क्रियायोगः
क्रियायोगः प्राचीनयोगपद्धतिः या च महावतार बाबाजीवर्येण स्वशिष्यस्य लाहिरि महाशयस्य द्वारा अस्मिन् आधुनिके युगे १८६१तमे वर्षे पुनः परिचायितम् । परमहंस योगानन्दवर्येण लिखितस्य योगिनः आत्मकथाद्वारा पाश्चात्यजगति विषयेस्मिन् बोधः जातः । [१] भारते अस्य अभ्यासः १९१७ तमात् वर्षात्, पाश्चात्यदेशे १९२० तमात् वर्षात् प्रचलति । [२]
महर्षिणा पतञ्जलिना लिखिते प्राचीनयोगग्रन्थे पतञ्जलियोगसूत्रे क्रियायोगस्य उल्लेखः द्वितीयाध्याये भवति । [३] आधुनिकग्रन्थकर्त्रा परमहंस योगानन्देन लिख्यते यत् - पतञ्जलिः द्वीतीयाध्याये ४९ तमे सूत्रे प्राणायामविषये एवं लिखति - तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः इदं सूत्रं क्रियायोगसम्बद्धम् । श्वासप्रतिश्वासयोः गतेः विच्छेदनेन प्राणायामः साधनीयः इति । [४]
क्रियायोगे प्राणायामस्य विविधाः स्तराः विद्यन्ते येषां सुष्ठु अभ्यासेन आध्यात्मिकप्रगतेः वेगः वर्धयितुं शक्यः । [१] अपि च समचित्ततां सम्पाद्य दैवेन सह संवहनं साधियितुमपि शक्यम् ।.[४] इदम् आधुनिकं विवरणं पतञ्जलिनः विवरणात् किञ्चिदिव भिन्नं वर्तते । योगानन्देन उच्यते यत् इदं क्रियायोगज्ञानं स्वगुरुः युक्तेश्वरः स्वगुरोः लाहिरि महाशयात्, स च स्वगुरोः महावतार बाबाजीतः प्राप्तवानिति । अयं क्रियायोगः पतञ्जलिना उक्तस्य राजयोगस्य साम्यं भजति । अपि च इयं परिकल्पना भगवद्गीतायाम् उल्लिखिता वर्तते इति । [४]
अभ्यासः
[सम्पादयतु]लाहिरि महाशयेन बोधितः क्रियायोगः गुरु-शिष्यपरम्परया एव अनुवर्तते । क्रियादीक्षा इत्येषः संस्कारः रहस्येनैव बोध्यते । [५][१] तेन उच्यते यत् गुरुः बाबाजी क्रियायोगदीक्षावसरे प्राचीननियमानुगुणमेव बोधयन् अग्रे अपि इदं गुरुशिष्यपरम्पराद्वारा एव अनुवर्तनीया इति । [६]
क्रियायोगविषये योगानन्दः एवं वदति - क्रियायोगी स्वस्य जीवशक्तिम् ऊर्ध्वाधोमुखे षट्-चक्राणां द्वारा प्रवाहयति । एतानि चक्राणि द्वादश राशीनां द्योतकानि । अर्धनिमेषाणां प्राणशक्तेः कशेरुकं परितः सञ्चालनेन सूक्ष्मातिसूक्ष्मप्रगतिः साधयितुं शक्या । अर्धनिमेषात्मकेन क्रियाभ्यासेन वर्षात्मकी सहजाध्यात्मिकप्रगतिः साधयितुं शक्या इति । [४]
स्वामिना सत्यानन्देन क्रियोल्लेखसूक्तिषु एवं लिख्यते - क्रियासाधनमित्येतत् आत्मनि स्थितेः अभ्यासः इति वक्तुं शक्यमिति । [७]
इतिहासः
[सम्पादयतु]भगवद्गीतायाः व्याख्यानावसरे योगानन्दः लिखति यत् क्रियायोगविज्ञानम् आदौ मनवे दत्तं ततः जनकाय अन्येभ्यः ऋषिभ्यः च । [८] According to Yogananda, Kriya Yoga was well known in ancient India, but was eventually lost, due to "priestly secrecy and man’s indifference".[४] योगानन्दः वदति - कृष्णः भगवद्गीतायाम् अस्य उल्लेखम् अकरोदिति ।
उच्छ्वास-निःश्वासयोः समत्वसाधनेन साधकः जीवशक्तिं हृदि संस्थाप्य निग्रहं साधयति । [९]
योगानन्दः इदमपि वदति यत् भगवता कृष्णेन - 'पूर्वजन्मसु मया अयं योगः वैवस्वताय दत्तः, ततः मनवे दत्तः, ततः सूर्यवंशस्य राज्ञा इक्ष्वाकुना प्राप्तः इति । [४] कृष्णेन एतदपि उच्यते - श्वासोच्छ्वसयोः गतेः विच्छेदनेन प्राणायामद्वारा मुक्तिः साधयितुं शक्या इति । [४] युक्तेश्वरगिरेः शिष्येण शैलेन्द्र दासगुप्तेन (१९८४) उल्लिख्यते यत् - 'क्रियायां विद्यमानानि सोपानानि भगवद्गीतातः, योगसूत्रेभ्यः, तन्त्रशास्त्राच्च, युगपरिकल्पनातः च संयोजितमस्ति' इति । [५]
सद्यःकालीनः इतिहासः
[सम्पादयतु]१८६१ तमे वर्षे योगिना महावतार बाबाजीवर्येण प्रदत्तायाः लाहिरि महाशयस्य क्रियायोगदीक्षायाः कथा 'योगिनः आत्मकथा'ग्रन्थे उल्लिखिता वर्तते । [१०] योगानन्दः लिखति - लाहिरि महाशयम् उद्दिश्य बाबाजीवर्येण एवमुक्तम् - अस्मिन् नवदशे शतके जगतः कृते क्रियायोगः यः मया दीयमानः अस्ति अयं युगेभ्यः पूर्वं कृष्णेन अर्जुनाय दत्तं विज्ञानमेव । इदं ज्ञानम् अग्रे पतञ्जलिना, क्रिस्तेन, सैण्ट् जान्, सैण्ट् पाल् इत्यादिभिः शिष्यैः च प्राप्तमासीत् । योगानन्दः एतदपि वदति यत् बाबाजी क्रिस्तः च सततसम्पर्के एव आस्ताम्, अस्मिन् युगे मुक्तेः प्राप्त्यर्थम् आध्यात्मिकसाधनायाः योजनाम् अकुरुतामिति । [१][६]
लाहिरि महाशयेन द्वारा भारते क्रियायोगस्य प्रचारः व्यापकतया जातः । तस्य शिष्यस्य युक्तेश्वरगिरेः शिष्यः योगानन्दः एव २० तमे शतके पाश्चात्यदेशेषु अपि अस्य परिचयम् अकारयत् ।[४]
लाहिरि महाशयस्य पुत्रौ दुकौरि लाहिरि, तिन्कौरि लाहिरि, श्री युक्तेश्वर गिरि, पञ्चानन भट्टाचार्य, प्रणबानन्द, केबालानन्द, केशवानन्द, भूपेन्द्रनाथ सन्याल् इत्यादयः अस्य प्रकारे अग्रेसराः विद्यन्ते । [११]
आकारावली
[सम्पादयतु]- ↑ १.० १.१ १.२ १.३ Miller, Timothy (1995). America's Alternative Religions. SUNY Press. p. 178/183. ISBN 0791423972.
- ↑ "The Kriya Yoga Path of Meditation". http://www.yogananda-srf.org.
- ↑ Patanjali, Translator, Chip Hartranft(2003). The Yoga-Sutra of Patanjali: A New Translation with Commentary (Shambhala Classics) ISBN 1-59030-023-8
- ↑ ४.० ४.१ ४.२ ४.३ ४.४ ४.५ ४.६ ४.७ Yogananda, Paramahansa (1997). Autobiography of a Yogi- Chapter 26 - The Science of Kriya Yoga. Self-Realization Fellowship. ISBN 0876120869.
- ↑ ५.० ५.१ Dasgupta, Sailendra Bejoy (2011). Kriya Yoga, its dissemination, and the Mahamuni Babaji Maharaj - Chapter 5 & 8. Yoga Niketan.[नष्टसम्पर्कः]
- ↑ ६.० ६.१ Yogananda, Paramahansa (1997). Autobiography of a Yogi- Chapter 33 - Babaji, Yogi-Christ of Modern India. Self-Realization Fellowship. ISBN 0876120869.
- ↑ Satyananda, Swami (2006). A Collection of Biographies of 4 Kriya Yoga Gurus by Swami Satyananda Giri - Kriya Quotes from Swami Satyananda Giri (translated by Yogi Niketan). iUniverse. ISBN 978-0595386758.
- ↑ Paramahansa Yogananda (1995). God Talks with Arjuna: The Bhagavad Gita (Chapter V), First Edition. Self-Realization Fellowship (Founded by Yogananda). ISBN 0-87612-030-3.
- ↑ Bhagavad Gita IV:29
- ↑ Yogananda, Paramahansa (1997). Autobiography of a Yogi- Chapter 34 - Materializing a Palace in the Himalayas. Self-Realization Fellowship. ISBN 0876120869.
- ↑ Yogananda, Paramahansa (1997). Autobiography of a Yogi- Chapters 3, 32, 33, 36. Self-Realization Fellowship. ISBN 0876120869.