कृष्णदेवरायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Krishnadevaraya
Emperor of Vijayanagara Empire
A bronze statue of Emperor Krishnadevaraya
शासनकालः 26 July 1509–1529
जन्म 16 February 1471
जन्मस्थलम् Hampi, Karnataka
मरणम् 1529
निखातस्थानम् Hampi, Karnataka
पूर्वराजः Viranarasimha Raya
उत्तराधिकारी Achyuta Deva Raya
राज्ञी Chinna Devi
Tirumala Devi
Annapurna Devi
राजवंशः Tuluva Dynasty
पिता Tuluva Narasa Nayaka The chieftain of Bunts
धार्मिकविश्वासः Hindu

कृष्णदेवरायः विजयनगर साम्राज्यस्य तुळुवा वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः । नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म । अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।

सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।

विजयनगरसाम्राज्यस्य विस्तारः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कृष्णदेवरायः&oldid=480159" इत्यस्माद् प्रतिप्राप्तम्