कूर्मावतारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भगवतः प्रमुखदशावतारेषु मत्स्यावतारः प्रथमः मन्यते । द्वितीयस्तु कूर्मावतारः इति । कूर्मस्यापरं नाम कच्छपः इति । कूर्मावतारे भगवान् विष्णुः क्षीरसमुद्रस्य मन्थनकाले मन्दारपर्वतं स्वकवचे अधरत् । एवं भगवता विष्णुना मन्दारपर्वतसाहाय्येन तथा वासुकिसर्पसाहाय्येन देवासुरमन्थनद्वारा चतुर्दशरत्नानि प्रापितानि । समयेऽस्मिन् विष्णुना मोहिनीरूपं धृतम् ।

कथा[सम्पादयतु]

देवराजस्य इन्द्रस्य शौर्यमवलोक्य ऋषिदुर्वासा तस्मै पारिजातपुष्पमालां समार्पयत्, किन्तु देवराजेन्द्रः मालामगृहीत्वा ऐरावतायायच्छत् । ऐरावतोऽपि तां भूमौ अक्षिपत् । एतद्दृष्ट्वा क्रोधान्वितेन दुर्वासार्षिणा देवताः शापिताः । तस्मात् देवताः स्वशक्तिवञ्चिताः अभवन् । अस्मान्निराशाः भूत्वा सर्वे ब्रह्मणः सकाशं अगच्छन् । ब्रह्मा ताः विष्णुं सम्पर्कयितुमकथयत् । विष्णुना ताः आदिष्टाः यत् ताः क्षीरसमुद्रमन्थनं कुर्युः, यस्मात् अमृतं निगरिष्यति तथा अमृतपानानन्तरं स्वशक्तिं पुनः प्राप्स्यन्ति । कठिनं कार्यमिदं वासुकिमन्दारपर्वतसाहाय्येनैव भवितुं शक्यते । यत्र मन्दारपर्वतं दण्डवत् तथा वासुकिं रज्जुवत् प्रयोक्तुं शक्यते । परन्तु एतस्मै कार्याय असुराणामपि साहाय्यमावश्यकम् आसीत् यस्मात् देवताः आतङ्किताः सञ्जाताः विष्णुना असुराः बोधिताः, असुरैरपि अमृतलोभेन कार्यायास्मै अङ्गीकृतम् ।

सर्वेऽपि मिलित्वा समुद्रमन्थनं प्रारब्धम् । एकस्मिन् पार्श्वे असुराः अन्यस्मिन् पार्श्वे देवताः वासुकिमधरन् । अस्य मन्थनकारणात् वासुकिमुखात् गरलं निष्कासयितुं प्रारब्धं यत् समग्रविश्वाय सङ्कटस्वरूपमभवत् । तदैव भगवान् शङ्करः सङ्कटमोचकत्वेन समागत्य गरलसेवनमकरोत् । तथा स्वकण्ठे तदस्थापयत्, यस्मात् सम्पूर्णकण्ठः नीलवर्णीयः सञ्जातः । अत एव तस्य नाम नीलकण्ठः अभवत् । मन्थनकार्यं चलदेवासीत् किन्तु शनैः शनैः मन्दारपर्वतः समुद्रान्तः गन्तुं प्रारब्धः । तदैव भगवान् विष्णुः कूर्मावतारत्वेन अवतीर्य स्वपृष्ठे पर्वतं स्व्यकरोत् । तस्य कूर्मस्य पृष्ठभागस्य व्यासः 100,000 योजनपरिमितमासीत्। पुनरपि मन्थनं प्रारब्धम् । अस्मात् मन्थनात् कामधेनुः, लक्ष्मीः चेत्यादीनामाविर्भावः सञ्जातः । अन्तिमे धन्वन्तरिः स्वहस्ते अमृतकलशं स्वीकृत्य प्रकटितः । एवमेव कूर्मावतारं धृत्वा भगवान् विष्णुः सृष्टितत्त्वं समरक्षयत् ।

कूर्मभगवतः पूजार्थम् आन्ध्रप्रदेशस्य चित्तुरजिल्लायां कुरुमाय इत्यत्र कूर्ममन्दिरं विद्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कूर्मावतारः&oldid=410420" इत्यस्माद् पुनः प्राप्तिः