क्रिकेट्क्रीडानियमाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

क्रिकेट्क्रीडानियमेषु ( /ˈkrɪkɛtkrdɑːnɪjəmɑːhɑː/) (हिन्दी: क्रिकेट के नियम, आङ्ग्ल: Rules of Cricket) क्रीडकसंख्या दलव्यवस्था च भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णीतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । कन्दुकक्षेपणरेखातः कन्दुकक्षेपकः ‘गेन्दबाज’ (Bowler) तथा कन्दुकक्षेपणकार्यं ‘गेंदबाजी’ (Bowling) इति कथयते । विकेटस्य रक्षणाय स्थितौ कन्दुकताडकौ काष्ठपट्टिकाधरौ ‘बल्लेबाज’ तयोः क्रियां ‘बल्लेबाजी’ति गदन्ति । अन्ये क्रीडकाः क्षेत्ररक्षका: (फील्डर) भवन्ति ।

वस्त्रोपवस्त्रे -प्रत्येकं क्रीडार्थी ग्रीष्मतौ श्वेतपादयामं कञ्चुकं च शीतकाले विशिष्य मणिबन्धान्तमूर्णाकञ्चुकं (स्वटेर)पत्रयोजनं भवति । हस्तप्रच्छादने द्विविधे भवतः । प्रथमे करतलम् आच्छादितं भवति द्वितीये च केवलम् अङ्गुल्योङ्गुष्ठश्च आच्छादिता भवन्ति । पादप्रच्छादने गुल्फपर्यन्तं तूलपूरिते मध्ये च स्वल्पाः काष्ठपत्रिकाः भवन्ति । जानुपर्यन्तम् अनयोः प्रलम्बताऽऽघातवारणाय उचिता मन्यते ।

क्रीडारम्भः[सम्पादयतु]

पूर्वं द्वावपि दलनायकौ क्रीडाङ्गणम् आगत्य मुद्रोत्क्षेपणं कुरुतः यत् कस्य दलं प्रथमं क्रीडिष्यतीति ? टास्-विजेतुः दलनेतुः अयम् अधिकारः भवति यत् सः स्वयं क्रीडेत् अथवा विपक्षदलं पूर्वं क्रीडयेत् । निर्णयानन्तरं क्रीडकदलस्य द्वौ ताडकौ क्षेत्रम् आगत्य यष्टित्रय्या निकटम् उपतिष्ठतः । द्वितीयं दलं च तौ क्रमशः क्रीडयतः । यष्टिरक्षकः (विकेट् कीपर) यष्टित्रय्याः पृष्ठे स्थित्वा कन्दुकम् अवरुणद्धि । अन्ये नव क्षेत्ररक्षकाः क्रीडाङ्गणं परितः कन्दुकम् अवरोद्धुं तथा धावन(रन्)संख्यावृद्धेः अवरोधाय तिष्ठन्ति । सर्वम् असत्यम् अस्ति ।

बहिर्गतत्वम्[सम्पादयतु]

यदि क्रीडयितृदलस्य कन्दुकक्षेपकः (गदबाज) कन्दुकं यष्टित्रय्या सङ्घट्ट्य काष्ठखण्डं पातयति तदा ताडकः बहिर्गतत्वं भजते । यदि ताडकः कन्दुकताडनसमये तम् उच्चैः उच्छालयेत् तथा विपक्षी क्षेत्रारक्षकः तं निगृह्णीयात् तदा स बहिर्गतः भवति । यदि ताडकस्य पादो दक्षयष्टेः समक्षं भवेदथ च क्षेपकेन क्षिप्तः कन्दुकः तस्य वामं पादं स्पृशति तदापि स निर्गतः मन्यते । इयं स्थितिः पदबाधा (‘लैग बिफोर् विकेट्’ LBW) इति कथ्यते । ताडकः कन्दुकं वेगेन सन्ताडय स्वसमक्षस्थ-यष्टित्रय्या निकटे निशिचतायां रेखायां गच्छति तथा समक्षस्थः अन्यः ताडकः तस्य स्थाने निश्चितरेखायाम् आगच्छति तदा एकं धावनं (रन्)भवति । अनयोः एकोऽपि ताडकः रेखायां नोपयाति तथा विपक्षदलस्य कोऽपि क्षेत्ररक्षकः कन्दुकं यष्टिरक्षकस्य निकटे प्रक्षिपदेथ च स हस्ते कन्दुकं नीत्वा काष्ठखण्डं पातेयेत् तदा समक्षस्थस्ताडकः बहिर्गतो भवति । एवमेव अन्येषां विधीनां पालनाभावेऽपि बहिर्गतत्वं क्रियते ।

कन्दुकक्रीडनम्[सम्पादयतु]

अस्यां क्रीडायां कन्दुको नानाविधिभिः क्रीडयते तस्य च नामान्यपि विभिन्नानि सन्ति । कन्दुकताडकस्य ताडनप्रक्रियायाः मुख्यतः अष्टौ प्रकारा मन्यन्ते । यथा -(१) स्ट्रोक्, (२) ड्राइव्, (३) स्क्वेयर् कट्, (४) डाउन दि गली (५)बैक-कट् अथवा लेट- कट्, (६) लैग -ग्लांस, (७) हुक्स्ट्रोक् तथा (८) पुल् शाट्

(१) स्ट्रोक्- शब्दस्यार्थो मन्दताडनं विद्यते । केवलं बहिर्गतत्वाय यत् क्रीडयते तत् ‘स्ट्रोक-प्ले’ इति कथ्यते । अस्य (१) अग्रप्रतिरक्षितक्रीडा (फारवर्ड् डिफेन्सिव् प्ले) तथा (२) पार्श्वप्रतिरक्षितक्रीडा (बैकवर्ड् डिफेन्सिव् प्ले ) नामभ्यां द्वौ प्रकारौ स्तः ।
(२) ड्राइव् शब्दस्य तात्पर्यं कन्दुकस्याग्रे चालनं वर्तते । अस्य (१) आनड्राइव्, (२) स्ट्रेट् ड्राइव्, (३) आफ् ड्राइव् तथा (४) कवर् ड्राइव्-नामकाः चत्वारः प्रकारा भवन्ति येषु कन्दुकताडनं समानमेव क्रियते; परमन्तरमिदमेव भवति यत् ताडनं कस्यां दिशि क्रियत इति । अनेन विधिना सुदृढताडने सति यदा कन्दुकः क्षेत्रं परितः कृष्टां रेखामुल्लङ्घयति तदैकं चतुष्कं (चोका) भवति । निर्णायक-निर्धारितसीमोल्लङ्घनेन षट्कं (छक्का) भवति । कदा कस्य विधेः प्रयोगः कर्तव्य इति विषये ताडकस्यैव निर्णयः प्रमाणम् ।
(३) कन्दुकः ताडनयष्टेर्दक्षभागे स्वल्पताडनेन प्रेष्यते तत् ‘स्कवेयर् कट्’ इति कथ्यते । (४-८) इत्थमेव वाम -दक्ष-मध्यवीथि-प्रभृतयः ताडनविधयः अन्यासु ताडनप्रक्रियासु अन्तर्भवन्ति ।

विकेट्-रक्षकः[सम्पादयतु]

Cricket wicket keeper.jpg

अस्य सविधे प्रत्येकं कन्दुकः आयाति । स च सर्वदैव तं निगृहीतुं यतते । ताडकस्य अग्रे गमनात् परं योऽपि लाभो, प्राप्तुं शक्यते तं गृह्णाति । यष्टित्रयरक्षकस्य इमानि पञ्च ध्यातव्यानि सन्ति

(१) तीव्रकन्दुकावसरे यष्टित्रय्या रक्षणम् ।
(२) मन्दकन्दुकावस्थायां निकटे स्थितिः ।
(३) कन्दुकग्रहणे सदैव तत्परत्वम् ।
(४) तस्य ध्यानं नेत्रे च कन्दुके एव भवेत् ।
(५) कन्दुकेन यष्टित्रयमुत्खायैकं क्रीडकं धावनबहिर्गतं विधातुं प्रयतेत ।
कन्दुकः

क्रीडाचक्रम्[सम्पादयतु]

क्रीकेटक्रीडाया द्वे अपि दले द्वयोर्द्वयोः चक्रयोः क्रीडतः । प्रथमचक्रस्य आरम्भो मुद्रोत्क्षेपणेन भवति । चक्रनिर्धारणेन समयनिर्घारणेन वाऽपि क्रीडितुं शक्यते । दलनायकः क्रीडाचक्रघोषणे अधिकरोति । एकं दलं प्रथमे चक्रे द्वितीयदलात् १५० अथवा २०० धावनानि न्यूनानि कृत्वा बहिर्धावति तदा द्वितीयदलस्य नेता तद् दलं तदैव द्वितीयचक्रं क्रीडितुं कथयति तदेव ‘फालो आन्’ इति कथयते ।

निर्धारितक्रीडनसंख्यापूर्तिः (ओवर्)[सम्पादयतु]

एकस्मिन् समये षड्वारं कन्दुकक्षेपणं ‘ओवर्’ इति कथ्यते । इदं क्षेपणम् उभयतो भवति । एकक्रमे षड्वारं कन्दुकक्षेपणेन एका पूर्तिर्भवति । एकस्यां पूर्तावेक एव क्रीडकः कन्दुकं क्षिपति । यस्यां पूतौ किमपि धावनं न भवति तदा ‘मैडन् ओवर्’ नाम्ना सम्बोध्यते ।

Cricketfieldmswd.png
क्षेत्रव्यूहरचना

क्षेत्ररक्षणाय क्षेत्ररक्षका मुख्यत्वेन भिन्न-भिन्नेषु स्थानेषु स्थित्वा क्षेत्रं रक्षन्ति । तदर्थं तेषां स्थाननाम् निर्धारणम् इत्थं विद्यते -

Cricketposnsmswd.png
(१) सिलीमिड आन्
(२) मिडविकेट्
(३) मिड-आन्
(४) लांग-आन्
(५) स्क्वेयर लैग्
(६) लैग-स्लिप्
(७) डीप स्क्वैयर-लैग्
(८) शार्ट्-लैग्
(९) लांग -लैग्
(१०) थर्ड मैन्
(११) स्लिप्
(१२) गली पाइण्ट्
(१३) सिली पाइण्ट्
(१४) सिली मिड् प्राफ्
(१५) कवर् पाइण्ट्
(१६) एक्स्ट्रा कवर्
(१७) डीप एकस्ट्रा कवर्
(१८) मिड प्राफ्
(१९) लांग आफ्
(२०) विकेट कीपर्

कन्दुकताडकस्य वामभागशालिनीं पुरोवर्तिनीं यष्टित्रयीं प्रति ‘आन् साइड’ भवति तस्य दक्षभागशालिनीं पुरोवर्तिनीं यष्टिं प्रति च ‘आफ् साइड्’ भवति । क्षेत्ररक्षका नायकस्यादेशानुसारं स्वस्वस्थानेषु तिष्ठन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]