किन्नरिजोगिजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


किन्नरिजोगिजनाङ्गस्य वेषभूषणानि[सम्पादयतु]

कर्णाटकस्य वृत्तिगायकपरम्परायाम् अतिप्रमुखाः एते । गायन्तः एव जीवनं कुर्वन्तः सन्ति एते विशिष्टजनाः । शिरसि उष्णीषम्, उष्णीषस्थं त्रिशूलं, काचकशलाकाभिः निर्मितं गुळोपुनामकं वस्तु, शिरसि वर्णमयं पिच्छगुच्छं, कृष्णवर्णस्य करांशुकं, वेष्टिः, कण्ठपूर्णाः दीर्घाः मौक्तिकमालाः, कृष्णवर्णस्य प्रावारकः, तस्य उपरि वर्णरञ्जितसूत्रैः विन्यासीकृतः राङ्कवः ,कर्णे कर्णकुण्डलं, हस्ते किन्नरिनामकं तन्त्रिवाद्यं(कण्डोलवीणा), पादे नूपुरं, स्कन्धे प्रसेवः च एतेषां वेषभूषणानि ।

स्थानानि[सम्पादयतु]

पूर्वं निर्वासिताः इव अटन्ति स्म । इदानीं सागर, शिरसि, हानगल्, सोरब, तीर्थहळ्ळी, धारवाडमण्डलम्, बळ्ळारीमण्डलम् एवं अनेकेषु ग्रामेषु एते दृश्यन्ते । एतेषां जनसङ्ख्या इतोऽपि स्पष्टतया न ज्ञायते । पञ्च- षड्सहस्रं स्यात् इति कल्पितमस्ति । एते मराठी- कन्नड- हिन्दी- तेलुगुमिश्रितां भाषां वदन्ति ।

किन्नरिजोगि
वनवासिनः
वनवासिनः
"https://sa.wikipedia.org/w/index.php?title=किन्नरिजोगिजनाङ्गः&oldid=392573" इत्यस्माद् प्रतिप्राप्तम्