क्रिकेट्क्रीडानियमाः
क्रिकेट्क्रीडानियमेषु ( ( शृणु) /ˈkrɪkɛtkriːdɑːnɪjəmɑːhɑː/) (हिन्दी: क्रिकेट के नियम, आङ्ग्ल: Rules of Cricket) क्रीडकसंख्या दलव्यवस्था च भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णीतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । कन्दुकक्षेपणरेखातः कन्दुकक्षेपकः ‘गेन्दबाज’ (Bowler) तथा कन्दुकक्षेपणकार्यं ‘गेंदबाजी’ (Bowling) इति कथयते । विकेटस्य रक्षणाय स्थितौ कन्दुकताडकौ काष्ठपट्टिकाधरौ ‘बल्लेबाज’ तयोः क्रियां ‘बल्लेबाजी’ति गदन्ति । अन्ये क्रीडकाः क्षेत्ररक्षका: (फील्डर) भवन्ति ।
वस्त्रोपवस्त्रे -प्रत्येकं क्रीडार्थी ग्रीष्मतौ श्वेतपादयामं कञ्चुकं च शीतकाले विशिष्य मणिबन्धान्तमूर्णाकञ्चुकं (स्वटेर)पत्रयोजनं भवति । हस्तप्रच्छादने द्विविधे भवतः । प्रथमे करतलम् आच्छादितं भवति द्वितीये च केवलम् अङ्गुल्योङ्गुष्ठश्च आच्छादिता भवन्ति । पादप्रच्छादने गुल्फपर्यन्तं तूलपूरिते मध्ये च स्वल्पाः काष्ठपत्रिकाः भवन्ति । जानुपर्यन्तम् अनयोः प्रलम्बताऽऽघातवारणाय उचिता मन्यते ।
क्रीडारम्भः
[सम्पादयतु]पूर्वं द्वावपि दलनायकौ क्रीडाङ्गणम् आगत्य मुद्रोत्क्षेपणं कुरुतः यत् कस्य दलं प्रथमं क्रीडिष्यतीति ? टास्-विजेतुः दलनेतुः अयम् अधिकारः भवति यत् सः स्वयं क्रीडेत् अथवा विपक्षदलं पूर्वं क्रीडयेत् । निर्णयानन्तरं क्रीडकदलस्य द्वौ ताडकौ क्षेत्रम् आगत्य यष्टित्रय्या निकटम् उपतिष्ठतः । द्वितीयं दलं च तौ क्रमशः क्रीडयतः । यष्टिरक्षकः (विकेट् कीपर) यष्टित्रय्याः पृष्ठे स्थित्वा कन्दुकम् अवरुणद्धि । अन्ये नव क्षेत्ररक्षकाः क्रीडाङ्गणं परितः कन्दुकम् अवरोद्धुं तथा धावन(रन्)संख्यावृद्धेः अवरोधाय तिष्ठन्ति । सर्वम् असत्यम् अस्ति ।
बहिर्गतत्वम्
[सम्पादयतु]यदि क्रीडयितृदलस्य कन्दुकक्षेपकः (गदबाज) कन्दुकं यष्टित्रय्या सङ्घट्ट्य काष्ठखण्डं पातयति तदा ताडकः बहिर्गतत्वं भजते । यदि ताडकः कन्दुकताडनसमये तम् उच्चैः उच्छालयेत् तथा विपक्षी क्षेत्रारक्षकः तं निगृह्णीयात् तदा स बहिर्गतः भवति । यदि ताडकस्य पादो दक्षयष्टेः समक्षं भवेदथ च क्षेपकेन क्षिप्तः कन्दुकः तस्य वामं पादं स्पृशति तदापि स निर्गतः मन्यते । इयं स्थितिः पदबाधा (‘लैग बिफोर् विकेट्’ LBW) इति कथ्यते । ताडकः कन्दुकं वेगेन सन्ताडय स्वसमक्षस्थ-यष्टित्रय्या निकटे निशिचतायां रेखायां गच्छति तथा समक्षस्थः अन्यः ताडकः तस्य स्थाने निश्चितरेखायाम् आगच्छति तदा एकं धावनं (रन्)भवति । अनयोः एकोऽपि ताडकः रेखायां नोपयाति तथा विपक्षदलस्य कोऽपि क्षेत्ररक्षकः कन्दुकं यष्टिरक्षकस्य निकटे प्रक्षिपदेथ च स हस्ते कन्दुकं नीत्वा काष्ठखण्डं पातेयेत् तदा समक्षस्थस्ताडकः बहिर्गतो भवति । एवमेव अन्येषां विधीनां पालनाभावेऽपि बहिर्गतत्वं क्रियते ।
कन्दुकक्रीडनम्
[सम्पादयतु]अस्यां क्रीडायां कन्दुको नानाविधिभिः क्रीडयते तस्य च नामान्यपि विभिन्नानि सन्ति । कन्दुकताडकस्य ताडनप्रक्रियायाः मुख्यतः अष्टौ प्रकारा मन्यन्ते । यथा -(१) स्ट्रोक्, (२) ड्राइव्, (३) स्क्वेयर् कट्, (४) डाउन दि गली (५)बैक-कट् अथवा लेट- कट्, (६) लैग -ग्लांस, (७) हुक्स्ट्रोक् तथा (८) पुल् शाट् ।
- (१) स्ट्रोक्- शब्दस्यार्थो मन्दताडनं विद्यते । केवलं बहिर्गतत्वाय यत् क्रीडयते तत् ‘स्ट्रोक-प्ले’ इति कथ्यते । अस्य (१) अग्रप्रतिरक्षितक्रीडा (फारवर्ड् डिफेन्सिव् प्ले) तथा (२) पार्श्वप्रतिरक्षितक्रीडा (बैकवर्ड् डिफेन्सिव् प्ले ) नामभ्यां द्वौ प्रकारौ स्तः ।
- (२) ड्राइव् शब्दस्य तात्पर्यं कन्दुकस्याग्रे चालनं वर्तते । अस्य (१) आनड्राइव्, (२) स्ट्रेट् ड्राइव्, (३) आफ् ड्राइव् तथा (४) कवर् ड्राइव्-नामकाः चत्वारः प्रकारा भवन्ति येषु कन्दुकताडनं समानमेव क्रियते; परमन्तरमिदमेव भवति यत् ताडनं कस्यां दिशि क्रियत इति । अनेन विधिना सुदृढताडने सति यदा कन्दुकः क्षेत्रं परितः कृष्टां रेखामुल्लङ्घयति तदैकं चतुष्कं (चोका) भवति । निर्णायक-निर्धारितसीमोल्लङ्घनेन षट्कं (छक्का) भवति । कदा कस्य विधेः प्रयोगः कर्तव्य इति विषये ताडकस्यैव निर्णयः प्रमाणम् ।
- (३) कन्दुकः ताडनयष्टेर्दक्षभागे स्वल्पताडनेन प्रेष्यते तत् ‘स्कवेयर् कट्’ इति कथ्यते । (४-८) इत्थमेव वाम -दक्ष-मध्यवीथि-प्रभृतयः ताडनविधयः अन्यासु ताडनप्रक्रियासु अन्तर्भवन्ति ।
अस्य सविधे प्रत्येकं कन्दुकः आयाति । स च सर्वदैव तं निगृहीतुं यतते । ताडकस्य अग्रे गमनात् परं योऽपि लाभो, प्राप्तुं शक्यते तं गृह्णाति । यष्टित्रयरक्षकस्य इमानि पञ्च ध्यातव्यानि सन्ति
- (१) तीव्रकन्दुकावसरे यष्टित्रय्या रक्षणम् ।
- (२) मन्दकन्दुकावस्थायां निकटे स्थितिः ।
- (३) कन्दुकग्रहणे सदैव तत्परत्वम् ।
- (४) तस्य ध्यानं नेत्रे च कन्दुके एव भवेत् ।
- (५) कन्दुकेन यष्टित्रयमुत्खायैकं क्रीडकं धावनबहिर्गतं विधातुं प्रयतेत ।
क्रीकेटक्रीडाया द्वे अपि दले द्वयोर्द्वयोः चक्रयोः क्रीडतः । प्रथमचक्रस्य आरम्भो मुद्रोत्क्षेपणेन भवति । चक्रनिर्धारणेन समयनिर्घारणेन वाऽपि क्रीडितुं शक्यते । दलनायकः क्रीडाचक्रघोषणे अधिकरोति । एकं दलं प्रथमे चक्रे द्वितीयदलात् १५० अथवा २०० धावनानि न्यूनानि कृत्वा बहिर्धावति तदा द्वितीयदलस्य नेता तद् दलं तदैव द्वितीयचक्रं क्रीडितुं कथयति तदेव ‘फालो आन्’ इति कथयते ।
निर्धारितक्रीडनसंख्यापूर्तिः (ओवर्)
[सम्पादयतु]एकस्मिन् समये षड्वारं कन्दुकक्षेपणं ‘ओवर्’ इति कथ्यते । इदं क्षेपणम् उभयतो भवति । एकक्रमे षड्वारं कन्दुकक्षेपणेन एका पूर्तिर्भवति । एकस्यां पूर्तावेक एव क्रीडकः कन्दुकं क्षिपति । यस्यां पूतौ किमपि धावनं न भवति तदा ‘मैडन् ओवर्’ नाम्ना सम्बोध्यते ।
- क्षेत्रव्यूहरचना
क्षेत्ररक्षणाय क्षेत्ररक्षका मुख्यत्वेन भिन्न-भिन्नेषु स्थानेषु स्थित्वा क्षेत्रं रक्षन्ति । तदर्थं तेषां स्थाननाम् निर्धारणम् इत्थं विद्यते -
- (१) सिलीमिड आन्
- (२) मिडविकेट्
- (३) मिड-आन्
- (४) लांग-आन्
- (५) स्क्वेयर लैग्
- (६) लैग-स्लिप्
- (७) डीप स्क्वैयर-लैग्
- (८) शार्ट्-लैग्
- (९) लांग -लैग्
- (१०) थर्ड मैन्
- (११) स्लिप्
- (१२) गली पाइण्ट्
- (१३) सिली पाइण्ट्
- (१४) सिली मिड् प्राफ्
- (१५) कवर् पाइण्ट्
- (१६) एक्स्ट्रा कवर्
- (१७) डीप एकस्ट्रा कवर्
- (१८) मिड प्राफ्
- (१९) लांग आफ्
- (२०) विकेट कीपर्
कन्दुकताडकस्य वामभागशालिनीं पुरोवर्तिनीं यष्टित्रयीं प्रति ‘आन् साइड’ भवति तस्य दक्षभागशालिनीं पुरोवर्तिनीं यष्टिं प्रति च ‘आफ् साइड्’ भवति । क्षेत्ररक्षका नायकस्यादेशानुसारं स्वस्वस्थानेषु तिष्ठन्ति ।