गोल्फ्-क्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Golf
Golfer swing.jpg
A golfer in the finishing position after taking a "tee shot"
नियामकगणः The Royal and Ancient Golf Club of St Andrews
प्रथमक्रीडा 15th century, Scotland
वैशिष्ट्यसमूहः
सम्पर्कः No
वर्गीकरणम् Outdoor
उपकरणम् Golf clubs, golf ball
उपस्थितिः
ओलिम्पिक् 1900 Summer Olympics

गोल्फ्-क्रीडा (Golf) कन्दुकक्रीडायां एका विशिष्टा क्रीडा ।

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

Golf player putting green 2003.jpg

अस्त्येतत् प्रसिद्धं यद् 'गोल्फ' -क्रीडायाः प्रारम्भः स्काट्लैण्डतोऽभवदिति । परं केचनेतिहासज्ञा एवमपि मन्यन्ते यदस्याः क्रीडायाः प्रादुर्भाव ईसातः पूर्वमेव समजायत । तेषां कथनमस्ति यत् तदानीं गोपाला वनेषु गाश्चारयन्तः कांश्चन प्रस्तरखण्डकान् स्वस्वयष्टिकाभिस्ताडयित्वा दूरेऽतिदूरेऽपसारयितुं यतन्ते स्म । एषा चेष्टा तेष्वतीवानुरागवती बभूव । मन्ये सैव शनैः शनैः परिष्कारं सम्प्राप्य साम्प्रतं 'गोल्फ्-क्रीडा’ पदमभजत् । भारतीया अपि वनेचराः पशुपाला इत्यमेव पशुचारणयष्टिभिः प्रस्तरखण्डताडनक्रीडायां प्रवृत्ता आसन् आभिलेखिकप्रमाणेनेदं ज्ञायते यदियं क्रीडा व्यवस्थितरुपेण प्रथमं स्काटलैण्डवासिभिः सन १६४० तमे वत्सरे क्रीडिता । तत्र कालान्तरेण १६०८ ई० वर्षे प्रसिद्धाया 'रायल् ब्लैक हीथ क्लब्’ संश्थायाः स्थापनमभूत् । 'एडिनबर्ग गोल्फिंग सोसाइटी’ स्थापना सन् १७३५ तमवर्षस्य निकटे सञ्जाता । तत्र सन् १७५४ तमवत्सरात् पूर्वं 'एंशेण्ट गोल्फ क्लब' स्थाप्नमपि समजायत । अनेनैव सङ्घटनेन तत्र प्रतियोगिताऽऽयोजिता । स्काटलैण्ड प्रथमो गोल्फक्रीडासमारोहः सन् १८८० तमे वत्सरे सम्पन्नः । ततः परमन्येषु देशेष्वप्यस्याः क्रीडायाः प्रचारोऽभवत् ।

भारतेऽस्याः क्रीडायाः प्रारम्भः प्रायः सार्धशतैकवत्सरेभ्यः पूर्वमभूदिति मन्यते । आङ्ग्लदेशीयाः सैनिकनगरिकादिसेवासु नियुक्ताः कर्माचारिणो यदा भारतमागतास्तदा तेषु केचन क्रीडारसिकाः कलकत्तामहानगर्यां क्रीडामिमां प्रारभ्य नियतरुपेण क्रीडितुं प्रावर्तन्त । शनैः शनैर्भारतस्यान्यान्येषु भागेषु अपि अस्याम् अनुरागहः अवर्धत । साम्प्रतं तु बहुषु नगरेषु 'गोल्फक्रीडासङ्घाः’ स्थापिताः सन्ति । कालान्तरेण महिला अपि गोल्फक्रीडायां रुचिमत्यो भूत्वा स्वतन्त्रं 'गोल्फक्रीडासङ्घम्’ अस्यापयन् । क्रमेण भारतीया विश्वक्रीडाप्रतियोगितास्वपि विजयं प्राप्य स्वदेशगौरवाभिवर्धनमकुर्वन् कुर्वन्ति च ।

क्रीडाङ्गणं क्रीडोपकरणानि च[सम्पादयतु]

क्रीडाङ्गणस्यायामविस्तारविवरविधानानि-

(क)क्रीडाङ्गणम् -गोल्फ्-क्रीडायाः प्राङ्गणमतीव विशालं भवति । प्रायः ६५०० गजमानात् ६८०० गजमानपर्यन्तमस्यायतत्वं निर्धार्यते । प्राङ्गणं स्वच्छं शाद्वलं च भवति । विस्तारस्य नास्ति कश्चन विशिष्टो नियमः ।
गाल्फ् क्रीडायाः वस्तूनिगाल्फ् कन्दुकम्

आधुनिकी‘कन्दौकपातन’ (Golf) सद्दशी काचित् क्रीडा प्राचीने चीनदेशे अपि क्रीड्यते स्म ।१४३ तमे क्रिस्तशके इयं क्रीडा च्युयवन् इति नाम्ना निर्दिश्यते स्म (‘च्युय्’ नाम घट्टनम्, ‘वन्’ नाम कन्दुकः) यष्ट्या चालयद्भिः भूमौ खातेषु गर्तेषु कन्दुकः।)यष्टया चालयद्भिः भूमौ खातेषु गर्तेषु कन्दुकः पातनीयः इति आसीत् क्रीडायाः नियमः । रोमनीयैः क्रीडयमाना ’पेगानिका’ क्रीडायां वक्रया यष्टया चर्मकन्दुकाः रन्ध्रे पातनीयाः आसन् । इयं क्रीडा रोमनजनैः एव अन्येषु युरोपदेशेषु परि-चायिता ।

इटल्याः गाल्फ् क्रीशाङ्गणस्य एकम् परिदृश्यम्.

इयं कन्दुकपातनक्रीडा स्काटलेण्डदेशे १४५२ तमे वर्षे राज्ञा द्वितीयजेम्सेन् प्रतिषिद्धा आसित् । यतः राजा भावयति स्म यत क्रीडायाः कारणात् सैनिकाभ्यासः सुष्ठुन प्रचलति, एतस्मात् जनाः धनुर्विद्यायाः द्वरं गच्छन्ति इति । १५०२ तमे वर्षे अयं पतिषेधः कन्दुकपातनक्रीडाभिमानिना राज्ञा चतुर्थजेम्सेन् अपसारितः । स्काटल्याण्ड राज्ञी मेरी १५६७ तमे वर्षे एतां क्रीडां क्रीडैतवती । एतां क्रीडितवतीषु प्रथमा महिला सा एव ।१७६४ तमे वर्षे अष्टादश्भिः गर्तैः युक्तं कन्दुकपातनक्रीडाङ्गणं निर्मितम् ।

क्रीडन्ती महिला.

कन्दुकपातनलघुक्रीडाङ्गणम् (Mini Golf Course) इत्येतत् अस्याः क्रीडायाः कलात्मकं सूक्ष्मं रुपम् अस्ति । प्राचीनतमं लघुक्रीडाङ्गणम् अस्ति स्काटलेण्डीयं महिला पुट्टिङ्ग् क्लब् यच्च १८३७ तमे वर्षे संस्थापितम् । अष्टादशभिः गर्तैः युक्तम् इदं क्रीडाङ्गणं ‘हिमालयास्’ इति कथ्येते । विंशतितमश्तकस्य आदौ रेखागणितीयानि कन्दुकपातनक्रीडाङ्गणानि निर्मितानि । १९७१ तमे वर्षे अमेरिकीयेण ‘अपोलो १४’ इत्यस्य निर्देशकेन आकाशयत्रिण चन्द्र -लोके कन्दुकपातनक्रीडा क्रीडिता आसीत् । २००६ तमस्य वर्षस्य नवेम्बरमासस्य २३ तमे दिनाङ्के रषियनीयेन गगनयात्रिणा मैकेल् ट्युरिनेन अन्ताराष्ट्रिये आकाशस्थानके (अस्य प्रायोजनं कृतं- केनडियनगाल्फमेकर्स एलिमेण्ट् २१ गाल्फ्’ इत्यनया संस्थया ) सूक्ष्मं शिथिलतमं कन्दुकं सुवर्णपट्टीकायुक्तया यष्टया ताडयता नूतनः इतिहास?ः निर्मितः । अन्तरिक्षे द्विः क्रीडिता क्रीडा एषा एका एव ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

गोल्फ्
(ख)विवराणि -प्राङ्गणे सामान्यतया १८ विवराणि भवन्ति येषां व्यासः ४-५ इञ्चमितस्तथाऽन्त्र्गहनता ४ इञ्चमिता क्रियते । क्वचित् सौविध्यानुसारं ६ विवराण्येव रचयन्ति । विवराणां चतुर्ष्वपि भागेषु व्याप्तं क्षेत्रं 'ग्रीन' इति कथयन्ति । हरितभागस्यास्य क्षेत्रस्य तृणानि कोमलानि स्वल्पस्वल्पानि सूक्ष्मतया कर्तितानि सम्पाद्यन्ते येन क्रीडकः कन्दुकं सारल्येन विवरे प्रविशयितुं शक्नुयात । द्वयोर्विवरयौर्मध्यभागस्य दूरता १०० गजमानादारभ्य ६०० गजमानं यावद् यथेच्छं विधीयते ।
(ग) टीइंग्-क्षेत्रम्-प्रत्येकं विवरस्य कृते क्रीडारम्भात पूर्वं सैकतिले‍ऽथवा प्लास्टिकनिर्मिते शङ्कौ कन्दुकः स्थाप्यते । तत्स्थानं 'टि’ इति निगद्यते । अस्यैव परितो वर्तमाना भूमिः 'टीइंग क्षेत्रनाम्ना परिचीयते । अस्मात् क्षेत्राद हरितभागं (ग्रीन) यावत् कन्दुकं प्रापयितुं यो मार्गो भवति तं 'स्वच्छः पन्थाः’ -फेयर -वे इति सम्बोधयन्ति । अयं मार्गः श्यातहारितः स्वच्छश्च भवति । अस्योभयतः प्रलम्बानि तृणान्युत्पन्नानि भवन्ति बहुषु स्थानेषु च सिकातायाः स्वल्प-स्वल्पाः खण्डा अपि स्थाप्यन्ते यान् 'बंकर' इति गदन्ति । एतेषु कन्दुकं पारयितुं विशिष्टं कौशलमपेक्षते । स्वच्छे पथि बहुत्र तु मार्गावरोधकं जलमपि भवति ।

क्रीडोपकरणानि[सम्पादयतु]

(क) कन्दुकः -गोल्फक्रीडायां कन्दुकस्य रचना पूर्वं क्रीडायाः प्रारम्भिकेषु दिनेषु पक्षिणां पक्षैर्निर्मीयते स्म । अनतिस्थूले कन्दुकाकृतिके चर्मणि पक्षान्यतीव दृढतया पूरयित्वा तच्चर्मसीवनं कुर्वन्ति स्म परं पक्षपूरितमिमं कन्दुकं ताडयित्वाऽधिकं दूरे प्रापयितुं न पारयन्ति स्म । अयं कन्दुकः १७५ गजमिते दूरप्रदेश एव प्रेषयितुं शक्यते स्म । अतस्ततः परं 'गटापारचा’ याः (गोंद-विशेषस्य )कन्दुको निर्मितः, अयं कन्दुकः प्रायो २२५ गजमितां दूरतां यावत् प्रापयितुं पार्यते स्म । एनं विवरे क्षेपयुतुमप्यपेक्षयाऽधिकं सार्ल्यमभवत् । अनेकेषु परीक्षणानामनन्तरमस्य कन्दुकस्य प्रयोग- १६४८ ईशवीयवर्षे प्रारभत । सन् १८६६ पर्यन्तमस्य कन्दुकस्योपयोगः प्राचलत् । ततः परम् अमेरिकायां विशिष्ट्प्रकारकस्य रबरनिर्मितस्य कन्दुकस्य प्रचलनमभूत । अस्य कन्दुकस्य भारस्तथा व्यासः समये समये परिवर्तिते अभूताम् । परिवर्तनानां मूलमुद्देश्यमिदमेवासीद् यत् कन्दुकोऽधिकाधिकं दूरे गन्तुं शक्नुयात् । सामान्यतः कन्दुकस्य भारः १.६२ औसमितस्तथा व्यासः १.६ इञ्चमितो भवति ।
(ख) क्रीडायष्टिकाः -‘क्लब' -नाम्ना सम्बोध्यन्ते । सामान्यस्तरीया गोल्फ-क्रीडकाः टीइंगक्षेत्राद विवरं यावत कन्दुकं प्रापयितुं भिन्न-भिन्ना प्रकारिकाश्चतुर्दशयष्टिकाः प्रयुञ्जन्ति । एतासु चतस्रो यष्टिकाः काष्ठस्य तथा दश यष्टिका लोहनिर्मिता भवन्ति । एकस्मिन् चक्रे कोऽपि क्रीडकः १४ यष्टिभ्योऽधिकाः प्रयोक्तुं नानुइमन्यते । एतासु प्रत्येकं यष्टेः पृथक पृथगभिधानमपि भवति किञ्चैतासां क्रमाङ्का अपि भवन्ति यैरेताः परिचेतुं शक्यन्ते ।
(ग) काष्ठयष्टिकानां क्रमाङ्का नामानि च
क्रमाङ्कः १ ड्राइवर

-इयं यष्टिः टीइंगक्षेत्रात् कन्दुकमधिकाधिकं दूरे प्रापयितुं प्रयुज्यते । अस्या आयामः ४२ तः ४३ इञ्चमितो भवति तथा भारः प्रायो १४ औसमितः । शिरोभागः स्थूलस्तथा लम्बरुपः सरलो भवति ।

क्र०: २: ब्रेसी (BRASSIE)

स्वच्छे पथि (फेयर वे) प्राप्तं कन्दुकमधिकतमे दूरप्रदेशे गमयितुमस्याः प्रयोगो विधीयते । अस्या आकृतिर्मनागल्पा तथोर्ध्वधरभागतः स्वल्पः कोणो निर्मितो भवति ।

क्र०:३: स्पून

ड्राइवर -ब्रेस्योस्तुलनायामस्या हस्तग्रहस्थली मनाग् लघु र्भवति । आकारोऽपि स्वल्पगभीरस्तथोर्ध्वधरतोऽपेक्षयाधिकान् कोणान् रचयन् दृश्यते । स्वच्छपथे पतितं कन्दुकं ब्रेसीतः समुचितं ताडनं न सम्भाव्येत तथा ड्रायवरतस्ताडनानन्तरं कन्दुकस्य विवरादप्यग्रे गमनं सम्भाव्येत् तदाऽस्याः प्रयोगः क्रियते ।

क्र०:४: ब्रेफी

स्पूनयष्टयास्तुलनायामस्याः शिरोभागो लघुस्तथाऽऽकारः स्वल्पगभीरो भवति । अस्य आकृतिरुर्ध्वधराभ्यां पर्याप्तं बृहतकोणं निर्माति ।

(घ) लोह्यष्टिकानां क्रमाङ्कास्तथा नामानि
क्र० :१: क्लीक-

इयं लोहनिर्मिता यष्टिका प्रलम्बहस्तकवती भवति । अस्या आकृतिरुर्ध्वाधराभ्यां सह कोणं विधत्ते काष्ठ्यष्टिकाभिर्यदि कन्दुकस्य १६० तः २०५ गजदूरताया अन्तराले प्रापणमिष्टं भवति तदैषा प्रयुज्यते ।

क्र०:२:मिड आयरन्

अस्या यष्टेराकृतिरुर्ध्वाधराभ्यां किञ्चिद बृहत्कोणं विदधाति । एतया कन्दुकः १८० गजतो १६० गजमानं यावद् गमयितुं शक्यते ।

क्र० :३: मिड मैशी

एषा कन्दुकस्य १६० तः १७५ गजमिते दूरस्थले गमनाय प्रयुज्यते ।

क्र० :४: मैशी आयरन

इमां १५० गजतः १६० गजमानं यावत् कन्दुकं गमयितुं प्रयुञ्जन्ति

क्र० :५: मैशी -

अनया ताडनेन कन्दुकः स्वल्पं मार्गं वायौ पारयित्वा ततः परं क्षेत्रे प्रसरणमारभते । एतया १४० तः १५० गजमितं मार्गं पारयितुं शक्यते ।

क्र०:६:स्पेड मैशी

यदि कन्दुकः कस्मिन्नपीदृशे स्थाने विल्ग्नो भवेद् यत्र तृणानि पर्याप्तं प्रलम्बानि तथा दीर्घाणि भवेयुस्तदा ततो बहिरानेतुं प्रायोऽस्या यष्टिकायाः प्रयोग आद्रियते । अस्याः साहाय्येन कन्दुकः १३० तो १४० गजपर्यन्तं पारयितुं शक्यते

क्र०:७: मैशी निबलिक- अनया कन्दुके विपरीता भ्रमि -(बैकस्पिन्)रुत्पद्यते । इयं क्रमाङ्क षडवदेव भवति तथा कन्दुकः १२५ तो १३५ गजमितायां दूरतायां प्रापयितुं शक्यते ।
क्र०:८: लाफ्टर् -

अस्य आकृतिरुर्ध्वधराभ्यामतीव विशालं कोणं निर्मातुं प्रभवति । कन्दुकः १२० तो १३० गजावधि क्षेप्तुं पार्यते ।

क्र०:९ निबलिक -

सैकतिलात् तथा प्रलम्बाधारवतो मार्गात् कन्दुकं गमयितुं यष्टिरियं प्रयुज्यते । अस्याः शिरोदेशोऽतीव स्थूलस्तथोर्ध्वधरतोऽतीवाधिकं कोणं निर्माति । ताडने विहिते सति कन्दुको वलनं विनोर्ध्वमुत्तिष्ठति तथा विपरीतां भ्रमिं विदधन भूमौ पतति ।

क्र० :१०: वेज

अस्या यष्टिकाया आकृतिरुर्ध्वधराभ्यां नानाकोणान् निर्मान्ती भवति । सैकतिलात् तथा लघु-लघु-सिकताखणशालि-प्रदेशात् कन्दुकं पारयितुमेषोपयुज्यते । यदा कन्दुको हरितप्रदेशे गतो भवति तदा तं विवरे पातयितुं पायो लघु-दृढ-हस्तकवत्या यष्टिकायाः प्रयोगः क्रियते । अस्या आकारः सरलो भवति एतदतिरिक्तं विवराणां परिधौ कतिपयाः शङ्कवोऽपि क्रीडोपकरणेषु पयुज्यन्ते । इत्थमियं क्रीडाऽतीव प्रमोदावहा भवति ।

१ क्रीडकास्तेषां नियमाश्च[सम्पादयतु]

(क) क्रीडकसंख्या -गोल्फक्रीडायां प्रतियोगिताधारेण क्रीडकसंख्या भिन्न-भिन्ना भवति । यथा-वाकर कप-प्रतियोगितायाम् अमरीका तथा इंग्लैण्डः स्वस्वदेशस्य दले ८-८ क्रीडकान् प्रेषयतः । 'राइडर कप' -प्रतियोगितायां ब्रिटेन स्तथामेरिकादेशौ भागं गृहणतः । तौ च प्रतिदलं ८-८ क्रीड्कान् तथा वैकल्पिक रुपेण २-२ क्रीडकौ प्रेषयतः । 'प्रमेरिका कप' -प्रतियोगितायां मैक्सिको-कैनाडाऽमेरिकाणां प्रतिनिधिक्रीडकदले ६ क्रीड्कास्तथा २ वैकल्पिकौ क्रीडार्थिनावित्यमष्टौ क्रीडार्थिनः प्रतिदलं क्रीडन्ति । एवमेव 'हापकिन्स कप'- प्रतियोगितायामपि भवन्ति ।
(ख)प्रतियोगिता-प्रकारौ नियमाश्च

अस्याः क्रीडायाः प्रतियोगिता द्वाभ्यां प्रकाराभ्यां सम्पद्यते (१) मैच प्ले तथा (२) मैडल प्ले । तत्र 'मैच प्ले’ प्रतियोगितायां द्वौ क्रीडकौ युगपत क्रीडतः किञ्च तयोः प्रतिस्पर्धा परस्परमेव भवति । इयं प्रतियोगिता १८ अथवा ३६ विवरेषु विधीयते । एतदर्थं निर्णयः प्रतिस्पर्धातः पूर्वमेव क्रीयते परिणामस्याधारः क्रीडकस्य विवराणां जयधिक्यं भवति । यः प्रतियोगी न्यूनैस्ताडानैः कन्दुकं विवरे प्रवेशयति स एव तस्य विवरस्य विजेता मन्यते । यदि द्वावपि क्रीडकौ समानानि ताडनानि विधाय कन्दुकं विवरे पातयतस्तदा ताभ्यामर्धमर्धं विवरं दीयते । एकं विवरमधिकं यो वुजयते स 'वन अप' उच्यते । मैच क्रीडनावाशिष्टानां विवराणां यावती संख्या भवति ततोऽधिकसंख्यायाम् 'अप्’ भवति क्रीडको विजेता मन्यते । यथा यद्येकस्य क्रीडकस्य परस्मात् त्रीणि विवराण्यधिकानि भवन्ति तथा क्रीडनाय विवरद्वयं शिष्टं भवति तदा प्रथमः क्रीड्को विजेता मन्यते ।

द्वितीयस्यां 'मैडल्-प्ले’ -प्रतियोगितायां यः क्रीडकः सर्वेषु विवरेषु कन्दुकक्षेपणाय न्यूनान्न्यूनानि ताडनानि करोति स एव विजयि भवति । पूर्वप्रतियोगितायां द्वयोः क्रीडाकयोर्मिथः स्पर्धा भवति परमस्यां भागं गृह्णतः प्रत्येकं क्रीड्कस्य स्पर्धा शिष्टैः सर्वेरपि क्रीडकैः सह भवति । एतयोः प्रतियोगितयोः प्रायो ७२ विवरेषु कन्दुकक्षेपस्य लक्ष्यं भवति । अनयोः 'प्रेमानुशील-प्रतियोगिताः’ 'मैच प्ले’ प्रक्रियाधारेण तथा 'प्रवृत्तिक -क्रीड्कानां प्रतियोगिता स्ताडनानामथवा 'मैडल-प्ले’ प्रक्रियया विधीयन्ते ।

(ग) हैण्डीकैप-प्रतियोगिता -अयमन्योऽप्येकः प्रतियोगिताप्रकारो मन्यते क्रीडकानां क्रीडासामर्थ्ये यदा भूयोऽन्तरं भवति तदा तेषु हैण्डीकैप्-आधारेण प्रतियोगिता आयोज्यन्ते । विभिन्नानां क्रीडाक्षमतावतां क्रीडकानां समानं स्तरं सम्पादयितुं विधीयमानानां ताडनानां सङ्ख्या 'हैण्डी-कैप' इति कथ्यते । क्रीडको यावानुत्तमो भवति तस्मौ तावत्येव न्यूना ताडनसंख्या (हैण्डीकैप)दीयते । श्रेष्ठानां क्रीडकानां (हैण्डीकैप) ताडनसंख्याः शून्यात्मिका भवन्ति तथा ते 'स्कैच -क्रीडकाः’ कथ्यन्ते ।

गोल्फ्-क्रीडाश्लोकः[सम्पादयतु]

क्रीडाक्षेत्रविनिर्मितेषु विवरेषूत्साहवान् क्रीडको
नानाऽऽकारवतीषु यष्टिषु कयाऽप्याताडयन् यत्नतः ।
लीलाकन्दुकमाशु पातयति यत् सा 'गोल्फ’संज्ञावती
क्रीडा लक्ष्यपरायणैः प्रमुदितैः सङ्क्रीडयते सन्ततम् ॥
क्रीडाक्षेत्रेऽथवा क्वाप्यतिविशदगृहे या दिवा वा निशायां
सानन्दं क्रीडनीया भवति रुचिकरी क्रीडकानां सुखाय ।
गोल्फ -क्रीडा’ऽभिधां तां विविधलकुटकैः कन्दुकं ताडयित्वा
गर्तेषु प्रक्षिपन्तो दधति कुशलतां क्रीडनोत्का धुरीणाः ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

External links[सम्पादयतु]

विकिपीडिया-जालस्य सहपरियोजनाभ्यः golf एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
परिभाषाः विकिशब्दकोषे
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
पाठ्यपुस्तकानि विकिपुस्तके

फलकम्:Golf फलकम्:Olympic sports

"https://sa.wikipedia.org/w/index.php?title=गोल्फ्-क्रीडा&oldid=389615" इत्यस्माद् पुनः प्राप्तिः