सामग्री पर जाएँ

श्रीगङ्गानगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गङ्गानगरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
श्रीगङ्गानगरमण्डलम्
मण्डलम्
राजस्थानराज्ये श्रीगङ्गानगरमण्डलम्
राजस्थानराज्ये श्रीगङ्गानगरमण्डलम्
Country भारतम्
States and territories of India राजस्थानम्
Area
  Total ११,१५४ km
Population
 (२००१)
  Total १९,६९,५२०
  Density ३०८/km
Website http://ganganagar.nic.in

श्रीगङ्गानगरमण्डलं (हिन्दी: श्री गंगानगर जिला, आङ्ग्ल: Sri Ganganagar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति श्रीगङ्गानगरम्

भौगोलिकम्

[सम्पादयतु]

श्रीगङ्गानगरमण्डलस्य विस्तारः ११,१५४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हनुमानगढमण्डलं, पश्चिमे पाकिस्थानदेशः, उत्तरे पञ्जाबराज्यं, दक्षिणे बीकानेरमण्डलम् अस्ति । अस्मिन् मण्डले ३०३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं श्रीगङ्गानगरमण्डलस्य जनसङ्ख्या १९६९५२० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८७ अस्ति । अत्र साक्षरता ७०.२५ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • श्रीगङ्गानगरम्
  • करणपुरम्
  • सदुलशहर
  • पद्मपुरम्
  • रायसिङ्घनगरम्
  • सूरतगढ
  • अनूपगढ
  • श्री विजयनगरम्
  • घरसाना

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • बरोर
  • गुरूद्वारा बुड्ढा जोहड
  • बाबा पम्पाराम स्मारकम्
  • लैला मजनू की मजार
  • मकबरा हजरत अलाउद्दीन चिश्ती
  • चनाना-धाम
  • अनूपगढ किला

इत्यादीनि ।

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=श्रीगङ्गानगरमण्डलम्&oldid=481826" इत्यस्माद् प्रतिप्राप्तम्