कॉन्स्टांज़्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कॉन्स्टांज़्
Rheintorturm, a section of the former city wall of Konstanz at Lake Constance
Rheintorturm, a section of the former city wall of Konstanz at Lake Constance
Flag of कॉन्स्टांज़्
Flag
Coat of arms of कॉन्स्टांज़्
Coat of arms
Country Germany
State Baden-Württemberg
Admin. region Freiburg
District Konstanz
Government
 • Lord Mayor Ulrich Burchardt (CDU)
Area
 • Total ५५.६५ km
Population
 (2014-12-31)
 • Total ८१,६९२
 • Density १,५००/km
Time zone CET/CEST (UTC+1/+2)
Postal codes
78462–78467
Dialling codes 07531, 07533
Vehicle registration KN
Website www.konstanz.de

कॉन्स्टांज़् नगरम् द्वाभ्यां विश्वविद्यालयाभ्याम् एवं प्रायशः अशीतिसहस्रैः निवासिभिः युक्तम् तथापि कॉन्स्टांज़्सरोवरस्य पाश्चात्यतटे स्विट्जर्लण्ड्सीमायाम् जर्मनीदेशस्य पट्टनम् अस्ति। नगरे प्रसिद्धः कॉन्स्टांज़् विश्वविद्यालयः अस्ति। शतद्वादशतः परम् कथोलिककार्यालयः अपि आसीत्।

स्थितिः[सम्पादयतु]

इम्पिरिया विग्रहः कॉन्स्टांज़् नौकाश्रये प्रसिद्ध दृश्यम्

कॉन्स्टांज़् कॉन्स्टांज़्सरोवरस्य तटे स्थितः। आल्प्सपर्वतक्षेत्रात् आरभन्ती राइन् नदी सरोवरस्य पारम् गत्वा स्थूला भवति ततः नगरस्य मध्ये सेतोः अधः प्रवहति। स्थुलतरे उत्तरभागे गृहाणि, उद्योगसंस्थानाः, विश्वविद्यालयः स्थिताः। प्राचीने दक्षिणभागे प्रशासनकार्यालयाः, कलाशाला, वाणिज्यसम्स्थानाः सन्ति। वाहनानि वाहनयुक्तानाम् नौकानाम् द्वारा मीर्स्बुर्ग नगरम् प्राप्तुं शक्नोन्ति। "कट्टमरन्"नौकायाम् द्वारा पादयात्रिणः फ़्रीड्रिक्स्हाफ़न् नगरम् गन्तुं शक्नोन्ति। दक्षिणदिकि सिमायाम् क्रोइस्लिङ्गन् नगरं स्थितम्।

उपभागाः[सम्पादयतु]

कॉन्स्टांज़् पञ्चदशाः उपभागाः। मैनौद्वीपम् लिट्सल्स्टट्टन् उपभागस्य प्रशासने आसीत्। लिट्सल्स्टट्टन् उपभागः दिसंबर् 1, 1971 दिनांके कॉन्स्टांज़् नगरस्य प्रशासने अभवत्।

कॉन्स्टांज़् भूपटम्

इतिहासः[सम्पादयतु]

Schnetztor, a section of the former city wall.
Konstanz Marktstätte, the main square in the old town.

नगरे मानवनिवासस्य प्रमाणानि शैलयुगतः आसन्। रोमसम्राटः अगस्तस्य शासनकाले दान्युब् नद्यः दक्षिणभागं केल्ट्जातिः उज्जीतवती। तत्पुर्वम् कॉन्स्टांज़् नगरे रोमनाग्रिकैः निवासाः स्थापितवन्तः। एतत् लघुनगरम् द्रुसोमागस् नाम्ना रोमसाम्राज्ये रेतीयविभागे आसीत्। तस्य उपरितननाम कोन्स्टण्टिया। नाम्नः मूलः रोमसम्राटः नाम कोन्स्टण्टियक्लोरः अथवा कोन्स्टण्टियद्वितीयः अस्ति। कोन्स्टण्टियक्लोरः अलेमानिजन्यम् अयोधत् तथा 300 समीपवर्षे एकं दृढदुर्गम् स्थापितवान्। कोन्स्टण्टियद्वितीयः तं प्रान्तम् दर्शनम् 354 वत्सरे अकरोत्। कोन्स्टण्टियादुर्गम् 2003 वत्सरे अन्वेषितम्।

585 वत्सरस्य समीपे कॉन्स्टांज़् नगरे मताधिकारी वसितुम् आगच्छति स्म। एतद्घटनानन्तरं कॉन्स्टांज़् नगरम् तीर्थस्थलम् अभवत् तथा मध्ययुगस्य अन्ते षड्सहस्रवासिनाम् चतुर्यांशः करम् दातुं नापक्षते स्म।

कॉन्स्टांज़् नगरे मध्यमयुगे वाणिज्यम् सम्यक् अन्ववर्तत्। तस्मिन् प्रान्ते राइन् नद्यां एकैकः सेतुः कॉन्स्टांज़् नगरे आसीत्, येन स्वाबियाराज्ये सामरिकस्थानानाम् कॉन्स्टांज़् एकं नगरम् अभवत्। नगरम् क्षोमस्य उत्पादने विश्वप्रसिद्धिम् एवमपि समृद्धिम् अप्राप्नोत्। 1192 वत्सरे नगरस्य प्रत्यक्षनियंत्रणम् कर्तुम् निश्चयम् अकरोत्।

1414 वर्षतः 1418 वर्षपर्यन्तम् कॉन्स्टांज़् नगरे धार्मिकसभा आयोजिता, 1415 जुलाई 6 दिनाङ्के सभायाम जान् हुस् नाम्ना चेक्देशस्य संशोदकः सजीवदहने मारितः। इत्र बह्वोः पोपयोः मतभेदम् दुरी अकरोत् एवमेव अस्याम् सभायाम् मार्टिन्पञ्चमः नाम पोपः नियुक्तः अभवत्। इयं सभा आल्प्सपर्वतक्षेत्रस्य उत्तरदिकि एकैका आसीत्। ऊल्रिक् रिकेन्ताल् अस्याः सभायाः चित्रीकरणम् कृतवान् तथा मुख्याः घटनाः, एतस्मिन् काले नगरस्य व्यवहारदशाम् च दर्शितवान्। सभाभवनम् नौकाश्रयस्य समीपे अस्ति अपिच इम्पीर्या नाम्ना विग्रहः 1993 वत्सरे स्मारकरूपे निर्मितः।

1460 वर्षे स्विस्राष्ट्रम् थुर्गौ नाम्ना कॉन्स्टांज़्नगरस्य वृष्ठभूमिम् अजयत। कॉन्स्टांज़्नगरम् स्विस्राष्ट्रे स्वराज्यस्य मेलनम् कर्तुम् निवेदनम् अप्रेषयत् परन्तु यस्मात् कॉन्स्टांज़्नगरम् विशालम् प्रबलञ्च अस्ति तस्मात् स्विस्शासनम् निवेदनम् न स्वीकरोति स्म। अतः कॉन्स्टांज़्नगरशासनम् स्वाबियासंघे मेलनम् अकरोत्। 1499 वर्षे स्वाबियायुद्धे पराजयानन्तरम् कॉन्स्टांज़्नगरशासनम् थुर्गौक्षेत्रे अधिकारम् अत्यजत्, यत् अधिकारम् तदानीम् स्विस्राष्ट्रम् अजयत्।

प्रोटेस्टण्ट् प्रतिवाद्यं नगरे 1520 दशके अम्ब्रोसियस्ब्लेररस्य नेतृत्वे आरभत।झटिति नगरे प्रोटेस्टण्ट्मतम् गृहीतम् तथा क्रैस्तालायेषु क्रैस्तचित्राः अपसारिताः एवं बिशपः मीर्स्बुर्ग् नगरम् गतवान्। नगरे पुरस्तात् टेट्रपोलिटन् नीतिः गृहिता, तत् पश्चात् औग्स्बर्ग् नीतिः गृहिता। परंतु 1548 वर्षे रोमचक्रवर्तिना चार्ल्सपञ्चमेन नगरे प्रतिबन्धम् नियुक्तम् तथा नगरं हाब्स्बर्गराज्ये अधीनमभवत्। नगरस्य स्वराज्यम् लुप्तम्।

हाब्सबर्ग् शासकाः कथोलिक्मतम् पुनर्स्थापितवन्तः तथा 1604 वर्षे कथोलिक्विद्यासंस्थां अपि स्थापितवन्तः। संस्थया 1610 वर्षे निर्मिता रंगशाला अद्यापि निर्वहिता ततः जर्मनिदेशस्य ज्येष्ठा रंगशाला अस्ति।

1806 वर्षे नगरम् बाडेन् ड्यूकस्य अधीनमभवत्। 1821 वर्षे बिशपपदवी लुप्ता अभवत् तथा नगरस्य मतकार्याणि फ़्राय्बर्ग् बिशपस्य अभवन्। 1871 वर्षे नगरम् नवस्थापिते जर्मनीसाम्राज्ये मेलेनम् अकरोत्। द्वितीयविश्वयुद्धानन्तरम् बाडेन्गणराज्ये मेलनम् अभवत्।

यस्मात् स्विस्राज्यस्य सीमापार्श्वस्थम् नगरम् कॉन्स्टांज़् अस्ति तस्मात् द्वितीयविश्वयुद्धे नगरस्य द्वंसं नाभवत्। यस्मात् रात्रिकाले नगरस्य दीपान् न निर्वापयति स्म तस्मात् मित्रदेशस्य युद्धविमानानि प्रलब्धव्यानि इदं नगरम् स्विसदेशस्य अस्ति इति। युद्धानन्तरम् दक्षिणबाडेन् राज्यस्य भागम् अभवत्, तत् पश्चात् बाडेन्वुर्टेम्बर्ग् राज्यस्य भागम् अभवत्।

नगरस्य पुरातनभागम् विशालम् अस्ति, यस्मिन् भागे पुरातनभवनानि स्रज्तरुराजयः सन्ति। अतिविशालभवनेषु जयेष्ठक्रैस्तालयम्, त्रयः अट्टकाः संति।

विश्वविद्यालयम् 1966 वर्षे स्थापितम्। विद्यालये विशिष्ठम् विंशतिलक्ष्यपुस्तकैः युक्तं यावद्काले उपल्भ्यम् च पुस्तकालयम् अपि अस्ति एवमेव औद्भिदोद्यानम् अस्ति। 2007 वर्षानन्तरं नवसु अतिविशिष्ठविश्वविद्यालयेषु एकमस्ति।

नगरे अपि फ़र्डिनण्ड् जेपेलिनः जातः, येन जेपेलिनविमानम् संकल्पितम्।

वीथिका[सम्पादयतु]

विदेशवासिनः
देशः जनसङ्ख्या (2014)
इटली 1,627
तुर्की 1,132
क्रोवेषिया 568
रोमेनिया 565
सर्बियामोण्टेनीग्रो 500
औस्ट्रिया 381

वातावरणम्[सम्पादयतु]

यस्मात् सरोवरतटे अस्ति तस्मात् एतस्य नगरस्य वातावरणम् ग्रीष्मकाले उष्णम् शीतकाले शीतलम्

Climate data for Konstanz, Germany for 1981–2010 (Source: DWD)
Month Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec Year
Average high °C (°F) 3.2 5.1 10.4 17.0 21.9 24.9 26.7 26.6 21.9 17.3 7.6 4.1 १४.३४
Average low °C (°F) −2.3 −2 1.0 3.8 8.2 11.5 13.5 13.3 10.1 6.4 1.7 −0.9 ५.४
Precipitation mm (inches) 44.0
(1.732)
45.0
(1.772)
54.7
(2.154)
61.5
(2.421)
89.2
(3.512)
98.3
(3.87)
97.4
(3.835)
89.3
(3.516)
76.7
(3.02)
62.7
(2.469)
60.0
(2.362)
66.1
(2.602)
८४४.७८
(३३.२५९१)
Sunshine hours 50.2 81.9 135.3 176.9 209.9 225.3 249.2 225.6 160.1 98.8 53.8 40.6 १,७०७.६६
Source: Data derived from Deutscher Wetterdienst[१]

दर्शनार्थम्[सम्पादयतु]

  • पुरातत्वशास्त्रसङ्ग्रहालयम्
  • इम्पीरिया विग्राहः
  • जान् हस् संग्रहालयम्
  • ज्येष्ठक्रैस्तालयम्
  • सभाभवनम्
  • नीडर्बर्ग् दुर्गः
  • पीटर्स्हौसन्विहारः
  • पुरातनरोमदुर्गः
  • Schnetztorद्वारम्
  • यहूददेवालयम्

अन्तरराष्ट्रीयसंबंधाः[सम्पादयतु]

संबंधितानि नगराणि:

यातायातम्[सम्पादयतु]

कॉन्स्टांज़् रेलावस्तानम् उत्तरराइन्नदीरेलविभागेन चलितम्। पश्चिमे सिङ्गेन्नगरमस्ति यस्य अवस्तानतः जर्मनिदेशस्य समस्तप्रदेशपर्यन्तम् रेलप्रयाणम् सम्भवम्। दक्षिणदिशि वैन्फ़्ल्डेनवस्तानतः स्विट्जर्लेन्ड्देशस्य समस्तप्रदेशपर्यन्तम् रेलप्रयाणम् सम्भवम्। नेदिष्ठम् विमानाश्रयम् फ़्रीड्रिक्षाफ़न्नगरे स्थितः। सरोवरे नौकाः अपि चलन्ति।

सन्दर्भाः[सम्पादयतु]

बहिर्जालस्थलानि[सम्पादयतु]

विकिट्रेवले कॉन्स्टांज़् यात्रा मार्गदर्शिका

फलकम्:Cities and towns in Konstanz (district)

"https://sa.wikipedia.org/w/index.php?title=कॉन्स्टांज़्&oldid=483157" इत्यस्माद् प्रतिप्राप्तम्