गुल्मार्ग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


’Medow of flowers’ , स्विट्झर्ल्याण्ड् आफ् इण्डिया’ इति प्रख्यातम् एतत् स्थानं जहाङ्गीरस्य प्रियं स्थानम् आसीत् ।पूर्वम् अस्य स्थलस्य गौरीमार्ग इति नाम आसीत् । अत्र हरितकटः प्रसारितः इव तृणावृतप्रदेशः सदा हरिद्वर्णेन भवति । वनपुष्पाणि अत्र सुन्दराणि सन्ति । सागरस्तरतः २७३० मीटर् उन्नतप्रदेशे एतत् स्थलमस्ति । युवानः अत्र पर्वतारोहणं कुर्वन्ति । अल्पथेरसरोवरं, बीड् चीनार वृक्षाः हिमे स्केटिङ्ग्, स्कीयिङ्ग्, ‘पोनी’ उपरि ट्रेकिङ्ग इत्यादीनि अतीवरमणीयानि ।

"https://sa.wikipedia.org/w/index.php?title=गुल्मार्ग&oldid=371417" इत्यस्माद् प्रतिप्राप्तम्