कोरमजनाङ्गः
कोरमजनाङ्गः |
---|
कोरमजनाङ्गे वैविध्यानि
[सम्पादयतु]मूलतः एते तमिळ्नाडुप्रदेशीयाः । एतान् आन्ध्रप्रदेशे ‘यरकुल’ इति, महाराष्ट्रे ‘कैकाडि’ इति आह्वयन्ति । कुरुपर्वते ये जनाः आसन् तान् एव कुरुपुवाः, कुरुवनाः, कोरवाः, कोरमाः इति वक्तुं शक्यते । कर्णाटके एतान् कोरम, कोरमशेट्टि, कुञ्चिकोरम, भजन्त्रि, कोरच, कोरव इत्यादिनाम्ना अभिजानन्ति । एतेषां वृत्त्यनुगुणम् कण्डोलग्रथनजनान् ‘कण्डोलकोरमाः’, वाद्यं ये वादयन्ति तान् वाद्यकोरमाः, रज्जुं ये निर्मान्ति तान् रज्जुकोरमाः, वृषभवाणिज्यं ये कुर्वन्ति तान् वृषभकोरमाः, लवणविक्रयणं कुर्वन्ति चेत् लवणकोरमाः, चौर्यं, लुण्ठनं च ये कुर्वन्ति तान् चोरकोरमाः, वानरान् ये क्रीडयन्ति तान् वानरकोरमाः, सर्पान् ये क्रीडयन्ति तान् सर्पकोरमाः, ये शहनायिवाद्यं वादयन्ति तान् भजन्त्रि च इत्येवम् अभिजानन्ति । एते ‘कुळुव’ भाषां वदन्ति । तदर्तं एतान् ‘कुळुव’ इत्यपि आह्वयन्ति । कोरमजनेषु कतिचन स्वभाषां भाषां ‘कोङ्ग’ इति वदन्ति । एषा स्वतन्त्रभाषा न । पूर्वतमिळ्भाषायाः काचित् उपभाषा । ‘पत्रलेखा(tattoo)’ स्थापने कोरमस्त्री निपुणा । शताधिकविधाः पत्रलेखाः स्थापयन्ति । कावाडि, श्यातपाडि, म्यानपाडि, म्यान्रगुत्ति एवं चतुर्विध-उपशाखाः (बेडगु) एतेषु सन्ति । ‘कूटिके(पुनर्विवाहः)’ अथवा ‘कूडावळि’ पद्धतिः अपि एतेषु अस्ति ।
कोरमजनाङ्गस्य सामाजिकी व्यवस्था
[सम्पादयतु]कोरमाः स्वन्यायं स्वयं परिहरन्ति । स्वेषु प्रत्येकस्य गणस्य नायकं कुर्वन्ति । तं ‘बेरुमनुष्य’ इति वदन्ति । तस्य नायकत्वे सर्वे मिलित्वा समस्यां परिहरन्ति ।