गुस्तावः मालेरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुस्तावः मालेरः
जन्म ७ जुलै १८६० Edit this on Wikidata
Kaliště Edit this on Wikidata
मृत्युः १८ मे १९११ Edit this on Wikidata (आयुः ५०)
वियना Edit this on Wikidata
शान्तिस्थानम् Grinzing Cemetery Edit this on Wikidata
शिक्षणस्य स्थितिः वियना विश्वविद्यालय, University of Music and Performing Arts Vienna Edit this on Wikidata
वृत्तिः Conductor, संगीत रचयिता, शास्त्रीय संगीतकार edit this on wikidata
भार्या(ः) Alma Mahler Edit this on Wikidata
अपत्यानि Anna Mahler, Maria Anna Mahler Edit this on Wikidata
जालस्थानम् http://www.gustav-mahler.org Edit this on Wikidata
गुस्तावः मालेरः

गुस्तावः मालेरः औस्त्रियदेशी हीब्रुवंशी च । अयं कश्चन उत्तमसंगीतरचयिता । ‍स १८६० तमे वर्षे बोहेमियदेशस्य कलिष्टनगरे अजायत । १९११ तमे वर्षे औस्त्रियदेशस्य वियेननगरे निधनं गतः। तेन नव वाद्यगणप्रबन्धाः संरचिताः । तस्मिन् मृते एकः असम्पूर्णः अतिष्ठत् । पृथिव्याः गीतम् इति नाम्ना अपि गायकसहितः वाद्यगणप्रबन्धः कश्चन अस्ति । अनेकानि गीतानि अपि तेन रचितानि सन्ति । प्रसिद्धः वाद्यगणनेता अपि आसीत् सः ।

गुस्तावस्य जन्मनः अनन्तरं मालरकुटुम्बम् इग्तौ इति नामकं नगरं प्रति प्रर्थितम् । अग्रे तत्रैव न्यविशत् । मालरस्य बाल्ये एव तस्य अनेके भ्रातरः विविधैः कारणैः अम्रियन्त । तस्य पिता अपि अतिहिंस्रः पुरुषः सन् आत्मजान् पत्नीं च बहुधा अपीडयत् । पितुः एप्सतैन् इति नामकस्य सङ्गीतपारङ्गतस्य च उपकारात् गुस्तावः वियेनसङ्गीतशालायाम् अभ्यासम् अकरोत् त्रीणि वर्षाणि यावत् । तत्र तु मालरस्य रुक्षस्वभावात् अनेके तस्य शत्रवः अभवन् । महान् सङ्गीतरचयिता अन्तोनः ब्रुक्नरः तस्य गुरुः सुहृत् च बभूव। सङ्गीतशालायां विद्यार्थी सन् एव प्रथमं संगीतप्रबन्धं स रचितवान् । शालां विहाय १८८० तमे वर्षे स वाद्यगणनेतुः कर्म कर्तुम् आरब्धवान् । बाद् हाल् इतिनाम्न्यां संगीतसभायां तस्य प्रथमं स्थानं प्राप्तम् । अस्मिन् एव वाद्यगणनेतुः कर्मणि मालरः भूयः भूयः यशः अलभत वर्तमानेषु वर्षेषु । तस्य तु स्वरचितं सङ्गीतं बहुजनः बहु न अमन्यत । १८९३ प्रभृति १८९६ पर्यन्तं प्रथमं द्वितीयं तृतीयं च वाद्यगणप्रबन्धान् कुमारस्य मायावेणोः नाम्ना वाद्यगणसहितं सङ्गीतसङ्ग्रहम् अपि स अरचयत् ।

१८९७ तमे वर्षे मालरः संराज्यसङ्गीतनाटकसभायां वाद्यगणनेतुः कर्म अलभत । औस्त्रियसंराज्ये सङ्गीतलोके इदम् उत्तमं स्थानं प्राप्नोत् । औस्त्रियसंराज्यस्य धर्मः रोमककतोलिकख्रिस्तधर्मः एव । अतः अस्मिन् स्थाने अधिष्ठात्रा रोमककतोलिकधर्मिणा एव भवितव्यम् । मालरस्य जातिधर्मे हिब्रुधर्मे अपि स श्रद्धावान् आसीत् । किन्तु हिब्रुः न कदाचित अभवत् । कञ्चित् कालं मालरः रोमककतोलिकधर्मवादी अभवत् । तस्य धर्मस्य अनेकाः मूलकल्पना मालराय अरोचन्त । इदम् अष्टमः वाद्यगणप्रबन्धः विशेषतः प्रकाशते यस्मिन् एहि विश्वकर्ता अध्यात्मन् इति नाम पुराणं ख्रिस्तधार्मिकं स्तोत्रं तेन सङ्गीते योजितम् । सर्वस्मिन् च मालरस्य सङ्गीते विशेषतः प्रथमस्य वाद्यगणप्रबन्धस्य तृतीये विभागे तस्य हिब्रुवंशित्वं व्यक्ततया दृश्यते । स तु तत्त्वतः न ख्रिस्तधर्मी वा न हिब्रुधर्मी वा अभवत् । स्वभावात् तु बहु अध्यात्मिकः तत्त्वचिन्तकः च पुरुषः आसीत् सः । विशेषतः जर्मनस्य तत्त्वज्ञस्य शोपन्हावरस्य उपनिषन्मूलः विचारः मालरस्य प्रियः अभवत् । स तु बहु अरण्यप्रियः आसीत् । अतः सर्वस्य वर्षस्य ग्रीष्मे काले स औस्त्रियस्य अचलप्रदेशे सङ्गीतरचनम् अकरोत् । दश वर्षेषु वियेनसङ्गीतनाट्यसभायां वाद्यगणनेता सन् मालरः सततं कलाश्रेष्ठतां प्राप्तुं प्रायतत । स कलाभक्तः कर्मयोगी च आसीत् । कला अध्यात्मिकं कर्म एव भवति इति तस्य निर्णयः आसीत् । अतः कलाकर्मणि आत्मानं च अन्यान् च सततं नियोजयत्। मालरसम्पादितायाः उत्तमायाः संस्कृत्याः तस्य नेतृत्वस्य च कालः तदानीन्तनस्य सङ्गीतलोकस्य कृतयुगः यथा तथा आसीत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुस्तावः_मालेरः&oldid=426968" इत्यस्माद् प्रतिप्राप्तम्