खण्डनत्रयप्रकरणटीकावैशिष्ट्यम्
खण्डनत्रयप्रकरणटीकावैशिष्ट्यम् | |
---|---|
खण्डनत्रयप्रकरणटीकावैशिष्ट्यम् |
उपाधिखण्डनप्रकरणम्
[सम्पादयतु]शास्रैकदेशप्रतिपाद्यवस्तुविमर्शकस्य ग्नन्थभेदस्य प्रकरणसंज्ञा । उपाधिखण्डनप्रकरणमिदं ब्रह्ममीमांसाशास्त्रप्रतिपाद्यभेदसमर्थनाय उपधिदूषणमुखेनाभेदपक्षप्रतिक्षेपाय च प्रवृत्तम् । उपाधिखण्डनादिप्रकरणत्रयेषु अद्वैतनयाभ्युपगतो जीवपरमात्मनोरौपाधिको भेद इति वादः, जीवाज्ञान-ब्रह्मज्ञान विश्वमित्थ्यात्वादिवादाश्च श्रीमज्जयतीर्थपूज्यचरणैः सप्रमाणं विमृष्टा निराकृताश्च । अत्र शारीरकभाष्य-भास्करभाष्य-इष्टसिध्दि-सङ्क्षेपशारीरक- न्यायमकरन्द-तत्त्वप्रदीपिकादिग्रन्थेषु विमृष्टा निर्णीताश्च विषयाः, पूर्वपक्षरुपेणानूदिताः खण्डिताश्च सप्रमाणम् । परकीयग्रन्थजातविमर्शनविचक्षणा, स्वाचार्याशयविशदनदीक्षा, मन्दजननन्दिनी, विद्वज्जनानन्दिनी च टीकात्र समुल्लसति । एतट्टीकाभाम्भीर्यवर्णने देवतोत्तमा एव समर्था, नाल्पदृशः । अत एवोक्तं परिमळाचार्यैः- टीकागाम्भीर्यमुध्दर्तुं व्यासतीर्थादयः क्षमा इति ।
तत्त्ववादिनां मते विषयादिसमर्थनमत्रैवं कृतं श्रीमज्जयतीर्थपूज्यपादैः –
परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्द्यात्मकस्यापि जीवस्य अनाद्यविद्याकामकर्मादिनिमित्तोऽयं परमार्थ एव अन्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादादृतेऽपगच्छति । न चासाक्षात्कृतोऽसौ प्रसीदति । न चाविदि-तस्वरुपः शक्यते साक्षात्कर्तुम् इति सकलगुणाकरतया निः शेषदोषगन्धविधुरतया च तं प्रतिपादयितुमशेषाम्नायाः प्रवर्तन्ते । तदुपकरणभूता च ब्रह्ममीमांसेति परमार्थः ।
अद्वैतवादिनस्तु
[सम्पादयतु]स्वतः परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञानैकनिबर्हणीय इत्यतोऽस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । तदितिकर्तव्यतारुपा ब्रह्ममीमांसा चेति मन्यन्ते ।
अद्वैतवाद्यभिमतविषयप्रयोजनादिकं निरस्य स्वाभिमतप्रमेयं प्रतिपादयितुमिदं प्रकरणमारभते भगवानाचार्यः –
- नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
- अशेषदोषरहितः प्रीयतां कमलालयः ॥
अत्राहुरद्वैतवादिनः –चीवब्रह्मणोरेकत्वं हि सकलवेदान्तप्रतिपाद्यम् । न चैतदगण्यगुणाश्रयत्वे नारायणस्य सम्भवति । अतादृग्रूपत्वाज्जीवस्य । न हि परस्परविरुध्दस्वभावयोरैक्यमुपपद्यते । अतो न नारायणो अगण्यगुणाश्रय इति ।
अत्र भगवत्पादीयं वचनम् – “ अज्ञताखिलसंवेत्तुर्घटते न कुतश्चन्” इति । जीवब्रह्मणोरैक्यप्रतिपादकत्वे शास्त्रस्यानारम्भणीयत्वं स्यात् । कथम् ? आरम्भणीयत्वप्रयोजकस्यानुबन्धचतुष्टयस्याज्ञानसिध्यधीनत्वात्तस्य च ब्रह्मभिन्नस्य मिथ्यात्वेन ब्रह्मण्येवाङ्गीकारः प्रसज्यते । न च सर्वज्ञस्य तस्याज्ञानं सम्भावयितुमपि शक्यते । ततश्चाज्ञानाभावे अज्ञातस्याधिकारिणोऽप्यभावः । तदभावे चाज्ञाननिवृत्तिलक्षणं प्रयोजनम् नोपपद्यते । एवं चैक्यस्य शास्त्रार्थत्वे अनुबन्धचतुष्टयाभावादनारम्भणीयत्वं शास्त्रस्यापाद्यते ।
अत्राहुरद्वैतवादिनः –“ यत्पुनः सर्वज्ञस्य ब्रह्मणः कथमविद्याश्रयत्वम् ? अविद्यावान् –सर्वज्ञ इति विप्रतिषेधात् इति । तत्राविद्यावत्तथैव सर्वज्ञत्वमिति ब्रूमः । सर्वं हि यो जानाति स सर्वज्ञः । तिस्रश्चास्य विधाः सम्भवन्ति । प्रमाणतो वा सर्वं जानीयात्, भ्रान्त्या वा स्वभावसिध्दया प्रज्ञया वा । न तावत् प्रामाणिको भेद इत्युक्तम् । न च भ्रान्तिरन विद्यस्य –इत्यपि । स्वरुपप्रज्ञयापि नान्तरेणाविद्याम् अशेषार्थसङ्गतिः । असङ्गत्वात् । असङ्गो ह्ययं पुरुष इति च श्रुतिः ।न चान्तरेणाविद्याम् अस्ति सम्बन्धः इत्युपपादितम् । अतः सर्वज्ञतापि परमात्मन अविद्यावत्तामाक्षिपत्येव न प्रतिक्षिपति” इति ।
अत्रोच्यते –मा भूत्प्रमाणेन मा च भूद् भ्रान्त्या स्वरुपज्ञानेनैव सर्वज्ञतामङ्गीकुर्मः । न चासङ्गो ह्ययमिति श्रुतिविरोधः । ‘असङ्ग’ शब्दस्य शुभाशुभपदार्थसम्बन्धकृतपुण्यपापरुपफललेपाभावमात्रार्थकत्वात् । न तु सम्बन्धविरहः । तथात्वे युगपत्सरपदार्थसम्बन्धरुपव्याप्तत्वव्याघातः । किञ्च भगवानेव “ यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय” इति; यथा वायुः सर्वत्र विद्यमानोऽपि तत्तत्पदार्थसम्बन्धकृतलेपाभावहेतुना ‘अस्ङ्ग’ उच्यते, तथा हमपीति व्यज्ञापयत् । न चासङ्गत्वं वायोस्तत्तत्पदार्थसम्बन्धविरहरुपम्; ‘आकाशस्थितः;’ ‘सर्वत्रग’ इत्युक्तिविरोधात् ।
“अखिलसंवेत्तुः” इत्यत्र समित्युपसर्गेण भ्रान्त्या सर्वज्ञतां वारयति (भगवत्पादाचार्यः)। ताच्छीलक तृन प्रत्ययेन प्रमाणाजन्यतामिति स्वभावज्ञानेनैव सर्वज्ञतोक्ता भवति । “आक्केस्तच्छीलतध्दर्मतत्साधुकरिषु” इत्यधिकृत्य ‘तृन्’ इति सूत्रेण विहितो यस्तृन् प्रत्ययः, स स्वभावार्थतामेव सूचयति । ततश्च भगवान् स्वभावत एव सर्वज्ञो भवितुमर्हतीति न तस्याज्ञानं साधयितुं सुकरमिति, ब्रह्माज्ञानवादोऽनुपपन्नः । एवं चाश्रयविषयानुपपत्या अज्ञानानुपपत्तिः सुस्थिरा ।
मायावादखण्डनम्
[सम्पादयतु]मायावादखण्डनप्रकरणेऽपि अद्वैतदर्शने अज्ञानानुपपत्तिः प्रकारान्तरेण् प्रतिपादिता । यदि शास्त्रं ब्रह्मैक्यमेव प्रतिपादयेत तर्ह्ययथार्थभूतैक्यप्रतिपादकत्वेनानारम्भणीयं स्यात् । ऎक्यप्रतिपादकत्वेऽयथार्थप्रतिपादकत्वं कथं इति चेत् इत्थं, -शास्त्रप्रतिपाद्यं ह्यैक्यं, ब्रह्मस्वरुपातिरिक्तम् । ब्रह्मस्वरुपातिरिक्तं च सर्वं मिथ्या । अतः ऎक्यमपि मिथ्यैव । तथा च मिथ्याभूतैक्यप्रतिपादकत्वाच्छास्त्रस्यानारम्भणीयत्वम् ।
नन्वैक्यं ब्रह्मभिन्नम्, अथापि सत्यमेव । न चेदानीं शास्त्रस्यायथार्थप्रतिपादकत्वरुपो दोषो विद्यत इति चेत्, न । ब्रह्मभिन्नस्य द्वितीयस्य वस्तुनो सत्यस्याङ्गीकारे अद्वैतहानिः । ब्रह्मस्वरुपानतिरेके चैक्यस्य स्वप्रकाशत्वादात्मनः सिध्दसाधनता ।
अद्वैतिनस्तु स्वविषयप्रकाशत्वं स्वप्रकाशत्वमिति नानुमन्यन्ते । तन्मते अवेद्यत्वलक्षणमेव स्वप्रकाशत्वम् अङ्गीकृतम् । तथा चात्मनोऽवेद्यत्वेन शास्त्रस्य तदप्रतिपादकत्वं स्यात् ।
अत्राहुः – ब्रह्म स्वप्रकाशतया भासमानमपि अविद्यावृतत्वान्न भासते च । ततश्चावरण्भूताविधानिवृत्तौ स्वरुपं सम्यक्प्रकाशते । तथा चावरणनिवारकतया शास्त्रस्य सार्थक्यं सम्भवति । तदुक्तं-“सिध्दं तु निवर्तकत्वात्” इति ।
अत्राहुराचार्याः –सिध्दत्वात्स्वरुपस्य विशेषाभावाच्च नाज्ञानं कस्यचिदावरकम् इति । अयमाशयः । स्यादेतदेवं यद्यज्ञानमावरणमुपपद्येत । न चैतत्सम्भवति । कुतः ? आवरणं ह्याव्रियमाणेन व्याप्तम् । न चाज्ञानस्य तदस्ति । तथा हि-किमज्ञानमात्मस्वरुपस्यावरणमाहोस्वित्तद्विशेषस्य ? नाद्यः, तस्य स्वप्रकाशत्वेन नित्य्सिध्दत्वात् । न द्वितीयः तदभावात् । तस्मान्नाज्ञानमावरकम् । तथा चावरणभूताज्ञाननिवर्तकतया शास्त्रस्य सार्थक्यं सिद्धमिति रिक्तं वचः ।
मिथ्यात्वानुमानखण्डनम्
[सम्पादयतु]प्रकरणस्यास्यारम्भे श्रीमज्जयतीर्थपूज्यचरणैः प्रास्ताविकतयेदमुक्तं- “जन्माद्यस्य यत इति सूत्रकारेणा जगदुदयादि निमित्तकारणत्वं परस्य ब्रह्मणो लक्षणमभिहितम् । न च जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवति । सापि न परोदीरित-प्रपञ्चमिथ्यात्वप्रमाणस्य आभासताव्युत्पादनेन विना उपपद्यत इति तदर्थमिदं प्रकरणमारभते भगवानाचार्यः” ।
विश्वमिथ्यात्ववादिनस्त्वाहुः –विमतं मिथ्या दृश्यत्वात् इत्यनुमानेन प्रत्यक्षागमानुगृहीतेन विश्वमिथ्यात्वे सम्भवति कथं तत्सत्यतोरीकरणम् इति उच्यते । विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवदित्यनुमानेन मिथ्यात्वे सिषाधायिषिते, जगतोऽभावादाश्रयासिध्दः पक्षः ।
विवृतोऽयमर्थः जयतीर्थपूज्यचरणैः –“इत्युक्ते जगतोऽभावादाश्रयासिध्दः पक्षः” इत्युक्तं भगवता । ननु जगतोऽभावादिति हेतुः सिध्दश्चेत्सिध्दं परस्याभिमतम् । किमप्रसिध्दविशेष्यता करिष्यति ? असिध्दश्चेत्तथापि । असिध्दाश्रयत्वसा धकाभावात् । मैवं, यदि जगदभावोऽत्र साध्यते, तदा जगतोऽभावात्साध्यधर्मस्य आश्रयासिध्दिः स्यात् । ततश्च विशेष्याभावात् विशिष्टाभाव इति प्रतिज्ञार्थो बाधितः स्यादित्येवं पराङ्गीकृतेन परस्य दोषोद्भावनम् इति ।
ननु मिथ्याशब्देन नासत्वमुच्यते अपि तु सदसद्विलक्षणत्वमेव इति चेत्, अत्रोक्तमाचार्यपादैः सदसद्वैलक्षण्ये मिथ्यात्वे सिध्दसाधनता । सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गिक्रियमाणे, विमतं सद्विलक्षणमसद्विलक्षणं चेति प्रतिज्ञार्थः स्यात् । तत्रासद्विलक्षणत्वं विश्वस्यास्माभिरभ्युपगतमेवेति सिध्दसाधनता ।
ननु सद्वैलक्षण्येन सहासद्वैलक्षण्यमत्र साध्यते । तत्कथमुक्तदोषः ? मैवम् । न हि सिध्दमसिध्देन सहोच्यमानम् असिध्दं भवति । सद्वैलक्षण्यविशिष्टासद्वैलक्षण्यसाधनाददोष इति चेत् तथापि सतोऽपि सदन्तरवैलक्षण्याङ्गीकारात्सिध्दसाधनतैव । विशिष्टसाधनाददोष इति चेत्, न देशकालपरिच्छिन्नेषु घटादिषु व्यवस्थाश्रयणेन सिध्दसाधनतैव । प्रकरणेऽस्मिन् टीकायां पद्मपाद –आनन्दबोध- चित्सुखाचार्यद्युक्तमिथ्यात्वस्वरुपः सङ्क्षेपेण दूषितः । एवमनैकान्तिकताग्रस्तं चैतदनुमानम् । दृश्यते त्वग्र्यया इत्यादि श्रुतिशतबोधितत्वेन आत्मनि दृश्यत्वं प्रमीयते । तत्र मिथ्यात्वस्य परवादिनोऽप्यसम्मतत्वेन व्यभिचारतादवस्थ्यम् ।
किञ्च प्रत्यक्षादिविरुध्दत्वात् ‘विश्वं सत्यम्’ इत्याद्यागमविरुध्दत्वाच्च मिथ्यात्वानुमानं बाधितम् । अनुसृत्य मानं ह्यनुमानम् । अनुमानस्य चोपजीवकतया उपजीव्यभूतप्रत्यक्षागमसिध्द एव विषयः तस्य भवेत् । ततश्च प्रत्यक्षागमसिध्दार्थमुपजीव्य अनुमानं प्रवर्तते । प्रत्यक्षादीनि च यथानुभवं विश्वसत्यतावगाहीन्येवेति तद्बाधितत्वान्नानुमानस्य बाधितस्य स्वार्थसाधकत्वम् ।
ननु कालत्रयाबाध्यत्वलक्षणं सत्वं कथं जगतः सिध्दमनुभवविरोधात् इति चेत्, तर्हि ब्रह्मणोऽपि तत्कथं सिध्दमनुभवविरोधात् । सत्यं, प्रत्यक्षाद्यनुपलम्भेऽपि तत्सत्यम् इत्याद्यागमाद्बह्मणः सत्यत्वं प्रतीम इति चेत् तर्हि तत् एवागमात् विश्वं सत्यम् इत्यादिरुपात् विश्वस्यापि सत्यत्वं सेत्स्यतीति ब्रूमः । न चात्र गौणार्थस्वीकारः । बलवद्बाधकोपनिपातनमन्तरेण तत्स्वीकारे अर्धजरतीयतापातात् । तदुक्तमाचार्यपादैः –प्रत्यक्षादिविरुध्दत्वात् विश्वं सत्यम् इत्यादि वाक्यिरुध्दत्वाच्च कालात्ययापादिष्टः इति ।
तस्माद्विश्वमिथ्यात्वं प्रमाणदूषितमिति भगवता सर्वज्ञसूर्येण, जयतीर्थमुनिनापि सुष्ठूपपादितमत्र । अशेषाद्वैतप्रकाण्डपण्डितविचारनिरसनमुखेनाचार्याशयविशदनविचक्षणायाः दीकायाः गाम्भीर्यवैशिष्ट्याद्युपवर्णने नास्मादृशः स्थूलदृशः समर्था इति अत्रैव विरम्यते ।
टिप्पणी
[सम्पादयतु]१. शास्त्रैकदेशसम्बध्दं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥ २. द्शप्रकरणानि प्. 315, Published by S.M.S.S. Poornaprajna Vidyapeetha, B’lore, 1969 ३. “न जीवप्राज्ञयोरेकत्वाभ्युपगमात् । भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् । न त्वन्यत्वमस्ति” । Brahmasutra with Sankarabhasya p. 153, Motilal Banarasidas, Varanasi, 1980 “यावदेव चायं बुध्युपधिसम्बन्धाज्जीवस्य जीवत्वं संसारित्वं च । परमार्थतस्तु न् जीवो नाम बुध्युपाधिसम्बन्धिपरिकल्पितस्वरुपव्यतिरकेणास्ति । न हि नित्यमुक्तस्वरुपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरुपणायामुपलभ्यते” Ibid, pa.287 “एवमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरुपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणायात्मैक त्वविद्या प्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते” Ibid, p. 4
४. दशप्रकरणानि, प.317 ५. (अ) न्यायमकरन्दः प्.323-324, Chowkhamba Sanskrit Series, Varanasi (आ) ब्रह्मैवाज्ञानि तस्मादिह भवितुमलं नापरं वस्तु किञ्चि
- त्तस्याज्ञानात्मकत्वान्न च तमसि तमस्तन्निवृत्तेरयोगात् ।
- नाज्ञानोऽत्थस्य विद्याजनिरिह घटते तां विना तन्न नश्यन्न
- ह्यज्ञानं विनश्येदवगतिजनकज्ञानजन्मान्तरेण ॥ सङ्क्षेपशारीरकम् अ. २,श्लो. २०८, p.577
आनन्दाश्रमसंस्कृतग्रन्थावलिः, ग्रन्थाङ्कः -८३, Poona, 1918 (इ)
- स्वरुपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम् ।
- तच्चोभयं विनाविद्यासम्बन्धं नैव सिध्यति । तत्त्वप्रदीपिका, चतुर्थापरिच्छेदः, श्लो-४,p.367
Published by Tukaram Javaji Nirnayasagar Press, Bombay, 1915
६.दशप्रकरणानि p. 319, A.B.M.M. Publication, Poorna Prajna Vidyapeeha, Bangalore-28
७.अपरोक्षव्यवहृतेर्योग्यस्याधीपदस्य नः ।
- सम्भवे स्वप्रकाशस्य लक्षणासम्भवः कुतः ? ॥ तत्त्वप्रदीपिका, प्र.प.श्लो.१, p.9
८. Published by Tukaram Jvaji Nirnayasagara Press, Bombay,1915
९.सिध्दं-शास्त्रस्य सार्थक्यं सिध्दं,निवर्तकत्वात्- भेदभ्रमनिवर्तकत्वादित्यर्थः । कस्येदं वचनमित्यत्र विवदन्ते ज्ञानवृध्दाः । सर्वप्रथमतयेदं वचनं भगवत्पादशङ्कराचार्यैः माण्डूक्यकारिकाभाष्ये वैतथयप्रकरणे समुध्दृतम् । यथा सिध्दं तु निवर्तकत्वादिति आगमविदां सूत्रम् । (मां.का. वैतथ्यप्रकरण ३२) अत्रागमवित्पदेन भगवत्पादाचार्यो ब्रह्मनन्दिनमाहेत्येके प्राहुः । आनन्दगिरिणा च माण्डूक्यकारिकाव्याख्याने उक्तेऽर्थे द्रविडाचार्यसम्मतिमाह –सिध्दं तु निवर्तकत्वादित्यादिग्रन्थेनेति वचनस्यास्य द्रविडप्रोक्तत्वमभ्युपेतम् । इष्टसिध्दिविवरणव्याख्याने ज्ञानोत्तमीये –सिध्दं-तत्त्वमस्यादिशाश्त्रस्य प्रामाण्यं ब्रह्मैकाभासबुध्युत्पादनेनाविद्यातत्कार्यनिवर्तकत्वात् । न तु संविज्जनकत्वादित्युक्तं ब्रह्मनन्दिभिरित्यर्थः इति ब्रह्मनन्दिप्रोक्तत्वं निरधारि । भगवत्पादशङ्कर- त्रोटक-पद्मपाद –प्रकाशात्मविमुक्तात्मप्रभृतिभिरद्वैतपारङ्गतैर्व्चनमिदं समुध्दृतम् । यावदत्र बलवन्निर्णायकानुपलब्धिः, तावद् द्रविडब्रह्मनन्द्योरैक्यं भेदेऽपि तस्यैवेदं वचनमिति निर्णयश्च् दुरवगाह एव ।
१०. दशप्रकरणानि p. 394, S.M.S.S. Publication, Poornaprajna Vidyapeetha, B’lore-28, 1969
११. तत्त्वप्रदीपिका p. 34, Nirnayasagara Press, Bombay, 1915 १२. दशप्रकरणानि. P.417 १३. दशप्रकरणानि. P.417 १४. दशप्रकरणानि P.430, S.M.S.S. Publication, Poornaprajna Vidyapeetha, B’lore-28, 1969