क्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रीडा
क्रीडा
क्रीडा
या देवी सर्वभूतेषु क्रीडारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

आप्यायन्तु ममाङ्गानि[सम्पादयतु]

भगवतः भुवन-भास्करस्य भास्वतां रश्मीनाम् अरूणारुणं प्रकाशं प्राप्य पुरा प्रत्यहं प्रातः परमया निष्ठया मन्त्रद्रष्टारः महर्षयः प्रार्थयन्ते स्म- आप्यायन्तु ममाङ्गानि वाक् प्राणं चक्षुः श्रोत्रमथो बलम् इन्द्रियाणि च सर्वाणि । इति । श्रुतिषु समुपदिष्टं सर्वप्राणिसुखावहं वचोऽमृतमिदं प्रतिमानवं बोधयति यद् – नायमात्मा बलहीनेन लभ्यः तस्मात् बलमुपासस्व । सांसारिक-समग्र-सौविध्य-सौलभ्याय दुर्बलः क्षीणोत्साहः स्वान्त-प्रसत्ति-विरहितः मानवः क्षितौ किमपि कर्तुं साधयितुं च न क्षमते । यतो हि –

यस्य नास्ति सदुत्साहो नास्ति शारीरकं बलम् ।
नवा नवा च न स्फूर्तिस्तस्य जन्म निरर्थकम् ॥२॥

अतः एव जन्मनः नैरर्थ्यनिरासाय स्वात्मशक्तीनां विकासाय च मानवेन सजोषं बलप्राप्तिप्रयासाः सर्वथा समादर्तव्याः भवन्ति । यथा शरीरे बलमापाद्येत, नीरोगता पराक्रियेत, स्फूर्तिः उत्साहः च चिरं विराजेतां तदर्थं सर्वतः सरलाः उपायाः सङ्ख्यावद्भिः गवेषिताः ते हि सन्ति ’क्रीडा-विनोद-व्यायामादयः’ । यद्यपि शारीरस्वास्थ्यसिद्धये रोगाणां निवृत्तये च विद्यन्ते अन्ये अपि उपायाः औषधसेवनप्रभृतयः तथापि वपुषि तेषाम् उपायानां सार्थक्यार्थम् अपि अस्ति एव आवश्यकता शरीरबलस्य । बलं नाम द्विविधम् १. आभ्यन्तरम् २. बाह्यञ्च । आभ्यन्तरेण आत्मबलेन तत्तद्बलसम्पाद्यकर्मणां सम्पादनबलं भावनाभिः पुष्टं भवति बाह्येन बलेन बलवता स्वयम् आसाद्यते च स्वेप्सितम् आसादनीयम् । अतः एव एवम् अभिलष्यते सर्वेण अपि मानवेन –

अहं स्यां बली सर्वदा सर्वदेहे, मदीये भवेत् सर्वतः स्वस्थतैव ।
बलञ्चान्तरं बाह्यगं प्राप्य कुर्यां निजं जीवनं सार्थकं कार्यसिद्ध्यै ॥३॥

मानसिक-शारीरिकोत्साह-स्फूर्तिभ्यामेव सर्वदा कर्मणां संसिद्धिः सम्भाव्यते । उत्साहसम्पन्नेन अदीर्घसूत्रेण स्वस्थशरीरेण सरलस्वभावेन धीरभावेन एव साहसः श्रीयते श्रियो वरणायेति निश्चप्रचम् । इन्द्रियाणां कर्माणि समानया गत्या सम्पद्येरन् इति सर्वस्य अपि अभीप्सितं भवति । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च पृथक् पृथक् विकासाय सर्वेषाम् अङ्गानां पुष्टिः आवश्यकी । एकस्य अपि अङ्गस्य अथवा तस्य सूक्ष्मात् सूक्ष्मतमस्य अपि अंशस्य वैकल्ये सति क्रियासिद्धिः न भवति सौकर्याय । ’हीनाङ्गं को नु शंसति ?’ इत्यस्य तात्पर्यं नास्ति वैकल्यम्, अपि तु न्यूनता वा अस्ति अभिप्रायः । अङ्गानि एव किं प्रत्यङ्गानि अपि तादृशि स्वस्थानि सुपुष्टानि न भवेयुः तर्हि तथाविधं साफल्यं नाभ्युपैति मानवः । सत्याम् एवम् अङ्गप्रत्यङ्गपूर्णतायां समुदेति सदुत्साहः परिपोषम् उपयाति परिश्रमनिष्ठा प्रथते च प्रायोगिके कर्मणि मनीषा । ’स्वस्थे चित्ते बुद्धयः संस्फुरन्ति’ इति भणित्यनुसारं बुद्धीनां संस्फुरणाय चित्तस्य स्वास्थ्यम् अत्यावश्यकं मन्यते । चित्तस्य स्वास्थ्याय मनोरञ्जनम् उपयोगि भवति । सहजेन भावेन मनोरञ्जनं विदधानाः क्रीडामपि आत्मसात् कुर्वन्ति । अतः एव ’क्रीडां’ श्लाघयन्तो विद्वांसः कथयन्ति यत् –

१. या काचन व्यक्तिः स्वातन्त्रेण स्वैच्छिकतया चानन्दोपलब्धये यत्किञ्चिदपि आचरति सा क्रीडा एव अस्ति ।
२. अतिरिक्तायाः कार्यशक्तेः प्रवृत्तिः क्रीडा कथ्यते ।
३. मानव-विकासक्रमस्य पुनरावर्तन-राद्धान्त-पोषिणी क्रीडा भवति ।
४. भाविनो जीवनस्य पूर्वपीठिका एव क्रीडायाः पर्यायः ।
५. सर्वविधा ऊर्मीः क्रीडामार्गेण अभिव्यज्य मानवः स्वस्थतां रक्षितुं क्षमते ।

एतत्कथनानुसारं मानव-प्रकृतेः स्वरूपस्य व्यक्तित्वस्य च पूर्तयेऽपि क्रीडा परमोपयोगिनी सिद्ध्यति मानवस्य मनोदशास्त्रिधा भवन्ति – १ भावनावादिनी २ भौतिकवादिनी ३ आदर्शवादिनी चेति । क्रीडानां माध्यमेन एताः तिस्रः अपि मनोदशाः समाधानं कुर्वन्ति मानवस्य । व्यक्तित्वस्य विकासाय शारीरिक्यः विशेषताः तथा मानसिक्यः शक्तयः पूर्णं साहाय्यं कुर्वन्ति क्रीडा च एतासां पूरयित्री । परं क्रीडा शरीरस्य तदङ्गप्रत्यङ्गानां च स्वस्थतां विना कथं सम्पद्येत ? इति विज्ञाय एव प्राञ्चो महर्षयः प्रार्थयन् – ’आप्यायन्तु समाङ्गानि’ इति ।

क्रीडाः समग्रस्य मानवजीवनस्य सङ्गिन्यः सन्ति । बाल्ये यौवने वार्धक्ये च क्रीडानां स्वरूपाणि परिवर्तन्ते परं प्रवृत्तयो नैव । तटस्यभावेन क्रीडानां विलासम् अवलोकयितुं वयं प्रातः प्रस्थास्यामः तदा बालाः समूहशः एकाकिनो वा क्रिडन्त एव दृक्पथातिथयो भविष्यन्ति । शीतं ग्रीष्मं वर्षा वा ते न गणयन्ति तेषां तु प्रारम्भिकः कालः क्रिडार्थमेव भवति । ये बाला न क्रीडन्ति ते रुग्णा एव मन्यन्ते ।

प्रारम्भे विद्यालयाद् बाला भीता भवन्ति स्म । तत्र पठन-बन्धनं गुरोर्दण्डश्चेतिद्वे अपि कारणे अभूताम् । परं साम्प्रतं भयमिदमपास्तम । तत्र तत्र विविधानां क्रीडानां यथाकालं प्रवर्तनात् तेषां मनांसि प्रफुल्लानि भवन्ति सोत्साहं ते क्रीडन्ति स्वास्थ्यं लभन्ते पठने चानुरज्यन्ति महाविद्यालयेषु अपि युवानो युवत्यश्च प्रत्यहं क्रीडापरायणाः प्रतीयन्ते तत्रापि क्रीडाप्रोत्साहनमेव कारणम् । प्रौढाः सायं कार्यालयेभ्यो निर्वर्त्य क्रिडन्ति दिवसश्रमं च पराकुर्वन्ति । वृद्धा रात्रेरारम्भे क्रीडन्ति समययापनाय, मनसो रञ्जनाय च । इत्थं सर्वत्र सर्वदा क्रीडा विजयते अत एव वयमपि कामयेमहि -

स्वस्थ्याय सौख्याय मनः प्रसत्त्यै, स्फूर्त्यै सुमात्यै जनरञ्जनाय ।
कीर्त्यै च मैत्री-परिवर्धनाय, क्रीडन्तु सर्वे नियमेन नीत्या ॥१॥
स्वकीय -राष्ट्रस्य यशोविवृदध्यै, स्वतन्त्रतायाः परिर्क्षणाय ।
हृष्टाश्च पुष्टाश्च सदैव सज्जा, भवन्तु सर्वे भुवि भारतीयाः ॥२॥
इयमभिनव-क्रीडा-विद्या-विधान-तरङ्गिणी
सुरगिरि कृता रुद्रेणोद्यद् -विमर्श-विलासिनी।
विविध-कलना जुष्टा पुष्टा प्रमाण-पुरस्सरं
कलयतु सतां क्रीडा-दाक्ष्यं विशिष्टम मीप्सितम् ॥३॥
‘सीता’ऽम्बा यस्य तातो गणक-गणवरः ‘श्रीरमाकान्तशर्मा’
विप्रः शाण्डिल्यगोत्रो ‘दशपुर’-भुविजो देववाग् भक्तियुक्तः ।
दाक्षायण्याः पदाब्जश्रित-वर शरणे देहलिस्थः स चैनां
क्रीडा-गङ्गा-तरङ्गञ्चित-कृतिमतनोद ‘रुद्रदेवत्रिपाठी’ ॥४॥
विश्व -विश्वस्य विश्वस्य विश्वासाय विलासिनौ ।
शिवा -शिवौ शिवं दत्तां क्रीडऽऽक्रीडनपण्डितौ ॥५॥

दाक्षम्

आस्कन्द:

क्रिकेट

बेसबाल

खेला:

जलक्रीडा

द्वन्द्वयुद्धम्

लानम्‌

फुट्बाल्-क्रीडा

अपातकन्दुक:

क्रीडाप्रवृत्तिः परम्परा च[सम्पादयतु]

विश्वस्मिन् भूमण्डले जागर्तिततिमनुभवन्तः स्फूर्ती-प्रतीतिं प्रकटायन्तः क्रीडाकौशलं दर्शयन्तश्च साम्प्रतिकाः शासकाः शिष्टाः प्राचार्याः प्राध्यापका विद्यार्थिन्यो विद्यार्थिन्यश्च नानाविधासु क्रीडासुप्रशस्ता भवन्तः सन्ति च । तत्र एषां प्रेरणाया यानि तत्त्वानि कारणानि साधनानि वा सन्ति तेषु स्पर्धासमायोजयत्रीणां संस्थानां महत्त्वपूर्णां योगदानं विद्यते । अतः कासाञ्चित् प्रतियोगितायोजिकानां संस्थानां पुरस्काराणां च परिचयोऽप्यत्र मनाक प्रस्तूयते ।

स्पर्धाः[सम्पादयतु]

भिन्न-भिन्नानां स्पर्धानां भिन्न-भिन्नानि उद्देश्यानि भवन्ति । तेषु मुख्यमुद्देश्यं -तस्यां क्रीडायां क्रीडकानां प्रोत्साहनं भवति । एतेन सहैव क्रीडकविशेषस्य सम्मानः, क्रीडाविशेषं प्रति रुचेः वर्धनं, तेन निरन्तरं विहितस्य श्रमस्यार्हणा, तदीयोदाहरणेन परेषां क्रिडकानां तां प्रति समाकर्षणं च सहायकानि उद्देश्यानि सन्ति ।

सम्मानः क्रीडक्स्य प्रगतिमति विधौ तदरुचेर्वर्धनं स्तात्
स्वास्थ्यञ्चाप्यस्तु सुस्थं प्रसरतु परितस्तस्य् कीर्तिः सदैव ।
तं दृष्टवाऽन्येऽपि तद्वन्निजनिजरुचिमत् क्रीडने सन्तु सक्ता
इत्युद्देश्यैर्जगत्यां सकलजनगणैः स्पर्धनानि क्रियन्ते ॥

इमाः स्पर्धाः चतुर्षु वर्गेषु विभक्तुं शक्यन्ते । तत्र

१ विशव्यापिकाः
२ भारतव्यापिकाः
३ स्थानीयास्तथा
४ वैयक्तिकाः । एतासां संक्षिप्तः पैरिचय इत्थं विद्यते -

विश्वव्यापिकाः स्पर्धाः[सम्पादयतु]

(१) उबेरकप्-स्पर्धा -१९५६-५७ वर्षे श्रीमत्या ‘उबेर्’ महाभागायाः स्मृतौ अमेरिकायां प्रारब्धा । सा हि बेडमिण्टान्-क्रीडने कुशला अवर्तत । इयम् -‘एशिया-यूरोप-अमेरिका-आस्ट्रेलिया’ -क्षेत्रेषु विभज्य महिलानां कृते समायोज्यते ।
(२) ‘फुटबाल् एसोसिएषन् चैलेंज् कप्' -(एफ.ए.कप्) नाम्नाऽस्याः स्पर्धायाः आरम्भकर्ता सी. डब्ल्यू अलकाक विद्यते । पादकन्दुकस्य इयं स्पर्धा १८७१ तमे वर्षे प्रारभत । यदा ('क्राइस्टल-पैलेस’ स्थलेऽस्याः स्पर्धायाः समायोजनमक्रियत तदा दर्शकानां संख्या १,२०,००० आसीत् । एतेन एव तस्या लोके प्रियत्वमनुमातुं शक्यते ।
(३) एशियाई खेल -भारतीय क्रीडाया इतिहासे १९५१ ई० वर्षस्य ४ मार्च-दिनमतीव महत्त्वपूर्णमासीद्, यदा ‘नेशनल्-स्टेडियम्’ नवदेहल्यामिद मायोज्यत । ऐशियाद्वीपवर्तिषु देशेषु मित्रता-सद्भाव -शान्तीनां स्थापनायेयं प्रति चतुर्वर्षारान्तरमायोज्यते ।
(४) ओलम्पिक-खेल- इयं प्रतियोगिता कदा कुत्र केन कथं समारब्धेति निश्चित्य वक्तुं न पार्यते, परं यूनानदेशस्य दक्षिण-पश्चिम-प्रदेशस्य ‘एलिस्’ भागे लघुतमा ‘ओलंपिया’ नागरी वर्तते । तस्या दक्षिणभागे एल्फियस (रुफिया) नद्यास्तीरे ७७६ ई० पूर्वतने काले प्रथमं प्रारभत्त्युच्यते । ‘हरक्यूलीस’ नाम्नः साङ्ग्रामिकस्य स्मृतौ, ओलम्पस-पर्वतस्येश्वरसाम्यं मत्वा तत्र प्रथममायोजनाच्च ‘ओलम्पियन्’ (देववत् पवित्र) जनानां स्मृतौ वा प्रावर्तत ।
(५) गोल्फ-स्पर्धा -इयं १-वाकर-कप, -२ राइडर-कप-३- अमेरिका-कप-४-हापकिन्स-कप’ नामभिश्चतुर्धाऽन्ताराष्ट्रियस्तरेण विभिन्नदेशेष्वायोज्यते ।
(६) टामस् कप-प्रतियोगिता -प्रतित्रिवर्षं सम्पाद्यमानेयं बैडमिण्टनस्यैशियाद्वीपे सर्वतो विशाला मन्यते । अस्यां मलयेशिया तथा इण्डोनेशिया- देशयस्य् प्राचीना प्रतिद्वन्द्विता विद्यते ।
(७) डेविस-कप्-स्पर्धा- इयं १९०० ई० वर्षे प्रवृत्ता ‘डिवट एफ०’ डेविड-द्वाराऽस्यै चलवैजयन्ती समार्प्यत- । ‘लान्-टेनिस-क्रीडा’ र्थमेषायोज्यते ।
(८) राष्ट्रकुल-प्रतियोगिता -सन् १९११ ई० वर्षे जार्जपञ्चमस्य राज्यभिषेकावसरेऽस्याः प्रारम्भोऽभूत् । १९३० ई० वर्षे विहितनिर्णयानुसारं प्रतिचतुर्थवर्षेऽस्या-आयोजनं भवति । ‘राष्ट्रमेकं कुटुम्बक’मिति भावनोत्पाद नायास्याः प्रसारो भूयान वर्तते ।
(९) वर्ल्ड्-कप-स्पर्धा -पादकन्दुक-क्रीडाया अतीव महत्त्वपूर्णेयं प्रतियोगिताऽश्ति । चतुर्षु वर्षेष्वेकवारमेषाऽऽयोज्यते ।
(१०) विश्वकप -हाकी-स्पर्धा -प्रति-तृतीय-वर्षेऽस्याः समायोजना भवति । शुभारम्भः १९७१ ई० वर्षे समभवत् ॥
(११) बिम्बलडन-स्पर्धा-लान-टेनिस -क्रीडाप्रतियोगिताया अस्या आरम्भ १८७७ वर्षेऽभूत । बिम्बलडननगरस्य नाम्नेयं प्रसिद्धा ।
(१२)स्वेदलिंगकप -स्पर्धा -इयं १९७३ ई० वर्षे प्रारभत ।

भारतव्यापिन्यः स्पर्धाः[सम्पादयतु]

(१)ईरानीकप-स्पर्धा -इयं १९५५ वर्षतः प्रारब्धास्ति ।
(२) डूरैण्ड -स्पर्धा -पादकन्दुकस्यातिप्राचीनाया अस्याः प्रति योगिताया आरम्भः १८८८ ई० वर्षेऽभवत् । सर मारटिमेर डूरैण्ड-महोदय इमामारभत । वैजयन्तीमपि ससमार्पिपत् ।
(३) दिलीप-ट्राफी -स्पर्धा -इयं १९६१ ई० वर्षादारब्धा । बेडमिण्टनक्रीडायाः स्पर्धाऽस्यामायोज्यते ।
(४) मोहनुद्दौलास्वर्णकप-स्पर्धा -क्रिकेट-स्पर्धेयं नवाब मोइनुद्दौला बहादुरेण १९२० ई० वत्सरे प्रवर्तिता । इतः पूर्वं १९२४ ई० वत्सरे बेहरामुद्दौलाप्रतियोगिताऽपि प्रचलिताऽऽसीत् ।
(५) रणजी ट्राफी-स्पर्धा -क्रिकेट- क्रीडार्थं समायोज्यमानेयं १९३४ ई० वर्षे प्रारब्धा भारतीय-क्रिकेट-क्रीडायाः कार्मणिकस्य नवाबनगरशासितुः कुमारश्रीरणजीतसिंहस्य स्मृतावियं सञ्चाल्यते ।
(६) मोहन-बागान-स्पर्धाऽपि साम्प्रतं प्रचलति ।
(७) राष्ट्रीय-हाकी-स्पर्धा-१९२८ ई० वर्षे प्रथममान्तर प्रान्तीय प्रतियोगितारुपेण प्रवृत्तेयं स्पर्धा प्रतिद्विवर्षानन्तरं भवति ।
(८) सन्तोषट्राफी-स्पर्धा-पादकन्दुक-क्रीडा-प्रतियोगितेयं २७ मार्च १९३७ वर्षे सन्तोष-महाराजस्य नाम्ना प्रतिवर्षं समायोज्यते । १९४१ तो राष्ट्रियेण स्तरेण प्रवर्तते ।

स्थानीयाः स्पर्धाः[सम्पादयतु]

देहल्यां (१) डि.सी.एम प्रतियोगिता, (२) नेहरु हाकी प्रतियोगिताऽऽदयो यथा यथा प्रवर्तन्ते तथैव स्व स्व-देशेषु नगरेषु च भूयस्यः प्रतियोगिता भवन्ति । इत्यमेव वैयक्तिकरुपेणापि स्पर्धाः नैका आयोज्यन्ते ।

पुरस्कारा वैजयन्त्यः पदकानि सम्मानाश्च[सम्पादयतु]

उपर्युक्तानां स्पर्धानामायोजका एव विजेतृभ्यो द्विविधान् पुरस्कारान् वितरन्ति १- संस्थागतो दलगतो वा, २-वैयक्तिकश्च । एतदर्थं बहुत्र पुरस्कारणां नामान्यपि निर्धारितानि सन्ति । यथा अर्जुनपुरस्कारादयः । क्वापि वैजयन्तीरुपेण कप-शील्ड्-ट्राफी कलश-वस्तुविशेषाश्छ संस्थां दलं वा विजितं कियतेचित् कालाय चलरुपेणाथवा स्थिररुपेणार्पयन्ति । क्रीडकविशेषास्य कौशलं सभाजयितुं पारितोषिकाणि पदकानि वोपह्रियन्ते तेषु नास्ति वस्तुविशेषे समाग्रहः । सम्मानाः किल राष्ट्रियाः प्रान्तीयाः सार्वजनिकाः संस्थाधिकृता वैयक्तिकाश्च भवन्ति । येषु भारतशासनेन ‘पदमभूषण-पदमश्री’- प्रभृतयः विदेशेषु क्रिकेटक्रीडकेभ्यो ‘विस्डन’ सम्मानाश्च सर्वोत्तमाः सन्ति । अत एवेयमभ्यर्थना-

राष्टेऽन्ताराष्ट्रमञ्चे कियदवधि कृतं क्रीडनं किञ्च पश्चाद्
देशे स्वीयेऽस्ति कीदृक परिणतिरथ किं चास्ति लोकप्रियत्वम्।
सङ्ख्या तत्क्रीडकानां लसति च कियती वर्तते किं जनेषु
उत्साहः सर्वं तदेतत् स्फुटमुदितधिया वीक्ष्य खेलाः प्रयोज्याः ॥

प्रवृत्तिः[सम्पादयतु]

मानवजीवने क्रीडाविनोदयोः अथवा खेलनकूर्दनयोः महत्त्वम् अतीव विशिष्टम् तथा तयोः स्थानं सर्वव्यापि विद्यते । आनन्द-ज्ञान-शक्तीनां त्रिवेण्यां स्नपयन्ती क्रीडा मानवमात्रं परिपोषयति । क्रीडया क्रीडकः शारीरिकं मानसिकं सामाजिकं च विकासं संसाधयितुं शक्नोति । धरणीपटले यदाप्रभृति मानवः स्वीयम् अस्तित्वम् उपयाति । तदाप्रभृति एव सः क्रीडायाः साहचर्यं समारभते । इत्थं खेलनप्रवृत्तेः शुभारम्भो जन्मनः पुरा एव भवतीति स्पष्टमेव । यतो हि –

मातुर्गर्भमुपागतः शिशुरहो ! लब्ध्वाऽऽत्मनश्चेतनां
मन्दं मन्दमुदस्य हस्तचरणान् खेलां विधत्ते पुरा ।
जन्मानन्तरमत्र बाल्यवयसि प्रीतः परैः खेलनैः
सर्वस्वं मनुते क्रमेण च पुनस्तामग्रिमे जीवने ॥४॥

जन्मनः कियत्कालानन्तरं बालः संज्ञां लभते । दृष्टेः श्रुतेश्च सत्तायां प्रवर्तितायां सत्यां तस्य पूर्वतनाः संस्काराः पुनर्नवतां दधाना मुखरीभवन्ति । खेला एव तदानीं तस्य सर्वस्वं भवति । यथा यथा शिशोः वयः वर्धते तथा तथा तदीयस्य वपुषो विकासोऽपि खेलनप्रवृत्त्या एव जायते । इयमेव विकासपरम्पराक्रमेण तस्मिन् सुतरां फलति । तत्र च –

शारीरकं मानसिकं च पश्चात् सामाजिकं प्राप्य विकासमत्र ।
नानाविधैः क्रीडनकैः क्रमेण क्रीडां विद्यते शिशुकोऽनुरक्तः ॥५॥

किञ्च मानवः सांसारिकीषु चिन्तासु क्लान्तिम् अनुभवन् यदा आत्मानं खिन्नखिन्नमिव पश्यति तदा कियते चित् कालाय ततः मोक्तुं क्रीडायाः शरणं वृणुते । तदीयं मनः खेलने रतं सद् विश्रान्तिम् अनुभवति, शान्तिं श्रयति विस्मरति च विषमा विपत्तीः । मनोविश्रान्त्या स भूयोऽपि सोत्साहं स्वकर्मसु प्रवर्तते । अत एवोच्यते –

विना मनःशान्तिमहर्निशं जनो
दूनोऽधनो विह्वल एव तिष्ठति ।
ततः शरीरं भवतीह निष्क्रियं
रुग्णं तथान्ते मरणं च जायते ॥६॥

आरोग्यरक्षार्थमतो हि खेला, नित्यं मनुष्यैः समुपासनीया । व्यायामवृत्त्या च वपुर्विशद्य, स्थिरं दृढत्वं तरसाऽर्जनीयम् ॥७॥

मन्ये अस्मादेव कारणात् अस्माकं पूर्वजाः समाजस्य सांस्कृतिकीम् अभिरुचिं परिचाययन्तः सकलस्य मानववर्गस्य मनोरञ्जनसाधनं साधयन्तः पारिवारिकं जीवनं जीवयितुं शिक्षयन्तः शारीरकं मानसिकं बौद्धिकं सामाजिकं विकासं च बोधयन्तः क्रीडाविनोदप्रवृत्तिपरम्परां प्रावाहयन् ।

इयं परम्परा पूर्वं कलायाः अङ्गत्वेन स्वीकृता । कला च कलयति स्वस्वरूपावेशेन तत्तद्वस्तु परिच्छिनत्तीति व्युत्पत्त्या स्वीयं स्वरूपं स्वयमेव आविष्कुर्वती व्यराजत् । किञ्च व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथिता सा – एतावता परमेश्वरस्य कर्तृत्वशक्तेः आविष्कर्त्री कला इति व्याख्याता । ज्ञान-शिल्प-विद्या-सत्यानुकरण-स्थापत्य-चित्र-नाट्य-सङ्गीतादि – विविधार्थेषु प्रयुज्यमानः कलाशब्दः

१. सौन्दर्य-माधुर्य-कोमलत्व-सुखप्रदातूत्वार्थकः
२. शब्दकरणार्थकेन धातुना वाद्यविद्यावबोधकः
३. कड् = मत्तकरणार्थकतया डलयोगभेद-विधानेन प्रसन्नतापादकस्तथा
४ कं = सुखं लाति = आदत्ते इति व्युत्पत्त्या सुखाधायकः प्रतिपादितः ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

"https://sa.wikipedia.org/w/index.php?title=क्रीडा&oldid=473338" इत्यस्माद् प्रतिप्राप्तम्