गोवर्धनाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


अयं गोवर्धनाचार्यो (Govardhanacharya) मैथिलदेशस्य पण्डितो वङ्गीयस्य राज्ञो लक्ष्मणसेनस्य सभायां आसीत् । तथा चोक्तम्-

गोवर्धनश्च शरणो जयदेव उपापतिः ।
कविराजश्च रत्नानि समितौ लक्ष्मणस्य तु ॥

श्रीजयदेवकविनाऽपि स्यर्यतेऽयम् – शृङ्गारोत्तरसत्प्र्मेयरचनैराचार्यगोवर्धनस्पर्द्धी कोऽपि न विश्रुतः । तदयं द्वादशशताब्द्या आदौ विद्यमान आसीदिति निश्चीयते, यतो लक्ष्मणस्य समयः तत्प्रवर्तितेन सम्प्रति प्रचरितेन संवत्सरेणैव निश्चितः ।

अनेन कविवरहालविरचितां प्राकृतमर्थी गायासप्तशतीमाश्रित्य आर्यामयो मुक्तकरुपः शृङ्गासर्वस्वभूतो ग्रन्थः आर्यासप्तशतीनाम्ना कृतो यो विद्वत्समाजे सुप्रसिध्दः । अस्य कवेरुवत्यैव ज्ञायते यदस्य शिष्य उदयनो भ्राता च बलभद्रनामा आसीत्, याभ्यामस्य ग्रन्थो लिखितः परिष्कृतश्च –

           उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे ।
                            द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥
मङ्गलाचरणत एवायं स्वयं शृङ्गारमयकैवित्वं व्यञ्जयितुं प्रारभते –
              मा वम् संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः ।
                        प्रातर्जयति सलज्जः कज्जलमलिनाधरः शम्भुः ॥
               सन्ध्यासल्लिज्जलिमपि कङ्कणफणिपीयमानमविजानन् ।
                       गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥

वस्तुतोऽस्यार्यासु शृङ्गारस्य मार्मिकी व्यञ्जना विद्यते, तद्विषये स्वयमुक्तं गोवर्धनेन- ‘मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्थाः । न केवलं शृङ्गारस्य कामकलाकलाप एवानेन प्रस्तुतोऽपि तु प्रणयस्य सौम्यं सत्त्विकौपमपि व्यञ्जितम्-

अन्यमुखे दुर्वादो यः प्रियमुखे स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः ॥

इदं तु सत्यं यत् गाथासप्तशतीमनुकुर्वती अपि आर्यासप्तशती गाथासप्तशतीवत् जीवनस्यान्यानि रहस्यानि नोद्घाटयति, तथापि शृङ्गारवर्णनमात्रे कुतोऽपि ग्रन्थादस्यापकृष्टता वक्तुं न शक्यते । क्वचित् क्वचिदनेन लोकवृत्तस्यापि साधु समावेशः कृतो । यथा –

भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमुखस्य ।
वृध्दस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोवर्धनाचार्यः&oldid=444048" इत्यस्माद् पुनः प्राप्तिः