभिः एव ‘कुरुमाम’ इति ज्ञातुं शक्यते । एतेषां नाम्नि रामायणस्य महाभारतस्य च नाम्नां प्रभावः दृश्यते ।

"https://sa.wikipedia.org/w/index.php?title=कोण्डमामजनाङ्गः&oldid=473392" इत्यस्माद् प्रतिप्राप्तम्