गणितक्षेत्रे भारतीयानां योगदानम्
नक्षत्राः | |
---|---|
खगोलशास्त्रेपि गणितशास्त्रस्य उपयोजनम् अनेके विचाराः सन्ति। |
पीठिका
[सम्पादयतु]गणितक्षेत्रे भारतीयानां योगदानं शून्यमिति सर्वविदितम् । किन्तु एतदतिरिच्यापि गणितक्षेत्रे भारतस्य योगदानं विपुलं वर्तते । अपि च तस्य योगदानस्य प्रभावः आधुनिकगणितशास्त्रे अपि वरीवर्त्ति इत्येव विशेषः । भारतीयसंस्कृतेः विकासे गणितम् अपि प्रमुखं पात्रं निरवहत् । अधुना जगति उपयुज्यमाना संख्यापद्धतिः भारतीयानां योगदानमेव । तथा च बीजगणितस्यापि मूलं भारतमेव । सिन्धुनागरिकता क्रिस्तपूर्वं ३००० वर्षेभ्यः प्रागेव प्रारब्धा । तदानीन्तनं प्रख्यातं नगरद्वयं हरप्प मोहेंजदारो इति । यदा प्राक्तनैः संशोधकैः इतिहासज्ञैः च एतयोः नगरयोः अवशेषाः ऐदम्प्राथम्येन प्राप्ताः तदा सिन्धुनागरिकतायाः जनजीवनस्य स्पष्टं चित्रणम् उपलब्धम् । तेषां पत्तनरचनाक्रमः भवननिर्माणविन्यासः च तेषां जनानां अगाधगणितज्ञानस्य निदर्शनानि । भवनानां प्रमाणानि दशमांशपद्धतेः अनुगुणम् आसीत् । सिन्धुनागरिकतायाः अपेक्षया प्राचीनं खगोलशास्त्रम् अपि गणितसिद्धान्तान् अवलम्ब्यैव निरूपितम् । अपि च त्रिकोणमित्यादिगणितक्षेत्रीयविकासे खगोलशास्त्रस्य योगदानं नितान्तं वर्तते ।
इतिहासः
[सम्पादयतु]वेदसाहित्ये अपि गणितशास्त्रस्य उपयोगम् अधिकृत्य अनेके विचाराः सन्ति । क्रिस्तपूर्वं १८०० तमस्य कालस्य शुक्लयजुर्वेदस्य शतपथब्राह्मणे यज्ञवेदिकायाः रचनायाः विषये सुदीर्घं विवरणं प्रदत्तम् । वेदस्य अनुबन्धाः चत्वारि शुल्बसूत्राणि सन्ति । बोधायनशुल्बसूत्रम् ( क्रि.पू. ६०० ) मानवशुल्बसूत्रम् ( क्रि.पू.७५० ) आपस्तम्भशुल्बसूत्रम् ( क्रि.पू. ६०० ) कात्यायनशुल्बसूत्रम् ( क्रि.पू. २०० ) एतानि शुल्बसूत्राणि तल्लेखकानां नामभिः एव विख्यातानि । तेषु पैथागोरस् संशोधनमिति कथ्यमानस्य प्रमेयस्य् अपि विवरणं वर्तते ।