कुल्लू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुलु
नगरम्
देशः  भारतम्
राज्यम् हिमाचलप्रदेशः
मण्डलम् कुलु
Government
 • Type Democratic
 • Zonal Headquarters Kullu
Elevation
१,२२० m
Population
 (2011)
 • Total १८,३०६ (१०th)
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
PIN
175101
Telephone code 01902
Vehicle registration HP 34
Website www.hpkullu.gov.in

पूर्वम् अस्य स्थानस्य कुलन्तपित इति नाम आसीत् । अस्य अर्थः The end of the habitable world इति । हिमालयस्य उन्नतस्थले १२१९ मीटर् उन्नतस्थाने स्थितं पर्वतस्थानम् एतत् । बियास्(व्यासनदी)नदीतीरे स्थितम् एतत् स्थानं मण्डलकेन्द्रमस्ति । अत्र फलवाटिकाः पैनवृक्षाः च अतीव सुन्दराः सन्ति । पर्वतारोहणं पादचारणं मीनानां ग्रहणं च अत्र मनोरञ्जनार्थं क्रीडारुपेण च जनानां कार्याणि सन्ति । एतस्य Silver Village इति अपि नाम वर्तते । कुलुप्रदेशे दसरामहोत्सवं वैभवेण आचरन्ति । तदा जनाः काहलानि, तालवाद्यानि, शृङ्गवाद्यानि च गृहीत्वा स्थानीयदेवतायाः यात्रां कुर्वन्ति । प्रमुखाय देवाय रघुनाथाय वन्दनानि अर्पयन्ति । इतः बिजलीमहादेवमन्दिरस्य दर्शनमपि कर्तुं शक्यते । नग्गर (२४ कि.मी) मणिकर्ण (४५ कि.मी) इतरदर्शनीयस्थानानि सन्ति । मणिकर्णप्रदेशे उष्णजलनिर्झराणि सन्ति । नग्गर् पत्तनं पूर्वं राजधानी आसीत् । अस्मिन् दुर्गे राज्ञः निवासः प्रशासनम् इत्यादिकम् आसीत् । दुर्गसमीपे चतुर्भुजविष्णुदेवालयः, त्रिपुरसुन्दरीदेवालयः मुरलीधरकृष्णमन्दिरं च आकर्षकाणि सन्ति । शिवदेवालयः ११ शतके निर्मितः अस्ति ।

मार्गः[सम्पादयतु]

शिम्लातः २३५ कि.मी ।

"https://sa.wikipedia.org/w/index.php?title=कुल्लू&oldid=403758" इत्यस्माद् प्रतिप्राप्तम्