कोरोना-विषाणुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कोरोना-विषाणुः
Coronaviruses 004 lores.jpg
SARS-CoV-2 without background.png
वायरसवर्गीकरणम्
समुदायः Group IV ((+)ssRNA)
गणः निदुवायरस
कुलम् करोना-वायरदा
उपकुलम् करोनावायरिना
वंशः *अल्फा-करोनाविषाणुः
  • बिटा-करोनाविषाणुः
  • डेल्टा-करोनाविषाणुः
  • गामा-करोनाविषाणुः
जीववैज्ञानिकप्रकारः
करोनाविषाणुः

कोरोना-विषाणुः अनेकप्रकाराणां विषाणूनाम् एकः समूहः भवति, यश्च स्तनधारिषु पक्षिषु च रोगान् जनयति । एते विषाणवः अम्लीयाः (आर एन ए - राइबो न्युक्लिक एसिड्स) भवन्ति । एतैः मानवेषु श्वासनलिकासु सङ्क्रमणं भवितुम् अर्हति। प्रायः एतैः पीनसः श्वासः कासः ज्वरः मृत्युः च अपि भवेत् । गोसु सूकरेषु च अस्मात् अतिसारः जायते, कुक्कुटेषु च श्वसनतन्त्रसम्बन्धिः विकारः भवति । कोरोनाविषाणूनां शमनार्थं किञ्चित् अपि प्रामाणिकम् औषधम् अधुनापर्यन्तं न निर्मितं वर्तते । अस्य निवारणं व्यक्तेः रोगप्रतिरोधकशक्तेः अनुगुणं भवति । वृद्धानां दुर्बलानां हृद्रोग-प्रमेहादीनां याप्यरोगग्रस्तानां च उपरि कोरोनाविषाणुजन्यरोगस्य असाध्यः दुष्प्रभावः दृश्यते । परन्तु यूनां बलिनां संयतानां च शीघ्रं शाम्यति । अधुनापर्यन्तम् अनेन जातानां रोगलक्षणानाम् (ज्वर-पीनसादीनां) पृथक् पृथक् एव उपचारः क्रियते, येन सङ्क्रमितः‌ जनः जातस्य‌ विकारस्य उपशमनाय शक्तिं प्राप्नुयात् इति । परन्तु विषाणूनां शोधनम् असाध्यं वर्तते ।

करोनाग्रस्तव्यक्तेः प्राथमिकलक्षणानि[सम्पादयतु]

  • ज्वरः
  • अवसादः / विषण्णता
  • शुष्क-कासः
  • वमनम्
  • श्वासकष्टम्
  • कण्ठवेदना
  • अङ्गवैकल्यम्
  • शिरोवेदना
  • उदरवेदना

कोरोनानामोत्पत्तिः[सम्पादयतु]

लातीनीभाषायां "कोरोना" इत्यस्य शब्दस्य अर्थः "किरीटः" इति भवति । अस्य विषाणोः परिधौ विद्यमानाः कण्टकाः किरीटवत् दृश्यन्ते । तस्मादेव अस्य नाम "कोरोना" (किरीटाकारः) इति दत्तम् ।

इतिहासः[सम्पादयतु]

कोरोनाविषाणोः प्रकोपस्य आरम्भः‌ चीनादेशस्य‌ वुहाननगरतः २०१९ ख्रिस्ताब्दस्य दिसम्बरमासे अभवत् । तत्र अज्ञातकारणात् केषुचित् जनेषु निमोनियारोगः (छर्द्यतीसारज्वररोगाणां समूहः) जातः । ते जनाः अधिकांशाः हुआन् सीफुड (सामुद्रिकजन्तूनां मांसापणः) इत्यत्र मत्स्यविक्रयणं कुर्वन्ति स्म । तथैव ते जीवितप्राणिनां मांसव्यापारं कुर्वन्ति स्म । चीनावैज्ञानिकाः कोरोनासमूहस्य नूतनजातेः लक्षणं विज्ञाय अस्य २०१९-nCoV इति प्रारम्भिकं नाम दत्तवन्तः । अयं विषाणुः अपि जन्तुभ्यः प्रसृतः । प्रारम्भे अधिकांशाः जनाः ये चीनदेशस्य‌ नगरे‌ स्थिते हुआन सामुद्रापणे समुद्रप्राणिनां मांसक्रयणार्थम् अथवा जीवित-मृतानाम् अन्यप्राणिनां विक्रयण-क्रयणार्थम् आगच्छन्ति स्म, ते अनेन विषाणुना सङ्क्रमिताः‌ आसन्। अधुना तु अयं विषाणुः जनात् जनं‌ प्रति सङ्क्रामन् वैश्विकमहामार्याः कारणं सञ्जातः वर्तते ।

कोरोना-प्रादुर्भावः (२०१९- २०२०)[सम्पादयतु]

चीनादेशस्य वूहाननगरे २०१९ ख्रिस्ताब्दे उत्पन्नः वैश्विकमरकोत्पादकः च नोवेल् कोरोनाविषाणुः अपि एतादृशानां विषाणूनां समूहः अस्ति । यस्य सङ्क्रमणं २०१९-२०२० वर्षे वैश्विकमहामारीरूपेण जायमानम् अस्ति । विश्वस्वास्थ्यसङ्घटनेन अस्य‌ विषाणुसमूहस्य नाम COVID-19 (कोविद्-१९) दत्तम् । अस्मिन् नूतने कोरोनाख्ये विषाणौ प्रायः सप्ततिप्रतिशतं (७०%) तादृशानि जीनोमतत्वानि विद्यन्ते यानि सार्सकोरोनाविषाणौ भवन्ति । सङ्क्रमणस्य निदानार्थं विशिष्टनैदानिक परीक्षणविधेः विकासेन अयं ज्ञातः यत् - येषां सम्पर्कः साक्षात् वाणिज्यिकक्षेत्रेण सह आसीत् ते सङ्क्रमिताः‌‌ आसन्, तथैव केचन तादृशाः अपि दृष्टाः ये वाणिज्यक्षेत्रेण सह साक्षात् सम्पृक्ताः नासन् तथापि ते अनेन सङ्क्रमिताः आसन् । अधुना पर्यन्तम् अयं स्पष्टः न जातः यत् अयं विषाणुः सार्सकोरोना इव घातकः अस्ति वेति । तथापि अयं विश्वे पूर्णतया व्याप्तः जातः । मुख्यतया चीन-इटली-ब्रिटेन-पाकिस्तान-भारतादिषु देशेषु अस्य दुष्प्रभावः दृश्यते ।

भारतदेशे 🇮🇳 अधुनापर्यन्तं ५१२जनाः कोरोनाविषाणुना सङ्क्रमिताः सन्ति, तेषु ४७१ जनाः भारतीयमूलतः तथा ४१ जनाः वैदेशिकाः सन्ति । आहत्य नव जनाः अनेन मृताः जाताः ।

"https://sa.wikipedia.org/w/index.php?title=कोरोना-विषाणुः&oldid=451766" इत्यस्माद् पुनः प्राप्तिः