कृष्णनाट्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कृष्णनाट्टम् इत्यस्मात् पुनर्निर्दिष्टम्)
कृष्णनाट्यम्

कृष्णनाट्यम् (मलयाळम्: കൃഷ്ണനാട്ടം, कृष्णनाट्टम्) भारतस्य केरळराज्यस्य मन्दिरकला अस्ति। इदं एकं नृत्यनाटकं अस्ति। इदं नृत्यनाटकं कृष्णस्य कथां अष्टनाटकमालायां प्रस्तुतं करोति। उत्तरकेरळस्य कोऴिक्कोडस्य तत्कालीनस्य सामूतिरिराजा मानवेदेन (सा. यु. १५८५–१६५८) अस्य निर्माणं कृतम्।

अस्मिन् नृत्यनाटके अष्टौ नाटकानि सन्ति- अवतारम्, काळियमर्दनम्, रासक्रिडा, कंसवधम्, स्वयंवरम्, बाणयुद्धम्, विविदवधम्, स्वर्गारोहणं च। अस्मिन् काले अपि, केरळे श्रीशिवपुरे (तृशूर्) गुरुवायुपुरे (गुरुवायूर्) श्रीकृष्णमन्दिरे कृष्णनाट्यम् अस्य वैभवेन सह विद्यते।

"https://sa.wikipedia.org/w/index.php?title=कृष्णनाट्यम्&oldid=477891" इत्यस्माद् प्रतिप्राप्तम्