कस्माच्च ते न नमेरन्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(क्स्माच्च ते न - 11.37 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदिकर्त्रे अनन्त देवेश जगन्निवास त्वम् अक्षरं सत् असत् तत्परं यत् ॥ ३७ ॥

अन्वयः[सम्पादयतु]

महात्मन् ! गरीयसे ब्रह्मणः अपि आदिकर्त्रे ते कस्मात् च न नमेरन् ? अनन्त देवेश जगन्निवास ! त्वं सत् असत् (च) तत्परं यत् अक्षरम् (तदपि) ।

शब्दार्थः[सम्पादयतु]

महात्मन् = हे महात्मन् !
ब्रह्मणः अपि = हिरण्यगर्भादपि
गरीयसे = गुरुतराय
आदिकर्त्रे = तस्यापि जनकाय
ते = तुभ्यम्
कस्मात् च = केन हेतुना
न नमेरन् = न नमस्कुर्युः ?
अनन्त = अवधिरहित !
देवेश = सुराधिप
जगन्निवास = लोकावास !
त्वम् = भवान्
सत् = व्यक्तम् असि
असत् = अव्यक्तमसि
तत्परं = ताभ्यामपि श्रेष्ठम्
यद् अक्षरम् = यत् ब्रह्म (तदपि = तदप्यसि) ।

अर्थः[सम्पादयतु]

हे महात्मन् ! त्वं ब्रह्मणोऽपि जनकः । तादृशं त्वां जनाः किं कारणं न नमस्कुर्वन्ति ? अवश्यं ते नमस्कुर्वन्ति । हे जगन्निकेतन ! त्वं यदिदं व्यक्तं तदसि । यच्च अव्यक्तं तदसि । ताभ्यां परं यदक्षरं ब्रह्म तदप्यसि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कस्माच्च_ते_न_नमेरन्...&oldid=418519" इत्यस्माद् प्रतिप्राप्तम्