गुजरातराज्यस्य प्रवासोद्यमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

यद्यपि गुजरातराज्ये अनेकानि प्रेक्षणीयस्थलानि सन्ति, तथापि वन्यप्राणिनां, पक्षिणां च संरक्षणकेन्द्राणि यानि अस्मिन् राज्ये सन्ति, तेषां विषये एव अत्र विवरणं दीयते । गुजरातराज्यस्य भूगोलस्य वैशिष्ट्यकारणात् अत्र अनेकानि तादृशानि केन्द्राणि सन्ति । गुजरातराज्यस्य वायव्ये दिशि कच्छमरुभूमिः अस्ति । अत्र केचन वन्यप्राणिविशेषाः सन्ति ये विश्वे अन्यत्र कुत्रापि न दृश्यन्ते । एवमेव गुजरातराज्यस्य आग्नेये दिशि विद्यमाने डाङ्गमण्डले आर्द्रारण्यानि सन्ति येषु विविधप्राणिपक्षिविशेषाः दृश्यन्ते । अत एव वन्यप्राणिषु, पक्षिषु च ये आसक्ताः तेभ्यः गुजरातराज्ये विद्यमानानि अभयारण्यानि, पक्षिधामानि, राष्ट्रियोद्यानानि च आकर्षणीयानि प्रेक्षणीयस्थलानि इत्यत्र न कश्चन संशयः ।

नळसरोवरपक्षिधाम[सम्पादयतु]

नळसरोवरे 'फ्लेमिङ्गो'-समूहः

गुजरातराज्ये विद्यमानं नळसरोवरपक्षिधाम न केवलं गुजरातराज्ये, अपि तु समग्रे भारते सुप्रसिद्धम् । नळसरोवरः, तं परितः विद्यमानः परिसरश्च नळसरोवरपक्षिधाम्नि अन्तर्भवति । अस्य विस्तृतिः १३० किलोमीटर्परिमितिः अस्ति । प्रत्यग्रवर्षेषु अत्र २५० पक्षिजातयः दृष्टाः सन्ति । पक्षिप्रेमिभ्यः इदं पक्षिधाम स्वर्गसदृशमेव वर्तते । विशेषतः शैत्यकाले अत्र शताधिकाः पक्षिजातयः नानादेशेभ्यः समागच्छन्ति । अतीव विरलाः सारसबकाः केवलम् अत्रैव दृश्यन्ते । एवमेव विश्वे विरलातिविरलाः गृध्राः अपि अत्र कदाचित् दृश्यन्ते । युग्मदूरेक्षिका('बैनोक्युलर्')साहाय्येन यदा सरोवरे पश्यामः तदा जलचरपक्षिणां दर्शनं जायते । यत्र पर्यटकेभ्यः सरोवरप्रवेशाय अनुमतिः अस्ति, तत्र नौकाः नौकाचालकाश्च तिष्ठन्ति । नौकासु उपविश्य सरोवरे विहर्तुं शक्यते । स्थानिकाः 'झाटपढारकोली'जातिजनाः नौकासु पर्यटकान् पक्षिणां समीपं नयन्ति । सरोवरे बहवः चक्रवाकाः अपि दृश्यन्ते । सरोवरे विद्यमानाः द्वीपाः केषाञ्चन पक्षिणां वासस्थानानि वर्तन्ते । 'फ्लेमिङ्गो', 'स्टोर्क्', 'ऐबिस्', 'स्पून्बिल्', 'मार्ष् हेरियर्', 'ग्रेटर् स्पोटेड् ईगल्', 'ओस्प्रे', 'पलस् फिश् ईगल्' इत्येते विदेशीयपक्षिणः अत्र दृश्यन्ते ।

कच्छप्रदेशस्य लघुरणः ('लिटल् रण् आफ् कच्छ्')[सम्पादयतु]

भारतीयवन्यगर्दभधाम्नि वन्यगर्दभौ

गुजरातराज्ये कच्छमण्डले रणे वन्यगर्दभधाम अस्ति । लघुरणः, तं परितः विद्यमानः परिसरश्च अस्मिन् अन्तर्भवति । इदं धाम ४९५० चतुरस्रकिलोमीटर्परिमितं विस्तृतम् अस्ति । समग्रे विश्वे वन्यगर्दभः केवलम् अत्रैव दृश्यते । अस्य गर्दभस्य वर्णः, आकारश्च सामान्यगर्दभेभ्यः भिन्नः वर्तते । 'नील-गाय'/'ब्लू बुल् एण्टिलोप्', 'ब्लेक्-बक्'/'इण्डियन् एण्टिलोप्', 'चिङ्कारा'/'इण्डियन् गेजेल्', वृकः, शृगालः इत्यादिवन्यमृगाः अस्मिन् परिसरे दृश्यन्ते । अत्र केचन विदेशीयपक्षिणः अपि दृश्यन्ते, यथा 'लार्क्', 'वीट्-इयर्' । 'मेक्क्वीन्स् बस्टर्ड्' नामकः विदेशीयपक्षी अत्र शैत्यकाले दृश्यते । मरुभूमेः अन्ते/सीमायां केचन लघुतडागाः, जलाढ्यप्रदेशाश्च सन्ति यत्र जलचरपक्षिणः दृश्यन्ते । तत्रैव शैत्यकाले 'फ्लेमिङ्गो', 'पेलिकन्', बकः, 'स्टोर्क्', चक्रवाकः इत्यादिपक्षिणः दृश्यन्ते । लघुरणः 'लेसर्-फ्लेमिङ्गो' इत्याख्यपक्षिणां सन्तानोत्पत्तिकेन्द्रमप्यस्ति ।

कच्छप्रदेशस्य हरितभूमिः ('ग्र्यास्-ल्याण्ड्स् आफ् कच्छ्')[सम्पादयतु]

कच्छ रणः

कच्छप्रदेशस्य हरितभूमिः, कच्छप्रदेशे विद्यमानाः तडागाश्च प्रमुखपक्षिप्रदेशत्वेन परिगण्यन्ते । विशेषतः 'बन्नी'नामकहरितभूमौ विद्यमानः 'चर्री'सरोवरः मुख्यपक्षिप्रदेशः । 'नलिया' इत्यस्य समीपे विद्यमाने लाला 'बस्टर्ड्' पक्षिधाम्नि तु 'ग्रेट् इन्डियन् बस्टर्ड्', 'मेक्क्वीन्स् बस्टर्ड्', 'लेस्सर् फ्लोरिकन्', 'लार्क्', 'वार्ब्लर्', 'वीट्-इयर्', 'स्याण्ड्ग्रौस्', 'ब्लेक् फ्रेङ्कोलिन्' इत्येते विदेशीयपक्षिविशेषाः दृश्यन्ते । 'स्टोलिक्स्कास् बुश्चेट्', 'वैट्-नेप्ड्-टिट्' इत्येतौ द्वौ विरलपक्षिविशेषौ अस्मिन् धाम्नि, 'बन्नी'नामकहरितभूमौ एव दृश्येते । 'ग्रे हैपोकोलियस्' इति कश्चन पक्षिविशेषोऽपि अत्र द्रष्टुं लभ्यते । शैत्यकाले 'बन्नी'हरितभूमौ 'टाव्नी' इत्यादिगरुडाः अधिकसङ्ख्यासु दृश्यन्ते ।

गीर राष्ट्रियोद्यानम् अभयारण्यञ्च[सम्पादयतु]

गीर राष्ट्रियोद्यानम् अभयारण्यञ्च
गीर अभयारण्ये एशियाखण्डस्य सिंहः

इदम् अभयारण्यं १४१२ चतुरस्रकिलोमीटर्परिमितं विस्तृतं वर्तते । अस्मिन् अभयारण्ये 'डेसिड्युअस्' वनानि, चिरहरितप्रदेशाः, हरितभूमिः, 'थार्न्-स्क्रब्' प्रदेशाश्च अन्तर्भवन्ति । एशियाखण्डस्य सिंहानाम् इदम् एकमात्रं वासस्थानम् । अस्मिन् अभयारण्ये बहवः चित्रव्याघ्राः ('लेपर्ड्स्') अपि दृश्यन्ते । भारते विद्यमानेषु अभयारण्येषु व्याघ्रसङ्ख्यादृष्ट्या अस्यैव अभयारण्यस्य प्रथमं स्थानम् अस्ति । अस्मिन् अभयारण्ये षष्ठ्यधिकत्रिशतसङ्ख्याकाः (३६०) सिंहाः, त्रिशताधिकाः चित्रव्याघ्राः ('लेपर्ड्स्') च सन्ति । 'साम्बार', हरिणः ('स्पोटेड्-डियर्'), 'चिङ्कारा गेजेल्', 'नीलगाय', 'चौसिङ्घ' इत्येते प्राणिनः अपि अस्मिन् अभयारण्ये दृश्यन्ते । 'एशियन् पेरडैस् फ्लैकेचर्', 'पैण्टेड् सेण्ड्ग्रौस्', 'ट्रीपै', 'हूपो' इत्येते अत्र दृश्यमानाः आकर्षकपक्षिणः सन्ति । इदम् अभयारण्यं 'चेञ्जबल् हाक् ईगल्', 'क्रेस्टेड् सर्पेण्ट् ईगल्' इत्येतयोः द्वयोः पक्षिविशेषजात्योः सन्तानोत्पत्तिकेन्द्रमप्यस्ति । अभयारण्ये विद्यमानासु नदीषु, वापीषु च मकराः विद्यन्ते ।

वेलावदर राष्ट्रियोद्यानम्[सम्पादयतु]

वेलावदर राष्ट्रियोद्याने 'ब्ल्याक्बक्'/'इण्डियन् एण्टिलोप्'-समूहः

वेलावदर राष्ट्रियोद्यानस्य 'सवन्ना'-सदृशहरितभूमौ 'ब्लेक्बक्/इण्डियन् एण्टिलोप्' अधिकसङ्ख्यायां दृश्यन्ते । अस्मिन् उद्याने अस्य प्राणिविशेषस्य महत्समूहाः एव दृश्यन्ते । इदम् उद्यानं भारतीयवृकस्य सन्तानोत्पत्तिकेन्द्रमस्ति । अस्मिन् उद्याने 'नीलगाय', वन्यबिडालकः ('जङ्गल् क्याट्'), शृगालः इत्यादयः प्राणिनः अपि दृश्यन्ते । वेलावदर राष्ट्रियोद्यानं पक्षिभ्यः अपि प्रसिद्धम् अस्ति । 'स्टोलिक्स्कास् बुश्चेट्', सारसबकः इत्यादयः विरलपक्षिणः अत्र दृश्यन्ते । शैत्यकाले इदम् उद्यानम् महत्सङ्ख्याकानां 'ह्यारियर् रूस्ट्' नामकविदेशीयपक्षिणाम् आवासस्थानं भवति ।