गाब्रियोलो फालोपियस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Gabriele Falloppio
Gabriele Falloppio
जननम् 1523
Modena
मरणम् 9 October 1562
Padua
देशीयता Italian
कार्यक्षेत्राणि Anatomy
Medicine
संस्थाः Pisa
University of Padua
मातृसंस्थाः Ferrara
संशोधनमार्गदर्शी Antonio Musa Brassavola
शोधच्छात्राः Girolamo Fabrici
Volcher Coiter
विषयेषु प्रसिद्धः Medicine
धर्मः Catholic


(कालः – १५२३ तः ०९. १०. १५६२)

अयं गाब्रियोलो फालोपियस् (Gabriello Fallopius) प्रसिद्धः अङ्गरचनाशास्त्रज्ञः । अयं १५२३ तमे वर्षे जन्म प्राप्नोत् । एषः प्रख्यातस्य अङ्गरचनाशास्त्रज्ञस्य आण्ड्रियेस् वेसेलियसस्य शिष्यः । अयम् गाब्रियोलो फालोपियस् अपि गुरुः इव इटलीदेशस्य पादुअ–विश्वविद्यालये एव प्राध्यापकरूपेण नियुक्तः अभवत् । अयं गाब्रियोलो फालोपियस् कर्णस्य अन्तः विद्यमानानां भागानां विषये,जननेन्द्रियस्य अन्तररचनायाः विषये च गभीरम् अध्ययनं संशोधनं च अकरोत् । स्त्रीणाम् अण्डाशयतः गर्भाशयं प्रति अण्डं प्रापयन्तीनां नाडीनां विवरणं व्यवस्थितरूपेण कृतवान् । अयं गाब्रियोलो फालोपियस् एव विश्वे प्रथवारं जननेन्द्रयाणां नाडीनां संशोधनम् अकरोत् । तदर्थं तस्य स्मरणार्थं तासां नाडीनां नाम "फालोपियस् ट्यूब्स्” इत्येव उच्यते अद्यापि । सः १५६२ तमे वर्षे अक्टोबर्-मासस्य ९ दिनाङ्के मरणम् अवाप्नोत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गाब्रियोलो_फालोपियस्&oldid=352995" इत्यस्माद् प्रतिप्राप्तम्