गीताभाष्यम्
गीताभाष्यं मध्वाचार्यस्य भाष्यकृतिषु प्रथमाकृतिः भवति। अस्मिन् विषये अणुमध्वचरिते तथा ग्रन्थमालिकास्तोत्रेषु स्पष्टतया निरूपितं दृश्यते। तद्यथा, “गीताभाष्यं विधायादौ” अणुमध्वचरिते एवं वर्णितमस्ति। ग्रन्थमालिकास्तोत्रे “गीताभाष्यं चकारासौ प्रथमं तुष्टिदं हरेः” इति निरूपितम् अस्ति। अस्य भाष्यस्य प्रतिकृतिम् अच्युतप्रेक्षकाय तथा ज्येष्ठयतिवर्याय च दत्तवान् आसीत्। एकां मूलकृतिं बदरिक्षेत्राधिपाय श्रीनारायणाय समर्पितवान्। सन्तुष्टः वेदव्यासः आरम्भे एव विद्यमाने श्लोके पदव्यत्यासं कृतवान्। तद्यथा,
देवं नारायणं नत्वा सर्वदोषविवर्जितम्।
परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि शक्तितः॥
“शक्तितः” इति पदस्थाने “लेशतः” इति पदं संस्थाप्य एवम् आह, पूर्णप्रमतेः शक्तिः अल्पा इति अध्येतृणां भावः नस्यात् अतः पदव्यत्यासः।
ग्रन्थान्तरीयम्
[सम्पादयतु]महाभारतं पारिजातश्चेत् गीता अस्य मधु भवति इति वर्णितवान् अस्ति। यथा अस्य भाष्यनिरूपणम् अस्ति तथा नान्यस्य। आन्तं भाष्यं स्फुटतया निरूपितवान् अस्ति। “सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबन्ध” इति गीतायाः महत्वं निरूपितवान् अस्ति। द्वितीयाध्यायस्य “अशोच्चानन्वशोचस्त्वम्” इति श्लोकात् भाष्यं लिखितवान् अस्ति। प्रत्येकस्य श्लोकस्य भाष्यं न विद्यते। किन्तु प्रतिश्लोकस्य भावः यथा आगच्छेत् तथा भाष्यरचना कृता अस्ति। प्रज्ञावादः, वेदवादः, नेर्वेदः, एतेभ्यः पदेभ्यः, ’मा फलेषु कदाचन’, ’स्थित्वास्य मन्तकालेऽपि’, ’तस्य कार्यं न विद्यते’, ’कर्मणैव संसिद्धिमास्थिता जनकादयः’, ’वासुदेवः सर्वं’, ’सर्वधर्मान् परित्यज्य’, ’पण्डिताः समदर्शिनः’, ’समबुद्धिर्विशिष्यते’, ’क्षरश्चाक्षर एव च’, एतेभ्यः वाक्येभ्यः विशेष्यतया अर्थान् लिखितवान् अस्ति। एषा शैली गीताप्रपञ्चे विनूतना। विभूतियोगे चतस्रः विभूतयः निरूपिताः सन्ति। “मुनीनामप्यहं व्यासः”, “वृष्णीनां वासुदेवोऽस्मि”, “सिद्धानां कपिलो मुनिः”, “रामः शस्त्रभृतामहम्” एताः साक्षाद्विभूतयः भवन्ति। इन्द्रियेषु मनः, रुद्रेषु शङ्करः, गजेषु ऐरावतः, अश्वेषु उच्चैःश्रवः भवन्ति। सजातीय श्रेष्ठप्रदविभूतयः भवन्ति। “मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः” काकुस्वरः ग्राह्यः अत्र। तु कारे विद्यमानं स्वारस्यं, गतासूनगतांसूश्च इत्यत्र विद्यमान च कारस्य इव इत्यस्मिन् अर्थे अस्ति इत्यादि उत्कृष्टविवरणानि लभ्यन्ते।