सामग्री पर जाएँ

केळदि चेन्नम्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

केळदि चेन्नम्मा ( /ˈkɛlədɪxɛnnəmmɑː/) (हिन्दी: केळदि चेन्नम्मा, आङ्ग्ल: Keladi Chennamma) कस्यचन प्राचीनराज्यस्य राज्ञी । अनाथा चेदपि सर्वनाथा, सा स्वां परितः स्थितैः सह युद्धं कृत्वा स्वीयं राज्यम् अनेकाभ्यः आपद्भ्यः रक्षितवती । ततः अचिरे एव काले प्राप्ताया अन्यस्याः महत्याः आपदः सम्मुखीकरणाय अवसरः आपतितः ।

औरङ्गजेबः मोघल्-चक्रवर्ती । तस्य 'अलङ्घीर्’ इति बिरुदम् । 'अलङ्घीर्’ इत्युक्ते (अलङ्घ्यवीरः) "प्रपञ्चविजेता" इत्यर्थः । औरङ्गजेबः उत्तरभारतस्थानि अनेकानि राज्यानि जितवान् । तत्पश्चात् तस्य दृष्टिः दक्षिणभारते प्रसृता । राज्यव्याप्तिविषये तस्य पिपासा न उपशान्ता । औरङ्गजेबस्य कोपस्य कारणम् आसीत् यत् अनया राज्ञ्या शिवाजीमहाराजस्य कुमाराय आश्रयदानमेव । तस्य बलवता महता च सैन्येन अस्याः राज्ञ्याः लघुराज्यम् आक्रान्तुं युद्धप्रयत्नः कृतः । तथापि सा न भीता, बाधामपि न अनुभूतवती, क्षमामपि न प्रार्थितवती । महता धैर्येण साहसेन च वीरनारीव औरङ्गजेबं सम्मुखीकृतवती । शत्रवः तस्याः धीरतां सोढुमशक्ताः स्वयमेव युद्धाद् विरताः । सन्धेः कृते यदा ते याचितवन्तः तदा सा महदौदार्यं प्रदर्शितवती । सैषा वीरनारी एव केळदि राज्यस्य राज्ञी "राज्ञी चेन्नम्मा"। चेन्नम्मा पञ्चविंशतवर्षाणि यावत् राज्यपालनं कृतवती । मौक्तिकस्येव शरीरस्य छायया, कान्तिमद्भ्यां नेत्राभ्यां, विशालेन ललाटेन, दीर्घया नासिकया, कुटिलैः कुन्तलैः च युक्ते तस्याः वदने राजकला प्रस्फुटा आसीत् । सौन्दर्यराशिः सा सुगुणमूर्तिः, युद्धे शत्रुविनाशने दुर्गादेवीव शक्तिमती च आसीत् । सौन्दर्यं, धैर्यं, साहसं, धर्मनिष्ठा, उदारता इत्यादयः सुगुणाः सर्वे राज्ञ्याः तस्याः आसन् ।

असाधारणः राजा सोमशेखरः

[सम्पादयतु]

'केळदि’ नाम राज्यं कर्णाटके 'मल्नाडु’ नामकप्रदेशे आसीत् । केळदिराज्यस्य प्रथमः राजा चौडप्पनायकः आसीत् । १५०० क्रैस्ताब्दे सिंहासनमारुढवान् सः महावीरः । १६४५ तमे क्रैस्ताब्दे कर्णाटकेषु शिवप्पनायकनामा राजा अभवत् । तस्य पालने केळ्दिराज्ये अनेके परिणामाः अभवन् । राज्यविधानेषु वैशिष्ट्यकारणतः राजा राजनीतिज्ञ इति परिपालनदक्षः इति च प्रसिद्धिं प्राप्तवान् । १६६४ तमे क्रैस्ताब्दे तस्य कनीयान् कुमारः सोमशेखरनायकः राजा अभवत् । तस्य पालनसमये केळदिराज्यं गोमन्तकपुरतः(गोवा) मलबारुपर्यन्तं समुद्रतीरप्रान्ते विस्तृतमभवत् । सोमशेखरनायकः अतीव समर्थः । सौन्दर्यं, धनं, पराक्रमः इत्यादयः नैके सुगुणाः तस्मिन् आसन् । सः भगवति भक्तिमान् अपि । बहुकालं यावत् सः पाणिग्रहणं न कृतवान्, उत्तमः युवकः राजा, रूपवान्, नीतिमान्, ख्यातिमान् अपि । बहवो राजानः तस्य कृते स्वकन्यां दातुं तं जामातरं कर्तुञ्च प्रयत्नमाचरितवन्तः । सोमशेखरः बह्वीः राजवधूः दृष्टवान् । किन्तु विवाहविषये कदाऽपि न चिन्तितवान् । राज्ञः असामान्यदैवभक्तिं दृष्ट्वा एषः संन्यासी भवेत् इति चिन्तयन्तः प्रजाः खिन्नाः आसन् ।

विवाहः

[सम्पादयतु]

राजा एकदा देवतोत्सवं निमित्तीकृत्य रामेश्वरक्षेत्रं गतवान् । तत्र एकां सुन्दरीं तरुणीं दृष्टवान् । सा एव चेन्नम्मा कोटेपुरवासिनः सिद्धप्पशेट्टिनाम्नः वणिजः पुत्री । कतिपयैः स्वीयैः मित्रैः सह देवालयमार्गे यान्तीं तां दृष्ट्वा सोमशेखरनायकः "अहम् एतामेव परिणेष्यामि" इति चिन्तितवान् । सेवकद्वारा सा का इति ज्ञातवान् । अनन्तरदिने मन्त्रिणम् आहूय उक्तवान् "भवान् मम पाणिग्रहणं कारयितुम् इच्छति खलु ? ह्यः अहं रामेश्वरे उत्सवे कोटेपुरवासिनः सिद्धप्पशेट्टेः पुत्रीं दृष्टवान् । तस्याः एव पाणिं ग्रहीष्यामि नान्यस्याः । सिद्धप्पशेट्टिम् आहूय निवेदयतु भवान् ममाभिप्रायम् ।" इति । "प्रभो ! एतावत्पर्यन्तं केळदिराजानः सर्वेऽपि राजवंशीयवधूनाम् एव पाणिग्रहणं कृतवन्तः" इति अमात्यः उक्तवान् । "भवतु नाम तेषां सम्प्रदायः । अहम् एकम् एव मार्गं जानामि, यथाऽहं वदामि तथा भवेदिति । पूर्वसम्प्रदाये मम आसक्तिः नास्ति । अहं तस्याः एव पाणिं ग्रहीष्यामि" इति सोमशेखरनायकः दृढतया उक्तवान् ।

"राजा भवतः पुत्रीं परिणेतुम् इच्छति" इत्येतानि अमात्यस्य वचनानि श्रुत्वा सिद्धप्पशेट्टिः विस्मितः अभवत् । स्वकर्णयोः विषये एव तस्य विश्वासः न उत्पन्नः । अन्ते शेट्टिः सन्तोषेण अङ्गीकृतवान् । 'राजा भवतीं परिणेतुम् इच्छति’ इति स पुत्रीम् उक्तवान् । तत् श्रुत्वा चेन्नम्मा अत्यन्तम् आश्चर्यम्, आनन्दञ्च प्राप्तवती । चेन्नम्मा-सोमशेखरयोः विवाहः 'बिदनूरु’नगरे राजधान्यां राजभवने सवैभवम् अभवत् । चेन्नम्मा केळदिराज्यस्य, सोमशेखरनायकस्य हृदयसाम्राज्यस्यापि राज्ञी अभवत् । नूतनदम्पती तत्कुलदेवस्य केळदिराज्ये स्थितस्य रामेश्वरस्वामिनः, इक्केरुक्षेत्रे अघोरेश्वरस्वामिनः, कोल्लूरुमूकाम्बिकायाः च पूजां कृतवन्तौ । निर्धनानाम् अर्हाणां कृते उपायनानि वितीर्णानि ।

चेन्नम्मा-सोमशेखरनायकयोः वैवाहिकजीवनं मधुक्षीरयोः मिश्रणमिव आसीत् । तौ परस्परम् अनुसरन्तौ अन्योन्यहितं चिन्तयन्तौ कालं नयन्तौ आस्ताम् । राज्ञी स्वमेधाश्क्त्या अल्पे एव काले राजकीयविषयेषु नैपुण्यं सम्पादितवती । आयुधानां प्रयोगविधानं ज्ञातवती । सङ्गीतसाहित्यादिविषयेषु अपि नैपुण्यं प्राप्तवती । राज्ञी चेन्नम्मा प्रजाः, सेवकान् अमितप्रेम्णा अपत्यानीव पश्यन्ती आसीत् । न केवलं सोमशेखरनायकस्य पत्नी इव किन्तु मन्त्रिणीत्वेनापि व्यवहरति स्म सा । राजनीतिविषयेषु विश्वासयोग्यः अमात्यः इव सूचनाः ददती राजानं कर्तव्यकर्मसु प्रेरयति स्म सा । राजपीडिताः जनाः राज्ञः समीपे वक्तुं भीतिम् अनुभवन्ति स्म । किन्तु राज्ञ्याः सन्निधौ निर्भयं वदन्ति स्म । राज्ञी पतिं सयुक्ति निवेद्य तेषां साहाय्यं करोति स्म । दुष्टानां दण्डने, सज्जनानां रक्षणे सा पतिं सहकरोति स्म । एवं सा पत्युः प्रेरणादात्री अभवत् । अतः एव केळदिप्रजाः गौरवभावेन, भक्त्या च तां देवताम् इव आराधयन्ति स्म । राजदम्पती सर्वमतानां विषये समभावेन व्यवहरतः स्म । तौ मठानां कृते, मतसम्बन्धिकार्यस्थानानां कृते भूदानम् अकुरुताम् ।

विजयनगरराजानां पालनासमये विजयदशमीमहोत्सवं सवैभवम् आचरन्ति स्म जनाः । केळदिराजानः अपि तमेव सम्प्रदायम् अनुसरन्ति स्म । देशस्य चतसृभ्यः दिग्भ्यः अनेके महान्तः कलाकाराः पर्वदिनोत्सवेषु जनान् रञ्जयितुम् आगच्छन्ति स्म । सङ्गीतनर्तनादिकलाप्रदर्शनं भवति स्म । उत्सवान्ते राजा बहुमूल्यैः उपायनैः कलाकारान् पुरस्करोति स्म एकदा विजयदशमीसन्दर्भे 'जम्बुखण्डि’वासिनी कलावतीनाम्नी काचन नर्तकी राजदम्पत्योः पुरतः नर्तनं कृतवती । मयूरस्य इव नर्तनं पिकस्य इव गानं च कुर्वती सा सोमशेखरनायकस्य अनुरागं सम्पादितवती । राजा तस्याः नर्तनेन सन्तुष्टः सन् तस्याः कृते प्रभूतं धनं प्रदत्तवान् । ताम् आस्थाननर्तकीं च कृतवान् । तया सह तस्याः जननी, पोषकजनकः 'भरमेमावूतः’ अपि राजस्थाने एव निवसतः स्म । कलावत्याः पालकः नैकान् वञ्चनोपायान् जानाति स्म । राज्ञ्याः चेन्नम्मायाः पुत्रसन्ततिः नास्तीति ज्ञात्वा शनैः राज्ञा सह दृढां मैत्रीं सम्पाद्य तं कलावत्याः मायाजाले पातितवान् । राजा स्वप्रियां चेन्नम्मामपि विस्मृत्य राजभवनाद् दूरे नर्तकीगृहे वसति स्म । भरमेमावूतः औषधमिश्रणं यद्ददाति तत् प्रतिनित्यं स्वीकुर्वन् सः राजा उन्मत्तः अभवत् । अनेके रोगाः तं खेदयन्ति स्म । अमात्याः, उन्नतोद्योगिनः अपि राज्ञा सह समालोचनार्थं नर्तक्याः गृहमेव यान्ति स्म ।

"पतिः पुरा मयि स्निह्यति स्म, मां बहु प्रीणाति स्म । इदानीं राजयंभवनमपि नागच्छति" इति चेन्नम्मा खिन्ना अभवत् । प्रजाः सर्वाः पुरा राजानं दृष्ट्वा "वयं भाग्यशालिनः" इति सन्तोषमनुभवन्ति स्म । किन्तु अधुना तस्य राज्ञः प्रजाविषयिणी चिन्ता अल्पमात्रेण अपि न आसीत् । राज्ञः उन्मत्तताकारणतः राज्ये कोलाहलः प्रारब्धः । तस्य अस्वास्थ्यवार्ता अपि राज्ये सर्वत्र व्याप्ता । राज्ञः पुत्रसन्ततिः अपि नासीत् । अकस्मात् सः म्रियेत चेद् अनन्तरं कथम् ? तस्यां स्थितौ सिंहासनं स्वाधीनं कर्तुम् शत्रवः अनेककुतन्त्राणि कुर्युः इत्येतत् जनानां चिन्तायाः कारणम् आसीत् । बहुधा केळदिराजभिः पराजयम् अनुभूतवन्तः बीजपुरराजः 'एष एव सुसमयः’ इति चिन्तयन् युद्धार्थं सन्नद्धः जातः |

राज्यम् आपद्भ्यः रक्षितुं निश्चितवती राज्ञी । एतावत्पर्यन्तम् 'अहं स्त्रीमात्रम्’ इति तूष्णीम् आसन् । समग्रं राज्यम् आपद्ग्रस्तम् अस्ति इति ज्ञातवती राज्ञी स्वाभिमानमपि परित्यज्य राजानं द्रष्टुं नर्तक्याः कलावत्याः गृहे पदं स्थापितवती । पुराः यः दृढः, बलवान् आसीत् सः एव राजा अद्य रोगग्रस्तः दुर्बलः आसीत् । तस्य मुखं म्लानं, नेत्रे कान्तिहीने च आस्ताम् । तादृश्याम् अवस्थायां पतिं दृष्ट्वा चेन्नम्मा नितरां व्यथिता । तां बाधां कथमपि सोढ्वा राजानम् उक्तवती- "महाराज ! कृपया राजभवनम् आगच्छतु भवान् । आस्थानवैद्याः भवतः चिकित्सां करिष्यन्ति । शिवप्पनायकस्य राज्यं पराधीनं न भवेत् । भवान् योग्यं बालकं दत्तकरूपेण स्वीकर्तुं शक्नोति" इति । राज्यस्य एतादृशदुःस्थितेः कारणीभूतः भरमेमावूतः तदा तत्रैव आसीत् । तस्य वचनैः वञ्चितः राजा चेन्नम्मायाः प्रार्थनावचनानि तिरस्कृतवान् । राज्ञी दुःखेन राजभवनम् आगतवती । तावता शत्रवः राज्यम् आक्रान्तवन्तः आसन् ।

अधिकारः स्वीकार्यः एव

[सम्पादयतु]

राज्यपालनम् अनुवर्तनीयं चेत् वंशः रक्षितः भवेत् । स्वयं खड्गं हस्तेन गृहीत्वा राज्यपरिपालनं करणीयम् एव नान्यः मार्गः विद्यते राज्यरक्षणाय इति चेन्नम्मा ज्ञातवती । भगवति विश्वासं कृत्वा राज्ञी स्वसुकुमारभुजयोः वोढुम् अशक्यं राज्यभारं स्वीकृतवती । धैर्यं, साहसं, मेधाशक्तिः इत्यादिभिः गुणैः युक्ता राज्ञी पितुः सिद्धप्पशेट्टेः मार्गदर्शनं प्राप्तवती । विश्वासयोग्यान् सेनानायकान् नियोज्य तेषां साहाय्यमपि स्वीकृतवती । हस्तेन खड्गं धृत्वा अतिष्ठत् । कदाचित् केळदिराज्यस्य प्रधानमन्त्री तिम्मण्णनायकः कृष्णप्पनायकेन सह राज्ञ्याः समीपम् आगतवान् । "भवती सेनाधिपतेः भद्रप्पनायकस्य कुमारं वीरभद्रनायकं दत्तकपुत्रत्वेन स्वीकरोतु, वयं भवत्याः सहायकाः भवामः । अन्यथा भवत्याः विरोधाय जनान् प्रेरयामः । तं सिंहासने पट्टाभिषिक्तं करिष्यामः" इति उक्तवन्तः। सा एव भीषणा वाक् मन्त्रिणः नरसप्पय्यस्य, उन्नताधिकारिणः लक्ष्मय्यस्य च मुखात् निर्गता । राज्ञी चेन्नम्मा सहनया सर्वाणि वचनानि श्रुतवती । भरमेमावूतः राजानं स्ववशं कृत्वा राज्यनाशनं करणीयमिति इच्छति स्म । केचन अमात्याः, मुख्याधिकारिणः अपि स्वेष्टं कमपि जनं पट्टाभिषिक्तं कृत्वा स्वार्थं साधयितुं प्रयतमानाः आसन् । राज्ञ्या एतत् सम्मतं नासीत् । कञ्चन योग्यं बालकं दत्तकत्वेन स्वीकर्तुमिष्टवती सा । बसप्पनायकं चितवती, निश्चितवती च राज्यरक्षणाय, प्रजानां हिताय, तुष्ट्यै च तस्य योग्यम् उतमशिक्षणं दापनीयमिति ।

बीजापुरराजः केळदिराज्यं स्वाधीनं कर्तुं प्रतीक्षते स्म । सः राज्ञः अस्वास्थ्यं, राज्यपालने राज्ञः अश्र्द्धा, स्त्रीहस्तगतः राज्याभारः इत्यादीन् विषयान् ज्ञातवान् । अनुकूलः कालः सन्निहितः इति चिन्तितवान् सः । सन्धिम् इच्छन् इव सः राज्ञ्याः समीपं जन्नोपन्त-नामकं दूतं प्रेषितवान् । तस्य पृष्ठतः एव मुजफर् खान्-नामकं कञ्चित् सेनानायकं, बृहत् सैन्यमपि प्रेषितवान् । जन्नोपन्तः राज्ञ्या सह मिलितवान् । बीजापुरराजस्य वञ्चनां चेन्नम्मा स्वगूढचरद्वारा पूर्वमेव ज्ञातवती आसीत् । किन्तु तेन सह युद्धाय सा सिद्धा नासीत् । लक्षत्रयरूप्यकाणि जन्नोपन्तस्य कृते दत्त्वा तेन सह सन्धिं कृतवती । तथापि बीजापुरराजस्य सैन्यं केळदिराज्यं रोद्धुम् अग्रे चलदेव आसीत् । राज्ञी स्वसैनिकानां समावेशं कल्पितवती । "केळ्दिराज्यस्थाः मम प्रियवीराः । भवन्तः महान्तः योद्धारः । अस्य राज्यस्य स्थितिः इदानीं भवद्भिः ज्ञाता स्यात् एव । विजयः यदि प्राप्येत तर्हि राज्यम् अस्मदीयं तिष्ठेत् । यदि युद्धे मरणं भवेत् तर्हि स्वर्गः प्राप्येत । तृतीयः मार्गः इदानीं नास्ति । विजयं साधयिष्यन्ति चेत् भवन्तः सत्कीर्तिम्, उपायनानि च प्राप्स्यन्ति" इति तान् प्रोत्साहितवती राज्ञी । प्रेम्णा भाषित्वा तेषां कृते स्वाभरणानि, राज्ञः धनागारस्थं सुवर्णं च वितीर्णवती । तस्याः औदार्येण, प्रेरकसन्देशेन च प्रेरिताः सैनिकाः सर्वे युद्धार्थं कटिबद्धाः अभवन् । राज्ञीम् आमन्त्र्य जन्नोपन्तः भरमेमावूतस्य समीपं गतवान् । तस्य मधुरवचनैः प्रेरितः सः राजानं हतवान् । राज्ञी वार्तां श्रुतवती । पतिः मृतः इति महत् दुःखम् अनुभवन्ती अपि सा तूष्णीं न उपविष्टा । असाधारणा शक्तिमती सा । पतिः न मृतः सः तु मारितः इति विचिन्त्य चेन्नम्मा रणचण्डिकावतारं स्वीकृतवती । पत्युः मरणस्य कारणभूतस्य विषये प्रतीकारः करणीयः इति निश्चितवती सा ।

बीजपुरसैन्यं बिदनूरं परितः व्याप्य स्थितम् आसीत् । भरमेमावूतस्य अनुचराः बीजापुरसैनिकानां कृते सर्वविधं साहाय्यम् अकुर्वन् । शत्रुसेना महती । सिद्धप्पशोट्टिः राज्यस्थाः उन्नतोद्योगिनः च सर्वे "धैर्येण युद्धं कुर्मः तथापि विजयपाप्तिः तु संशयास्पदा एव" इति राज्ञीम् उक्तवन्तः । किञ्चित्कालं बिदनूरुं त्यक्त्वा गच्छतु इति ते राज्ञ्याः कृते सूचितवन्तः । यद्यपि तत् तया न इष्टं तथापि अनन्यगतिकतया अंगीकर्तव्यम् एव आसीत् । राज्ञः सिंहासनं, राज्ञः धनागारः, मूल्यवन्ति वस्तूनि च भुवनगिरिं प्रापितानि । शत्रवः दुर्गस्थं सिंहद्वारम् उद्धाट्य राजभवनं प्रविष्टवन्तः । राज्ञी तत्र न दृष्टा । कोशागारः रिक्तः । तीव्रनिराशया उपहतास्ते कोपोद्रिक्ताः अभवन् । भुवनगिरिदुर्गं महारण्यमध्यगतं सुरक्षितं स्थानम् । केळदिराज्यस्य सेनाधिपतिः सर्वे सैनिकाः च राज्ञ्या सह भुवनगिरौ एव अवस्थिताः । बालस्य दत्तकस्वीकारविषये राज्ञ्याः विरोधाभिप्रायम् असहमानः प्रधानमन्त्री तिम्मण्णनायकः बिदनूरुक्षेत्रं त्यकत्वा गतः आसीत् । किन्तु सः आसीत् कश्चन उत्तमः देशभक्तः । शत्रवः बिदनूरुक्षेत्रं स्वायत्तीकृतवन्तः इति ज्ञात्वा कोपोद्रिक्तः अभवत् ।

सः भुवनगिरिम् आगत्य राज्ञ्या मिलितवान् । "भवती उदारा । अहं दोषं कृतवान् । सोमशेखरनायकस्य मरणानन्तरं बिदनूरुक्षेत्रं त्यक्त्वा मया न गन्तव्यम् आसीत् । मया महान् दोषः कृतः । यत्र अहं जातः प्रवृद्धश्च तच्च स्थलं शत्रूणां वशं गतम् इत्येतत् मां नितरां बाधते । कृपया उच्यताम् अहं किं करवाणि ?" इति विलपितवान् सः । राज्ञी औदार्येण तम् एवं समाहितवती "तिम्मण्णनायक ! भवतः वचांसि भवतः अपारां राजभक्तिं सूचयन्ति । केळदिराज्यस्य रक्षणार्थम् इदानीं सर्वेषां सहकारः भगवतः अनुग्रहश्च आवश्यकौ । राजनीतिक्षेत्रे भवान् अत्यन्तम् अनुभवशाली अस्ति । अस्माकं भवतः साहाय्यं नितराम् आवश्यकम् । बहोः कालतः शिवप्पनायकस्य सेवा भवता कृता अस्ति । प्रधानमन्त्रिस्थानम् पुनः भवानेव अलंकरोतु" इति । केळदिराजद्वारा चेन्नम्माद्वारा च पूर्वं प्राप्तलाभाः सहस्रशः सैनिकाः भुवनगिरिम् आगताः । केळदिराज्यस्य रक्षणाय राज्ञ्याः सन्निधौ सर्वस्वम् अर्पयितुं सिद्धाः जाताः ।

प्रजानां माता

[सम्पादयतु]

तिम्मण्णनायकः सर्वान् सेनाधिपतीन् सैनिकान् च समावेश्य युद्धसज्जताम् अकरोत् । सर्वे बिदनूरुक्षेत्रं प्रति प्रस्थितवन्तः । बीजापुरराजस्य सैनिकाः बिदनूरुं स्वायत्तीकृत्य भुवनगिरिमपि वशीकर्तुम् आगच्छन्तः आसन् । गहनारण्ये एकस्मिन् लघुनि मार्गे बीजापुरसैन्यं कन्न्डसैनिकानां दृष्टिगोचरं जातम् । कन्नडसैनिकाः बीजापुरसैनिकान् हत्वा बिदनूरुं प्राप्तवन्तः । प्रजाः सानन्दं तान् स्वागतीकृतवन्तः । केळदिप्रजाः चेन्नम्मायाः एव राज्ञीत्वम् इच्छन्ति स्म । क्रि.श. १६७१ तमे संवत्सरे चेन्नम्मा भुवनगिरिदुर्गस्य राज्ञी अभवत् । इदानीं राज्यं पुनः पूर्णतया स्वाधीनं जातम् । राज्ञी सैनिकेभ्यः युद्धे साहाय्यं कृतवद्भ्यः सर्वेभ्यः च धनं, सुवर्णं, भूमीः, उन्नतपदानि च दत्त्वा यथोचितं सत्कृतवती । अक्रमपरिपालनात् राज्यं हीनदशाम् अधिगतम् आसीत् । राज्ञी चेन्नम्मा पुनः राज्ये शान्तिं सन्तोषं च प्रतिष्ठापितवती |

शिवप्पनायकस्य राज्यपालनविधानम् एव अनुसृतवती राज्ञी । रामेश्वर-अघोरेश्वर-मूकाम्बिकादेवालयेषु विशेषपूजाम् अकारयत् । वज्रखचितकिरीटानि सुवर्णदीपान् च समर्पितवती । राज्ञी स्वस्य पत्युः मरणस्य कारणीभूतयोः भरमेमावूत-जन्नोपन्तयोः कृते मरणदण्डनम् अयच्छत् । कुतन्त्रं कृतवतः अन्यजनान् अपि राज्यतः बहिष्कृतवती । राज्ञी चेन्नम्मा स्वसामर्थ्येण सम्यक् राज्यं परिपालितवती । सा सज्जनानां कृते देवता इव, दुष्टानां कृते दुर्गास्वरूपिणी आसीत् । पण्डितान् पोषितवती । अहर्निशं देशस्य श्रेयसे एव प्रयासम् अकरोत् सा । प्रजानाम् इच्छानुसारं बालकं बसप्पनायकं दत्तकपुत्रत्वेन स्वीकृतवती चेन्नम्मा । सैन्यं वर्धितवती; सीमाप्रान्तेषु सुदृढं रक्षणव्यवस्थां कृतवती । भगवतः ध्यानेन, दानधर्मादिभिः सत्कर्मभिः च कालं यापयन्ती आसीत् सा ।

पुरा मैसूरुराज्य-केळदिराज्ययोः मध्ये युद्धानि अभवन् । तत्र मैसूरुराजानः पराजिताः । केळदिराजानः जलसमृद्धिकारणतः सम्यक् सस्यानि वर्धयन्ति स्म । वाणिज्यात् अपि अधिकलाभं सम्पादितवन्तः आसन् । तदा मैसूरुराज्यस्य पालकः आसीत् चिक्कदेवरायः । कदाचित् केळ्दिवंशीयः अन्धकवेङ्कटनायकः तस्मै एवं पत्रं लिखितवान् "अहमेव केळ्दिराजा, चेन्नम्मा मम प्रतिकूला अस्ति । तया सह युद्धकरणे भवता यदि साहाय्यं क्रियेत तर्हि भवते अर्धराज्यं मया दास्यते" इति । चिक्कदेवरायः पत्रं पठित्वा अतीव आनन्दं प्राप्तवान् । एकस्याः स्त्रियः अधीनस्थराज्यस्य स्वायत्तीकरणं सुकरमिति सः चिन्तितवान् । केळदिराज्येन सह स्वीयः वाणिज्यव्यवहारः अपि स्वायत्तं भवति इति विचिन्त्य सः युद्धे सहकर्तुम् अङ्गीकृतवान् ।

मैसूरुराज्ञः आक्रमणविषयं ज्ञात्वापि चेन्नम्मा न विचलिता । युद्धार्थं सेनाधिपतिना भद्रनायकेन सह मह्त् सैन्यं प्रेषितवती सा । पार्श्वे एव स्थितानां सोदे, सिर्सि, वनवासि राज्यानां सेनानायकाः अपि तदा एव केळदिराज्यम् आक्रान्तुम् उद्यताः आसन् । राज्ञी तु महद् युद्धनैपुण्यं प्रदशर्य सर्वान् पराजितवती । मैसूरुसैन्यम् अपि पराजितं जातम् । किन्तु तदग्रिमवर्षे चिक्कदेवरायः युद्धं कृत्वा केळदिसैन्यं पराजितवान् । पुनः प्रवृत्ते युद्धे राज्ञी तं जित्वा केळदिराज्यं प्रतिप्राप्तवती । मैसूरुसैन्यस्थाः बहवः उन्नतोद्योगिनः तया बद्धाः । राज्ञी तैः सह सस्नेहं व्यवहृतवती । आदरेण तान् बन्धमुक्तान् कृतवती । एतेन चिक्क्देवरायः प्रभावितः जातः । मैसूरुकेळदिराज्यपालकौ स्नेहपूर्वकनिर्णयान् स्वीकृतवन्तौ । राज्ञी चेन्नम्मा स्वसिंहासनाक्रमणे उद्युक्तान् राज्याद् बहिष्कृतवती । इतरराज्ञां साहाय्यं स्वीकृत्य ते राज्ञ्या सह युद्धम् आरब्धवन्तः । स्वसामर्थ्येण तान् सर्वान् अपि पराजितवती सा ।

राजकुमारस्य बसप्पनायकस्य विद्याभ्यासे विशेषम् अवधानं ददाति स्म चेन्नम्मा । प्रतिदिनं प्रातः स्नानं, पूजाम्, अनुष्ठानं च समाप्य सा सभाङ्गणं गत्वा प्रजानां समस्याः ज्ञात्वा योग्यां व्यवस्थां कल्पयति स्म । मन्त्रिभिः उन्नतोद्योगिभिः च सह शासनविषये चर्चां कृत्वा योग्यान् निर्णयान् स्वीकरोति स्म । संन्यासिनः, अर्चकाः निर्धनाः च तस्याः साहाय्यं लभन्ते स्म ।

आश्रयदानम्

[सम्पादयतु]

एकस्मिन् दिने मध्याह्ने चत्वारः तेजश्शालिनः संन्यासिनः आगताः । तेषां मुखानि दृष्ट्वा एव एते साधारणाः न इति राज्ञी ज्ञातवती । तेषां नायकः तां नमस्कृतवान् । स्नेहपूर्णस्वरेण चेन्नम्मा अवदत् - "स्वामिनः ! भवद्भिः आशीर्वादाः दातव्याः, नमस्कारः न करणीयः । कुतः समायाताः ? भवतां कृते अहं किं करवाणि?" इति । किञ्चित् समीपमागत्य सः अवदत् - "महाराज्ञि ! नाहं संन्यासी । अहं राजारामः । छ्त्रपतेः शिवराजस्य पुत्रः" इति । विस्मिता राज्ञी सानुकम्पम् अवदत् -"भवान् छत्रपतेः शिवराजस्य पुत्रः वा? दक्षिणभारते हिन्दुत्वस्य रक्षणार्थं युद्धं कृतवतः तस्य महनीयस्य कुमारः वा भवान् ? भगवन् ! कीदृशः कष्टकालः आपतितः ? अहं किं करवाणि ?" इति ।

"जननि ! अस्माकम् अग्रजः शम्भाजी औरङ्गजेबेन अतिक्रूरतया हतः । मामपि हत्त्वा मम राज्यं नाशयितुम् औरङ्गजेबः महतीं सेनां प्रेषितवान् । सा सेना एतावता बहूनि दुर्गाणि वशीकृतवती । अहं बद्धः भवामि चेत् महाराष्ट्रं सर्वं नाशयितुं शक्यते इति औरङ्गजेबः चिन्तयन्नस्ति । अतः अहं बहुविधविषैः शत्रून् वञ्चयन् अत्र आगतवान् । अहं बहूनां राज्ञाम् आश्रयं प्रार्थितवान् । " "हिन्दुराजानः भवन्तं रक्षितुं न शक्ताः किम् ?" "औरङ्गजेबाद् भीताः ते ।" "तथा वा? हिन्दुत्वस्य रक्षणार्थं प्राणान् एव समर्पितवतः शिवमहाराजस्य पुत्रस्य आश्रयदानं सर्वस्यापि कर्तव्यम् ।" "जननि ! औरङ्गजेबस्य विरुद्धाचरणं न तथा सामान्यविषयः ।"

"राजकुमार ! राजाराम ! एतावत्पर्यन्तं केळदिराजभवनं प्रति आश्रयार्थी साहाय्यार्थी वा न कोऽपि निराशः सन् न प्रतिगतः । स्त्री एषा इति न चिन्तयन्तु । यान्तु भवन्तः । नाहं निस्सहाया । वीरकन्नडभूमेः पुत्री अस्मि अहम् । साहाय्यार्थिनः रक्षणमेव मम धर्मः । अतिथिगृहे विश्रान्तिं स्वीकुर्वन्तु भवन्तः ।" "राज्ञि ! मह्यम् आश्रयदानात् पूर्वं मन्त्रिभिः सह चर्चां करोतु । नैषः कस्यचन पोषणविषयः । एकस्य राज्यस्य रक्षणविषयः खल्वेषः ।" "राजाराम ! कन्नडप्रजाः प्रतिज्ञातं वचनं पालयन्त्येव । आश्रयं प्रार्थयतः जनस्य साहाय्यं कर्तुम् अशक्ताः भीरवः न एते ।" "राज्ञी ! भवत्याः शौर्यम् औदार्यं च जानामि । सर्वे अङ्गीकुर्वन्ति चेत् कञ्चित्कालं मे आश्रयं ददातु भवती । ततः जिञ्जिदुर्गं गन्तुं साहाय्यञ्च करोतु । भवत्या कृतम् उपकारं कदापि न विस्मरामि । यदि न शक्येत तर्हि श्वः प्रातः एव इतः गमिष्यामि ।" "राजकुमार ! सायंकाले एव सभाम् आयोज्य भवतः विषयं प्रस्तोष्यामि । प्रार्थितवतः भवतः कृते कथञ्चित् आश्रयं कल्पयिष्याम्येव ।"

"राज्ञि ! केळदिराजवंशः महोन्नतः । अतीव विस्मयकरः विषयः अयं यद् महाराज्यानाम् अधिपाः महाबलिनः अपि राजानः मम आश्रयं दातुं न शक्ताः । किन्तु भवती धैर्येण विपदः सम्मुखीकर्तुं मां रक्षितुञ्च निश्चितवती । धन्योऽहम्" इति वदन् राजारामः भक्त्या तां प्रणम्य अतिथिगृहं गतवान् । सायंकाले चेन्नम्मा राजसभाम् आयोजितवती । प्रवृत्तं सर्वम् उक्त्वा मन्त्रिणाम् अभिप्रायं पृष्टवती । तिम्मण्णनायकः अवदत् - "महाराज्ञि ! औरङ्गजेबः राजारामम् अन्विष्यन् अस्ति । एतावता एव् तेन रायगढ-पन्हालागढादीनि दुर्गाणि वशीकृतानि सन्ति । केळदिराज्ये राजारामः अस्तीति औरङ्गजेबः जानाति चेत् तत्क्षणे एव अस्माकं सर्वनाशः भविष्यति" इति । सिद्दप्पशेट्टिः स्वपुत्रीं स्पष्टमुक्तवान् - "प्रधानमन्त्रिणा उक्तं वचनं युक्तम् । अद्यावधि अस्माभिः परितः स्थितैः शत्रुभिः सह युद्धं कृतम् । इदमिदानीमेव राज्ये शान्तिः सुरक्षा च प्रतिष्ठाप्यमाना अस्ति । औरङ्गजेबेन सह युद्धकरणम् अस्माकं शक्त्यनुगुणं नास्ति" इति ।

सेनानायकस्य भद्रप्पस्य अमात्यस्य नरसप्पस्य च स एव आभिप्रायः आसीत् । "भवद्भिः उक्तं युक्तियुक्तम्" स्वाशयं वक्तुम् आरब्धवती चेन्नम्मा "अहमपि गाढं चिन्तितवती । अद्यावधि केळदिराजा्नः हिन्दुत्वस्य रक्षणार्थं कटिबद्धाः । तस्य सम्प्रदायस्य रक्षणं मया कर्तव्यम् । इदानीं हिन्दुराज्यस्य निर्मातुः शिवराजस्य पुत्रः साहाय्यार्थी सन् समागतः । न शक्यते इति कथनं कथं युक्तम् ? राज्यरक्षणं भगवतः अधीनम् ।" "अहमङ्गीकरोमि जननि !" उक्तवान् भद्रप्पनायकः - "भवत्या उक्तं वचनं युक्तम् । हननस्य अपेक्षया रक्षणमेव श्रेष्ठं कार्यम् । भगवतः अनुग्रहं, गुरुणाम् आशिषम् अस्माकं वीराणां शौर्यं च औरङ्गजेबः कथम् अवरोद्धुं शक्नुयात् ?" अन्ते सभायां स्थिताः प्रजाः मन्त्रिणः सर्वे राजारामस्य आश्रयप्रदानं युक्तमेवेति अङ्गीकृतवन्तः । भगवति विश्वस्य राजारामस्य कृते आश्रयं दत्तवती राज्ञी । केळदिराज्ये युद्धसन्नाहः पुनः आरब्धः ।

औरङ्गजेबः स्वकुमारम् "अजामत् आरा" नामकं केळदिसंस्थानं जेतुं ससैन्यं प्रेषितवान् । किन्तु तदभ्यन्तरे एव राजारामः सुरक्षितः जिञ्चिदुर्गं प्राप्तवान् । कुतन्त्रनिपुणः मोगलप्रभुः सेनायाः केळ्दिप्राप्तेः पूर्वमेव अमूल्यैः रत्नैः वज्रैः बहुमूल्यैः उपायनैः राज्ञीं प्रलोभयितुम् इच्छन् एकं पत्रं राजदूतद्वारा प्रेषितवान् । "केळदिराज्ञ्याः चेन्नम्मायाः कृते इदं पत्रम् । आवयोः मध्ये शत्रुत्वं नास्ति । किन्तु मम शत्रुः राजारामः भवत्याः रक्षणे अस्तीति अहं श्रुतवान् । भवती तं मदधीनं करोति चेत् आवयोः स्नेहपूर्वकव्यवहाराः भविष्यन्ति । नो चेत् भवत्या मुगलसेनायाः कोपफलं प्राप्तव्यं भविष्यति ।" विवेकवती राज्ञी चेन्नम्मा मन्त्रिभिः सह समालोच्य प्रत्युत्तरं प्रेषितवती । "मुगलप्रभोः औरङ्गजेबस्य कृते इदं पत्रम् । भवतः पत्रम् अस्माभिः प्राप्तम् । अस्य राज्यस्य प्रजाः मुगलजनैः सह स्नेहव्यवहारं कर्तुं सर्वदा सिद्धाः एव । किन्तु स्नेहस्य फलरूपेण भवता यत् प्रार्थितं तस्य दानं तु असम्भवम् एव । राजारामः अस्मिन् राज्ये नास्ति । सः केळदिराज्यतः निर्गतः अस्ति ।"

राज्ञ्याः पत्रम् औरॅङ्गजेबेन यावत् न प्राप्तं तावता एव महती मुगलसेना केळदिसमीपम् आगता । राज्ञी युद्धार्थं सिद्धा आसीदेव । वीराः केळदिसैनिकाः मुगलसैनिकैः सह योद्धुं मार्गे प्रतीक्षां कुर्वन्तः आसन् । सः मार्गः निबिडवनमयः आसीत् । वर्षाकालश्चासीत् । मुगलसैनिकाः उष्णवातावरणजीविनः । तेषां मलनाडुप्रान्ते कुम्भवृष्टौ अरण्यमार्गे यात्रा बहुकष्टकरी आसीत् । औरङ्गजेबस्य आज्ञां तिरस्कर्तुम् अशक्ताः बहुश्रमेण पुरतः गच्छन्तः आसन् ते । कन्नडवीराः अरण्यमार्गेषु निरीक्षमाणाः सुस्मये मुगलसैनिकानां छेदनम् आरब्धवन्तः । अजामत्-आरा विस्मितः अभवत् । अनेकान् राज्ञः पराजितवतः तस्य इदानीम् एकस्याः स्त्रियः हस्ते पराजयः अभवत् । पराजयं प्राप्य प्रतिगच्छामि चेत् पिता निश्चयेन मां मारयति इति तेन ज्ञातम् आसीत् । चिन्तनमात्रेण स्विन्नगात्रः अभवत् सः । सैनिकानां पुरः स्थित्वा केळदिदुर्गं नाशयितुम् अजमतस्य धैर्यं न आसीत् । सैन्यं प्रायः प्रणष्टमेव आसीत् । अनेकान् अश्वान्, युद्धसामग्रीः, मुगलसेनानायकान् च केलदिसेनया वशीकृतम् आसीत् ।

एतदभ्यन्तरे अजामत्-आरा औरङ्ग्जेबतः एकं पत्रं प्राप्तवान् । तत्र एवम् लिखितम् आसीत् - "राजारामः जिञ्जिदुर्गतः पालयितवान् अस्ति । भवान् केळदिप्रान्तं त्यक्त्वा जिञ्जिदुर्गं प्रति गच्छतु" इति । अस्य सन्देशस्य पठनेन अजामत्-आरा उत्साहं प्राप्नोत् । सः अपि तदेव इच्छति स्म । मुगलजनाः चेन्नम्मां विषयमेनम् उक्तवन्तः । चेन्नम्मा अपि तेषाम् निर्णयेन सन्तुष्टा । मुगलनायकेषु औदार्यं दर्शितवती । उभयनिर्णयानुसारं स्वसैन्येन बद्धान् मुगलान् कारागारात् मुक्तवती । औरङ्गजेबः केळदिं स्वतन्त्रं राज्यमिति घोषितवान् । राज्ञी स्वसैनिकान् उन्नतोद्योगिनश्च पुरस्कृतवती । एवम् औरङ्गजेबं युद्धे पराजित्य, महत्त्वपूर्णं विजयं प्राप्तवती धैर्यवती चेन्नम्मा । जिञ्जिं प्राप्तः राजारामः कृतज्ञः सन् राज्ञ्याः कृते पत्रं लिखितवान् "महान्तः राजानः एव मम कृते साहाय्यं कर्तुं निराकृतवन्तः । भवती तु धैर्येण मह्यम् आश्रयं दत्त्वा हिन्दुत्वरक्षणे साहाय्यं कृतवती । भवत्या दर्शितं धैर्यम्, औदार्यं कदापि अहं न विस्मरामि । भवानीदेवी भवत्याः कृते सर्वदा सन्तोषम् अनुगृह्णातु । भवत्याः राज्यं सन्तोषस्य, आनन्दस्य च निलयः भवतु इति अहं भक्तिपूर्वकं भगवन्तं प्रार्थयन्नस्मि ।" इति । पर्वतः इव आपतितं कष्टं हिमः इव द्र्वीभूतः इति राज्ञी सन्तुष्टा ।

उत्तमपालिका

[सम्पादयतु]

समुद्रतीरे वाणिज्यस्य वर्धनाय अरबजनैः पोर्चुगीसजनैः च सह सम्बन्धान् उत्तमान् कर्तुं योग्यान् निर्णयान् नैपुण्येन स्वीकृतवती चेन्नम्मा । ततः राज्यस्य आवश्यकानि वस्तूनि आनेतुम् अनुकूलाः अवसराः प्राप्ताः । केळदिरक्षणार्थम् आवश्यकानाम् अश्वानां कृते सा अरबजनैः सह वाणिज्यं कृतवती । मलनाडुप्रान्तीयसस्यानि तण्डुलान्, कृष्णमरीचिकाः पोर्चुगीसजनाः क्रीणन्ति स्म । एवं राज्यस्य कृते बहुसम्पत्तिः लब्धा । अत्रान्तरे दत्तकपुत्रः बसप्पनायकः युवा सञ्जातः । चेन्नम्मायाः शिक्षणे राजनीतिविद्याम् समीचीनतया अधीतवान् आसीत् सः । सः विनयशीलः, नीतिमान्, स्त्यपराक्रमः च आसीत् । राज्यपालनं सः सम्यक् कर्तुं शक्नोतीति राज्याः विश्वासः आसीत् । स्वसमयम् इतरेषां सेवायै यापयति स्म राज्ञी । तीर्थयात्रां कृत्वा अक्करिग्रामे अघोरेश्वरालयं, कोल्लूरुग्रामे मूकाम्बिकालयं, शृङ्गगिरौ शारदाम्बालयं च दृष्टवती । आसंवत्सरं पूजाः अनुवर्तयितुं सन्दृष्टक्षेत्राणां कृते भूमीः उपायनरुपेण् दत्तवती । तस्मिन् समये एव सा बसवपट्टणस्य समीपस्थं हुलिकेरेराज्यम् अपि वशीकृतवती । तत्र दुर्गं शिथिलावस्थायामासीत् । सा तस्य पुनर्निर्माणं कारितवती । बसप्पनायकः मातुः विषयकगौरवेण तस्य दुर्गस्य नाम 'चेन्नगिरिः’ इति कृतवान् ।

राज्ञी चेन्नम्मा एकं सुन्दरं रथं निर्माय बिदनूरुसमीपस्थे वेनिपुरे नीलकण्ठेश्वरस्वामिनः आलयस्य कृते समर्पितवती । सा प्रतिसंवत्सरं प्रचलतः नीलेश्वरस्वामिनः उत्सवस्य निर्वहणाय सर्वविधसौविध्यानि कृतवती । सा केळ्दिनगरे वीरभद्रेश्वरालयस्य शिखरं पुनर्निर्माय, एकं ध्वजस्तम्भमपि प्रतिष्ठापितवती । काशी, रामेश्वरं, श्रीशैलं, तिरुपति इत्यादिदेवस्थानेभ्यः उपायनानि समर्पितवती । वीरशैवसंन्यासिनां कृते आश्रमान्, शैवानां वीरशैवसंन्यासिनां कृते आश्रमान् निर्मापितवती । चेन्नम्मा १६९६ क्रैस्ताब्दपर्यन्तम् अत्यन्तसमर्थतया केळदिराज्यं परिपालितवती । सा महतीं प्रख्यातिं प्राप्तवती । देवतासु भक्तिमती च आसीत् । मरणशय्यायां राज्ञी स्वकुमारम् आहूय समुद्बोधितवती- "बसप्पनायक ! चौडप्पनायकेन स्थापितस्य केळदिराज्यस्य अभिवृद्धिः संरक्षणभारः इदानीं भवति एव अस्ति । भवान् महापुरुषाणां मार्गे गच्छतु । भवतः वचांसि मौक्तिकमाला इव भवन्तु । भवान् कदापि दोषं न करोतु । सत्यं, दया, न्याय्यबुद्धिः इत्यादिभिः गुणैः युक्तः सन् व्यवहारं करोतु । दुर्व्यसनैः समयं व्यर्थं न करोतु भवान् । उत्तमकार्याणां कृते भवतः समयस्य उपयोगः भवतु । केळदिप्रजाः अपत्यानीव भावयतु । भवान् तेषां सुखे सुखी, दुःखे दुःखी च भवतु । स्वयम् उत्तमकीर्तिं सम्पाद्य, राजवंशं वर्धयतु भवान् ।" इति ।

"केळदिराज्यम् आनन्दस्य निलयो भवतु । प्रजाः सर्वाः तृप्त्या सन्तोषम् अनुभवन्तु । भगवान् भवन्तम् आशीर्भिः अनुगृह्णातु ।" इति आशिर्वचनैः अन्वग्रहीत् सा । देवे भक्तिमती, नीतिमती, धीरा, साहसवती, बुद्धिमती राज्ञी चेन्नम्मा पवित्रे श्रावणमासे अन्तिमं श्वासं स्वीकृतवती । सोमशेखरनायकस्य अज्ञानवशात् केळदिराज्यं पतनस्थितिं गतं, शत्रुभिः परिरिवृतञ्च । तस्मिन् समये प्रजानाम् अभीष्टानुगुणं चेन्नम्मा राज्यभारम् ऊढवती । महता धैर्येण, विवेकेन व्यवहृतवती । शत्रून् सर्वान् जितवती । इतरराजानः औरङ्गजेबतः भीताः शिवराजस्य पुत्रस्य कृते आश्रयं दातुं निराकृतवन्तः । किन्तु कन्नडराज्यलक्ष्मीः एषा स्त्री अपि तस्य कृते साहाय्यं कृतवती । चेन्नम्मा मेधाविनी, शक्तिमती, धैर्यसाहसवती च । सा केळदिराज्ये शान्तिं व्यवस्थापितवती । केळदिप्रजाः शत्रुभयतः, चोरभयतः, अधिकारिणां हिंसया च पीडिताः आसन् । एवं सा राज्यपालनं कृतवती । कर्णाटकेतिहासे, भारतदेशेतिहासे च धैर्यसाहसादीनाम् अपरमूर्त्याः केळदिराज्ञ्याः नाम सुवर्णाक्षरैः विलिखितमस्ति । महत्त्वाकाङ्क्षिणां कृते चेन्नम्मायाः जीवनं प्रेरणादायकं भवति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=केळदि_चेन्नम्मा&oldid=360934" इत्यस्माद् प्रतिप्राप्तम्